भामिनीविलासः-४९
विद्वांसो वसुधातले
परवचः श्लाघासु वाचंयमाः
भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः
।
आस्ये धास्यति
कस्य लास्यमधुना धन्यस्य कामालस-
स्वर्वामाधरमाधुरीमधरयन्
वाचां विपाको मम ॥ ४३ ॥
अन्वयः : वसुधातले
विद्वांसः पर-वचः-श्लाघासु वाचंयमाः; भूपलाः कमला-विलास-मदिरा-उन्मीलत्-मद-आघूर्णिताः;
अधुना मम वाचां विपाकः काम-अलस-स्वर्-वामा-अधर-माधुरीम् अधरयन् कस्य धन्यस्य आस्ये
लास्यं धास्यति?
In this world
scholars are tongue-tied when it comes to appreciating others’ literary works.
Rulers are tipsy by the intoxicating drink called wealth. Now, in whose mouths
will my mature words dance while downgrading the sweetness of the lips of
celestial nymphs languid with desire?
धुर्यैरपि माधुर्यैः
द्राक्षाक्षीरेक्षुमाक्षिकादीनाम् ।
वन्द्यैव माधुरीयं
पण्डितराजस्य कवितायाः ॥ ४४ ॥
अन्वयः : पण्डितराजस्य
कवितायाः इयं माधुरी धुर्यैः द्राक्षा-क्षीर-इक्षु-माक्षिक-आदीनां माधुर्यैः अपि वन्द्या
एव ।
Even leaders
have to pay obeisance to the sweetness of the poetry of the king of scholars
(Jagannatha Pandita) which excels the sweetness of grapes, milk, sugarcane,
honey etc.
शास्त्राण्याकलितानि
नित्यविधयः सर्वेऽपि सम्भाविता
दिल्लीवल्लभपाणिपल्लवतले
नीतं नवीनं वयः ।
सम्प्रत्युज्झितवासनं
मधुपुरीमध्ये हरिः सेव्यते
सर्वं पण्डितराजराजितिलकेनाकारि
लोकाधिकम् ॥ ४५ ॥
अन्वयः : शास्त्राणि
आकलितानि; सर्वे नित्यविधयः अपि सम्भाविताः; नवं वयः दिल्ली-वल्लभ-पाणि-पल्लव-तले नीतम्;
सम्प्रति पण्डितराजतिलकेन मधुपुरीमध्ये हरिः उज्झितवासनं सेव्यते, सर्वं लोकाधिकम्
अकारि ।
All branches
of study were enquired into; all daily duties were properly performed; youth
was spent on the sprout-like palms of king of Delhi; now having relinquished
worldly pleasures he serves Krishna in Mathura; whatever he did was all
extraordinary.
दुर्वृत्ता जारजन्मानो
हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां
मञ्जूषैषा मया कृता ॥ ४६ ॥
अन्वयः : दुर्वृत्ता जारजन्मानः हरिष्यन्ति इति शङ्कया एषा
मदीयपद्यरत्नानां मञ्जूषा मया कृता ।
Lest bad
persons of poor descent steal my poems, I have hereby made a jewel-box of gems
of my verses.
इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे शान्तो नाम चतुर्थो विलासः ॥
समाप्तोऽयं ग्रन्थः
Thus ends the fourth section called “peace”
in Bhaminivilasa composed by the scholar Jagannatha.
THE
END.
- - - -
No comments:
Post a Comment