भामिनीविलासः-७
साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान् निद्राति नारायणः ।
एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः
किं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम् ॥ ४१ ॥
अन्वयः : क्षीरार्णव! (तव) तीरे अर्कबिम्बोपमा मणयः
ग्रावगणैः साकं लुठन्ति । नीरे सः भगवान् नारायणः नीरचरैः समं निद्राति । एवं तव
अविवेकम् अपि उन्नतेः प्रौढिं च वीक्ष्य किं अहं त्वां निन्दानि अथवा स्तवानि? कथय
।
O Ocean of milk! On your shores gems which are like sun’s
orb lie side by side of heaps of stones. In your waters, the great Lord
Narayana sleeps along with other aquatic animals. Seeing thus your lack of
discretion and the great heights you have attained, shall I find fault with you
or praise you? [This refers to some person who although great cultivates the
company of the lowly.]
किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते ।
सलिलमपि यन्न तावकम् अर्णव वदनं प्रयाति तृषितानाम् ॥ ४२ ॥
अन्वयः : अर्णव! एतैः रत्नैः किम्? पुनः ते अभ्रायितेन
वपुषा किं ? यत् तावकं सलिलं तृषितानां वदनं न प्रयाति ।
Ocean! Of what use are these gems? Of what use is your
sky-like body? Your water does not enter the mouths of the thirsty. [Any so
called great person is worthless if he does not help the needy.]
इयत्त्यां सम्पत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरम्
कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४३ ॥
अन्वयः : कासार! अधुना सलिलानां इयत्त्यां सम्पत्तौ अपि
त्वम् आर्तानां तृष्णां सहसा यदि न हरसि, निदाघे चण्डांशौ परितः अङ्गारनिकरं
किरति, कृशीभूतः केषां (आर्तानां) तां (तृष्णां) परिहर्ता असि खलु ? अहह ।
O Lake, Even when there is so much of water wealth if you
are not able to quickly quench the thirst of the distressed, in
summer when the sun spreads around embers of charcoal, whose thirst can you,
having become emaciated, quench? [If a person when he has much wealth does not
share it with the needy, how can you expect him to be helpful when he falls into
bad times?]
अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः ।
जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान् न हा जहासि ॥
४४ ॥
अन्वयः: अयि वारिधे! यदि रोषं नो
उरीकरोषि चेत्, त्वां प्रति किमपि वदामः । तव अर्थिना जलदेन विमुक्तानि अपि
तोयानि, महान् (त्वं) न जहासि । हा ।
Dear Ocean, if you do not get angry we
tell you something about you. You do not leave the water that your supplicant
cloud releases. Alas! [Although clouds draw water from
the ocean, ocean does not hesitate to collect the water released by the cloud.
The poet suggests a situation where a benefactor stoops to collect what his
supplicants had thrown away.]
न वारयामो भवतीं विशन्तीम् वर्षानदि स्रोतसि जह्नुजायाः ।
न युक्तमेतत्तु पुरो यदस्याः तरङ्गभङ्गान् प्रकटीकरोषि ॥ ४५
॥
अन्वयः : वर्षानदि! जह्नुजायाः स्रोतसि विशन्तीं भवतीं न
वारयामः । अस्याः पुरः तरङ्गभङ्गान् प्रकटीकरोषि (इति) यत्, एतत् तु न युक्तम् ।
O storm water! We do not obstruct your entering into the
stream of Ganga. But displaying your folds of waves in front of her is not
correct. [A common man can certainly be in the presence of a great person. But
displaying his capabilities in front of the great is ill manners.]
पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहाम्
येनाघ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः ।
तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकांक्षति
त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रति ब्रूमहे ॥ ४६
॥
अम्बुज! पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां कुसुमानि
येन आघ्रात- -समुज्झितानि निर्जरैः आजघ्रिरे, तस्मिन् मधुव्रते अद्य विधिवशात्
माध्वीकम् आकांक्षति त्वं लोभम् अञ्चसि चेत्, त्वां प्रति किं ब्रूमहे ।
O Lotus!
If you display miserliness to a bee which is now, as fate would have it,
seeking honey (from you) what shall we speak about you? Even divine beings were
smelling the flowers of the divine trees which had been smelt and abandoned by
this bee in the garden
of Indra. [It is not an
ordinary bee. It had seen better days when it used to dwell on the flowers of
Indra’s garden. It should be treated with generous hospitality. Apparently the
poet has in mind a parallel where a person of eminence who had seen better days
is forced to seek shelter with an ordinary person.]
प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी-
पुञ्जे मञ्जुलगुञ्जितानि रचयन् तानातनोरुत्सवान् ।
तस्मिन्नद्य रसालशाखिनि दृशां दैवात् कृशामञ्चति
त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥ ४७
॥
अन्वयः: चञ्चरीक! कुसुमाकरस्य प्रारम्भे यस्य
उल्लसत्-मञ्जरी-पुञ्जे मञ्जुल-गुञ्जितानि परितः रचयन् तान् उत्सवान् आतनोः,
तस्मिन् रसाल-शाखिनि दैवात् दृशाम् कृशाम् अञ्चति, त्वं विनयं मुञ्चसि चेत्
त्वदन्यः नीचः कः अस्ति?
O bee! At the advent of spring
how well you celebrated by humming sonorously all around in the bunches of new
shoots that were appearing in the mango tree! When due to quirk of fate that
mango tree looks emaciated, if you were to lose your regard (for it), who could
be more worthless than you? [Apparently the poet finds fault with someone who
was only a friend in fine weather.]
- - - -
No comments:
Post a Comment