भामिनीविलासः-१५
व्योम्नि स वासं कुरुते चित्रं निर्माति सुन्दरं पवने ।
रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ ९८ ॥
अन्वयः : यः कहले सत्कारं कुरुते, सः व्योनि वासं कुरुते,
पवने सुन्दरं चित्रं निर्माति, सलिले तु रेखाः रचयति ।
One who does good to wicked person lives in the sky,
draws beautiful picture in air and draws lines on water! [Doing good to a
wicked person is as useful as doing any of the three mentioned !]
हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ॥ ९९ ॥
अन्वयः : मर्कटः केन अपि अज्ञेन वक्षसि दत्तं हारं लेढि,
जिघ्रति, आननं संक्षिप्य उन्नतं करोति ।
The monkey to whom some stupid person has given a
necklace, licks it, smells it and contracting his face puts it up. [What does a
monkey know of the value of a necklace?]
मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि॥ १०० ॥
अन्वयः : भ्रमर! त्वयि मलिने अपि रागपूर्णां, अनल्पजल्पे
अपि रागपूर्णां, चपले अपि सरसां च
सरोजिनीं कथं वा त्यजसि?
O bumble bee! Even though you are dark (have defects) it
is full of colour (love); even though you make noise endlessly (chatter) it is
fully open (has cheerful face); even though you are fickle-minded it is juicy
(light hearted); how at all do you neglect such a lotus plant? [The poet, using
श्लेष indirectly refers to the attitude of a fickle-minded
person towards a lady of stead-fast love.]
स्वार्थं धनानि धनिकात् प्रतिगृह्णतो यत्-
आस्यं भजेन्मलिनतां किमिदं विचित्रम् ।
गृह्णन् परार्थमपि वारिनिधेः पयोऽपि
मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ १०१ ॥
अन्वयः : धनानि स्वार्थं धनिकात् प्रतिगृह्णतः आस्यं
मलिनतां भजेत् इति यद् इदं किं विचित्रम्? अयं सकलः मेघः अपि परार्थम् अपि
वारिनिधेः पयः अपि गृह्णन्, कालिमानम् एति ।
What is there if the face of a person, who receives money
for his selfish ends from a rich person becomes pale? Even the whole cloud
which takes just water from the ocean for the sake of others becomes black.
जनकः सानुविशेषः जातिः काष्ठं भुजङ्गमैः सङ्गः ।
स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ १०२ ॥
अन्वयः : पटीरज! (तव) जनकः सानुविसेषः; जातिः काष्ठं;
भुजङ्गमैः सङ्गः; तथा अपि स्वगुणैः एव महिमानं यातः असि ।
O sandal wood tree! Your origination is a specific
mountain; you belong to the class of wood; your company is with snakes; even
then you have attained fame by your own qualities. [People endowed with innate
qualities shine irrespective of their heritage, class or company they keep.]
कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि
स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृताः
तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्धनम् ॥ १०३ ॥
अन्वयः : सज्जन! कस्मै फलाय गुणग्रामार्जने सज्जसि? हन्त,
स्वात्मिपस्करणाय चेत् मम पथ्यं वचः समाकर्णय । शोभाभरैः सम्भृताः
ये भावाः हृदयं नितरां हरन्ति तैः एव अस्य कलेवर-पुषः कलेः
दैनन्दिनं वर्धनम् ।
O good man, for what purpose do you indulge in earning a
host of good qualities? If you want to embellish yourself, listen to my words
of comfort.
It is those manners which are full of things heavy with
luster and which very much attract the hearts that enables Kali, the nurturer
of the body to grow every day. [ Kaliyug, the last of the four yugs is
characterized by general degeneration where it is not the internal qualities of
the mind that matter but only external appearance and show.]
धूमायिता दशदिशो दलितारविन्दा
देहं दहन्ति दहना इव गन्धवाहाः ।
त्वामन्तरेण मृदुताम्रदलाम्रमञ्जु-
गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥ १०४ ॥
अन्वयः : मृदु-ताम्र-दल-आम्र-मञ्जु-गुञ्जन्-मधुव्रत मधो!
त्वाम् अन्तरेण कोकिलस्य दलितारविन्दा दशदिशः धूमायिता; गन्धवाहाः दहना इव देहं
दहन्ति किल ।
O spring time, when the bees
buzz pleasantly on the mango tree having soft coppery shoots! Without you the
cuckoo finds all the directions to be smoky with the lotuses torn asunder and
its body being burnt by the wind like fire. [ The poet imagines that the cuckoo
finds its life miserable without the spring, which is the main source of
strength for it. He thereby suggests that the talent of a talented person
withers without the proper support.]
- - - -
No comments:
Post a Comment