भर्तृहरिशतकत्रयी-४०
प्रियसख विपद्दण्डाघातप्रवातपरम्परा-
परिचयबले चिन्ताचक्रे निधाय विधिः खलः ।
मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालवत्-
भ्रमयति मनो नो जानीमः किमत्र विधास्यति ॥ नी-८८ ॥
अ: प्रियसख! खलः विधिःप्रगल्भ-कुलालवत् मनः विपत्-दण्डा-आघात-प्रवात-परम्परा-परिचय-बले चिन्ता-चक्रे निधाय मृदम् इव बलात् पिण्डीकृत्य भ्रमयति । अत्र किं विधास्यति नो जानीमः ।
Dear friend! The mischievous Fate like a potter places (our) mind consolidating it into a heap like mud on the potter’s wheel of worries which runs by the force of the stick of recurrent adversities and rotates it. What exactly he wants to make we do not know.
विरम विरमायासादस्माद्दुरध्यवसायतः
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे ।
अयि जड विधे कल्पापायेऽप्यपेतनिजक्रमाः
कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ नी-८९ ॥
अ: अयि जड विधे ! अस्मात् दुर्-अध्यवसायतः आयासात् विरम विरम, यत् विपदि महतां धैर्य-ध्वंसम् ईक्षितुम् ईहसे । कल्प-अपाये अपि न अपेत-निज-क्रमाः कुल-शिखरिणः, एते क्षुद्रा जल-राशयः न वा ।
You stupid Fate stop exerting yourself by trying to see if you could destroy the courage of great men. They are like mountains during the time of the end of Kalpa and they are not like insignificant streams.
दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकॄतं
तत्तस्योपनमेन्मनागपि महानैवाश्रयः कारणम् ।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ नी-९० ॥
अ: प्रभुणा दैवेन स्वयं जगति यत् यस्य प्रमाणीकृतं तत् तस्य उपनमेत्, महान् आश्रयः न कारणम् एव । सर्व-आशा-परिपूरके जलधरे प्रत्यहं वर्षति अपि, सूक्ष्माः द्वित्राः एव पयो-बिन्दवः चातकमुखे पतन्ति ।
What has been ordained by the Lord Fate is what any one gets and it is not because of his benefactor. Although clouds which fill all the directions rain every year, only a few tiny drops fall into the mouth of a Cataka bird.
--
स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशः
निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः ॥ शृ-८८ ॥
अ: हृद्य-आमोदाः स्रजः, व्यजन-पवनः चन्द्रकिरणाः परागः कासारः विशदं शीधु,शुचिः सौध-उत्सङ्गः प्रतनु वसनं पङ्कजदृशः निदाघ ऋतौ विलसति सुकृतिनः एतत् लभन्ते ।
Enchanting fragrant garlands, breeze of a fan, moon-light, pollen of flowers, a lake, clear liquor, palace terrace, very thin clothing, lotus-eyed ladies, all these are available for the lucky while summer flourishes.
सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभि ।
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ शृ-८९ ॥
अ: सुधा-शुभ्रं धाम, स्फुरत्-अमल-रश्मिः शशधरः, प्रिया-वक्त्र-अम्भोजं, अति-सुरभि चन्दन-रजः च, हृद्य-आमोदाः स्रजः, रागिणि जने तत् इदम् अखिलं अन्तः-क्षोभं करोति, विषय-संसर्ग-विमुखे न ।
Milk-white residence, moon with glistening clear rays, the lotus-like face of a beloved, fragrant sandal dust, enchanting fragrant garlands all these bring distress to lovelorn men, but does not affect those who have turned away from sensual pleasures.
तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोदरभारा
प्रावृट् तनुते कस्य न हर्षम् ॥ शृ-९० ॥
अ: उद्दीपित-कामा विकसत्-जाती-पुष्प-सुगन्धिः उन्नत-पीन-पयोदर-भारा प्रावृट् कस्य हर्षं न तनुते?
Who does not feel joyful during rainy season which is weighed down by heavy rain-bearing clouds and which enhances romantic desires with its fragrance of blossoming Jati flower like a woman who is romantically inclined who is bearing fragrant Jati flowers and who is weighed down by heavy breasts? [The poet brings out the similarity through श्लेष pun.]
--
स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ वै-८८ ॥
अ: विभो! स्मर-अरे! गाङ्गैः पयोभिः स्नात्वा, त्वां शुचि-कुसुम-फलैः अर्चयित्वा, क्षितिधर-कुहर-ग्राव-पर्यङ्क-मूले ध्येये ध्यानं निवेश्य, त्वत्-प्रसादात् आत्मा-आरामः फल-आशी गुरु-वचन-रतः स-मकर-चरणे पुंसि सेवा-समुत्थं दुःखं कदा अहं मोक्ष्ये?
Lord! Enemy of Cupid! When will I by, your grace, after bathing in Ganga, worshipping you with fresh flowers and fruits, meditating on Brahman, who needs to be meditated upon, on a stone seat in the cave of a mountain, feeling mental tranquillity eating only fruits listening to the words of the preceptor, shed my grief arising from my service to a king with Makara marks on his feet ?
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ वै-८९ ॥
अ: शम्भो! एकाकी निःस्पृहः शान्तः पाणि-पात्रः दिगम्बरः कर्म-निर्मूलन-क्षमः कदा भविष्यामि?
When will I become capable of uprooting my Karma by staying in solitude, without any desire, calm, with my hands being my begging bowl and shedding my clothes?
पाणिं पात्रयतां निसर्गशुचिना भिक्ष्येण सन्तुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा-
मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ वै-९० ॥
अ: पाणिं पात्रयतां, निसर्ग-शुचिना भिक्ष्येण सन्तुष्यतां, यत्र क्व अपि निषीदतां, तनोः अ-त्यागे अपि अखण्ड-परमानन्द-अवबोध-स्पृशां, विश्वं मुहुः बहु-तृणं पश्यतां योगिनां कः अपि शिव-प्रसाद-सुलभः अध्वा सम्पत्स्यते ।
Contemplative ascetics acquire, due to grace of Shiva, an indescribable easily negotiable way of living by using their hands only as a bowl, feeling satiated by the naturally clean alms, staying anywhere, feeling the realization of continuous ultimate bliss and considering all this world as worthless as straw.- - - -
No comments:
Post a Comment