भामिनीविलासः-४६
बन्धोन्मुक्त्यै
खलु मखमुखान् कुर्वते कर्मपाशान्
अन्तःशान्त्यै
मुनिशतमतानल्पचिन्तान् भजन्ति ।
तीर्थे मज्जन्त्यशुभजलधेः
पारमारोढुकामाः
सर्वं प्रामादिकमिह
भवभ्रान्तिभाजां नराणाम् ॥ २२ ॥
अन्वयः : बन्धोन्मुक्त्यै
मखमुखान् कर्मपाशान् कुर्वते । अन्तःशान्त्यै अल्पचिन्तान् मुनिशतमतान् भजन्ति । अशुभजलधेः
पारम् आरोढुकामाः तीर्थे मज्जन्ति । इह भवभ्रान्तिभाजां नराणां सर्वं प्रामादिकम् ।
For getting
released from the bindings of worldly life (people) make fetters of action(karma)
in the form of sacrifices. For obtaining internal peace they go to hundreds of
religions of sages who have little thought. In order to rise up from the banks
of ocean of the inauspicious they get into the sacred waters. Here in this
world people who are deluded by worldly life do everything in a contrary manner.
प्रथमं चुम्बितचरणा
जङ्घाजानूरुनाभिहृदयानि ।
आश्लिष्य भावना
मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ २३ ॥
अन्वयः : मे भावना
प्रथमं चुम्बितचरणा विष्णोः जङ्घा-जानु-ऊरु-नाभि-हृदयानि आश्लिष्य मुख-अब्ज-शोभायां खेलतु ।
May my
thought after having kissed the feet, embracing the shanks, knee, thigh and the
navel play in the luster of the lotus-face of Vishnu.
मलयानिलकालकूटयो
रमणीकुन्तलभोगिभोगयोः ।
श्वपचात्मभुवोर्निरन्तरा
मम भूयात् परमात्मनि स्थितिः ॥ २४ ॥
अन्वयः : मम परमात्मनि
स्थितिः मलयानिल-कालकूटयोः रमणीकुन्तल-भोगिभोगयोः श्वपच-आत्मभुवोः निरन्तरा भूयात्
।
May my stay
be eternal in the Supreme Spirit such that I do not perceive any difference
between the breeze from the Malaya mountains and the deadly poison, between the
braids of a damsel and the hood of a serpent, between the Brahma and the low-caste
who eats dog’s meat.
निखिलं जगदेव नश्वरं
पुनरस्मिन्नितरां कलेवरम् ।
अथ तस्य कृते कियानयं
क्रियते हन्त जनैः परिश्रमः ॥ २५ ॥
अन्वयः : निखिलं
जगत् एव नश्वरम्; पुनः अस्मिन् कलेवरं नितरां (नश्वरम्) । अथ तस्य कृते जनैः कियान्
अयं परिश्रमः क्रियते । हन्त ।
This whole
world is transient. In that world again this body is more so. And having known
that, how much of effort is put in by people for the sake of the transient
body? Alas!
प्रतिपलमखिलान्
लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हन्त किमिति
चित्तं विरमति नाद्यापि विषयेभ्यः ॥ २६ ॥
अन्वयः : अखिलान्
लोकान् प्रतिपलं मृत्युमुखं प्रविशतः निरीक्ष्य अपि, अद्य अपि विषयेभ्यः चित्तं किम्
इति न विरमति? हा हन्त!
Even having
seen every minute the whole worlds getting into the jaws of death why is it
that the mind does not desist from indulging in worldly pleasures? Alas!
सपदि विलयमेतु
राज्यलक्ष्मीः उपरि पतन्त्वथवा कृपाणधाराः ।
अपहरतुतरां शिरः
कृतान्तो मम तु मतिर्न मनागपैतु धर्मात् ॥ २७ ॥
अन्वयः : राज्यलक्ष्मीः
सपदि विलयम् एतु; अथवा कृपाणधाराः उपरि पतन्तु; कृतान्तः शिरः अपहरतुतराम्; मम मतिः
तु धर्मात् मनाक् (अपि) न अपैतु ।
Let the
stately wealth get destroyed; let the sharp edge of the sword fall on me; let
the God of death take away my head; but let not my mind swerve even slightly from
the path of righteousness.
अपि बहलदहन जालं
मूर्ध्नि रिपुर्मे निरन्तरं धमतु ।
पातयतु वासिधारामहमणुमात्रं
न किञ्चिदपभाषे ॥ २८ ॥
अन्वयः : मे रिपुः
बहलदहनजालम् अपि मे मूर्ध्नि निरन्तरं धमतु; असिधारां वा पातयतु; अहम् अणुमात्रं किञ्चित्
न अपभाषे ।
Let my enemy
blow on my head a swirl of dense flames continuously; let him make the sharp
edge of a sword fall on me; I will not say any bad words even a bit.
तरणोपायमपश्यन्नपि
मामक जीव ताम्यसि कुतस्त्वम् ।
चेतःसरणावस्यां
किं नागन्ता कदापि नन्दसुतः ॥ २९ ॥
अन्वयः : मामक
जीव! तरणोपायम् अपश्यन् अपि कुतः त्वं ताम्यसि? अस्यां चेतःसरणौ कदा अपि नन्दसुतः न
आगन्ता किम्?
My life! Why
do you agitate for not being able to see a way to cross (this worldly life)?
Will not Krishna, the son of Nanda come to you some time or the other in this
chain of lives?
श्रियो मे मा सन्तु
क्षणमपि च माद्यद्गजघटा-
मदभ्राम्यद्भृङ्गावलिमधुरझङ्कारसुभगाः
।
निमग्नानां यासु
द्रविणमदिराघूर्णितदृशाम्
सपर्यासौकर्यं
हरिचरणयोरस्तमयते ॥ ३० ॥
अन्वयः : माद्यत्-गजघटा-मद-भ्राम्यत्-भृङ्ग-आवलि-मधुर-झङ्कार-सुभगाः
श्रियः क्षणम् अपि मे मा सन्तु, यासु निमग्नानां द्रविण-मदिरा-घूर्णित-दृशां हरिचरणयोः
सपर्यासौकर्यम् अस्तम् अयते ।
Let
not wealth, which is attractive because of the buzzing sound of bees around the
troop of rutting elephants, come to me at all even for a second. For those
immersed in such wealth with their eyes rolling due to the intoxication of
money, the benefit of worshipping Krishna does set (does not come their way). [
Possessing elephants was a sign of being very wealthy.] - - - -
No comments:
Post a Comment