भामिनीविलासः-४०
अथ भामिनीविलासे तृतीयः करुणाविलासः
Now starts the third section of Bhamnivilasa on Compassion
दैवे पराग्वदनशालिनि हन्त जाते
याते च संप्रति दिवं प्रति बन्धुरत्ने।
कस्मै मनः कथयितासि निजामवस्थाम्
कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १ ॥
अन्वयः : मनः! दैवे पराग्वदनशालिनि जाते, दिवं प्रति बन्धुरत्ने याते, संप्रति कस्मै निजाम् अवस्थां कथयिता असि? तव आधिं कः शीतलैः वचनैः शमयिता?
O mind! When the fate is not favourable and the gem among relatives has left for heaven, now to whom will you tell your real state and who is there to relieve you of your pains with kind words? [Lamentations of a bereaved person.]
प्रत्युद्गता सविनयं सहसा पुरेव
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।
मामद्य मञ्जुरचनैर्वचनैश्च बाले
हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २ ॥
अन्वयः : बाले! स्मरस्य सचिवैः सरसावलोकैः स्मेरैः सविनयं प्रत्युद्गता (त्वं) पुरा इव अद्य मञ्जुरचनैः वचनैः च लेशतः अपि कथं न शिशिरीकरोषि? हा ।
Young lady! How is it that you who would get up with courtesy suddenly with smiles and charming glances which are the helpers of Cupid now do not cool me with your pleasantly composed words even to a small extent? Alas!
सर्वेऽपि विस्मृतिपथं विषयाः प्रयाताः
विद्यापि खेदकलिता विमुखीबभूव ।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥ ३ ॥
अन्वयः : सर्वे अपि विषयाः विस्मृतिपथं प्रयाताः; खेदकलिता विद्या अपि विमुखीबभूव; सा हरिणसावकलोचना मे हृदयात् अधिदेवता इव न एव अपयाति ।
All sensory objects are forgotten; knowledge possessed with difficulty has turned away (from me); Only that doe-eyed lady does not move away from my mind as if she is my guardian angel.
निर्वाणमङ्गलपदं त्वरया विशन्त्या मुक्ता दयावति दयापि किल त्वयासौ ।
यन्मां न भामिनि निभालयसि प्रभातनीलारविन्दमदभङ्गिमदैः कटाक्षैः ॥ ४ ॥
अन्वयः : दयावति भामिनि! निर्वाणमङ्गलपदं त्वरया विशन्त्या त्वया असौ दया अपि मुक्ता किल, यत् प्रभात-नील-अरविन्द-मद-भङ्गि-मदैः कटाक्षैः मां न निभालयसि ।
Merciful lady! Hastily entering the auspicious state of eternal peace, you have left behind even your kindness as you did not look at me with your glances which are proud of having broken the pride of morning blue lotuses. [Perhaps a lamentation of a lover as his lady-love departs from this world.]
धृत्वा पदस्खलनभीतिवशात् करं मे या रूढवत्यसि शिलाशकलं विवाहे ।
सा मां विहाय कथमद्य विलासिनि द्यामारोहसीति हृदयं शतधा प्रयाति ॥ ५ ॥
अन्वयः : विलासिनि! या विवाहे पदस्खलनभीतिवशात् मे करं धृत्वा शिलाशकलं रूढवती असि सा अद्य कथं मां विहाय द्याम् आरोहसि इति हृदयं शतधा प्रयाति ।
Playful lady! How is it that you, who during marriage stepped on the seat of stone holding my hand fearing a false step, have gone up to heaven leaving me? My heart breaks into hundred pieces.
- - - -
No comments:
Post a Comment