वरदराजस्तवः-७
अङ्गानि ते निखिललोकविलोचनानां
सम्भावनीयगुण संसरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति
वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥ १७ ॥
अ: सम्भावनीयगुण ! ते अङ्गानि सत्यं निखिल-लोक-विलोचनानाम् संसरणानि, येषु एकम् अपि आप्य पुरा अधिगतं न स्मरन्ति, अदः विहाय अन्यत् अपि लब्धुम् न वाञ्छन्ति ।
O Lord of admirable qualities! Your limbs are truly highways where eyes of the whole world roam. Having reached any one limb, they do not remember what had been attained earlier. They do not desire to reach another limb leaving the limb attained.
Notes: The word “संसरण” also conveys the cycle of birth and death, where desire for past births or future births is dominated by the desire of the present birth.
एकत्र मन्मथमजीजनदिन्दिरायां
पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ
कासु प्रसन्नमधुरस्मितकामिनीषु ॥ १८ ॥
अ: अरविन्द-नाभ ! बुधाः पूर्वं भवान् एकत्र इन्दिरायां मन्मथम् अजीजनत् इति अपूर्वम् किम् आहुः? अद्य अपि प्रसन्न-मधुर-स्मित-कामिनीषु कासु तं न जनयसि?
Lord Padmanabha ! why do scholars say that your producing Manmatha, God of Love, in Lakshmi was a singular event? Even now do you not produce him in damsels who are smiling joyfully?
निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि
निर्यात इत्यधिप न त्वयि चित्रमेतत् ।
हृत्वा हठान्मृगदृशां हृदयानि यस्त्व-
मेवं निलीय किल तिष्ठसि शैलशृङ्गे ॥ १९ ॥
अ: अधिप ! कः अपि त्वयि हृत् निक्षिप्य निर्यातः पुनः न लभते इति एतत् त्वयि न चित्रम् , यः त्वं हठात् मृगदृशां हृदयानि हृत्वा एवं शैल-शृङ्गे निलीय तिष्ठसि किल ।
Lord ! If someone keeps his heart with you and goes away he will not get it back. It is not strange because having suddenly stolen the hearts of doe-eyed damsels you are hiding at the top of the hill.- - - -