Saturday, July 25, 2015

Bhartruhari's Shataka's-11

भर्तृहरिशतकत्रयी-११

It is not proper for a person to run away from disaster to save one’s life when his kith and kin are suffering:
वरं प्राणोच्छेदः समदमघवन्मुक्तकुलिश-
प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ नी-२८ ॥
अ: तुषार-अद्रेः सूनोः प्राण-उच्छेदः वरम् । पितरि उद्गच्छत्-बहुल-दहन-उद्गार-गुरुभिः स-मद-मघवन्-मुक्त-कुलिश-प्रहारैः क्लेश-विवशे पयसां पत्युः पयसि असौ सम्पातः न उचितः ।
It would be better for Mainaka, the son of Himavat to breath his last. It is not proper that he should fall into the waters of the ocean when his father is in distress due to the strikes of thunder bolt released by Indra accompanied by the loud noises of the fire. [ The poet refers to the mythological story of Mainaka taking shelter in the ocean to avoid the thunder bolts of Indra.]

The poet puns on the word “paada”:
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥ नी-२९ ॥
अ: इन-कान्तः अचेतनः अपि सवितुः पादैः स्पृष्टः प्रज्वलति (इति) यत् , तत् तेजस्वी पुरुषः पर-कृत-निकृतिं कथं सहते (इति द्योतयति) ।
The lens though lifeless fires up when touched by the rays (feet) of the sun. How can a powerful person tolerate wicked conduct of another person?

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसां हेतुः ॥ नी-३० ॥
अ: सिंहः शिशुः अपि मद-मलिन-कपोल-भित्तिषु गजेषु निपतति । सत्त्ववतां इयं प्रकृतिः, तेजसां वयः हेतुः न खलु ।
Even a lion’s cub attacks elephants whose temples have become dirty due to the flow of ichor. It is the nature of the powerful; age is not a reason for valorous action.
--
A friend addresses a king:
राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
कोवार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनाम्
आक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ शृ-२८ ॥
अ: राजन्! जगति कश्चित् एव तृष्णा-अम्बु-राशेः अवसानं न गतः हि । स्व-वपुषि  स-अनुरागे यौवने  गलिते, प्रभूतैः अर्थैः कः वा अर्थः? (यावत्) जरया आक्रम्य आक्रम्य रूपं न लुप्यते तावत् विकसित-कुमुद-इन्दीवर-आलोकिनीनां प्रेयसीनां सद्म गच्छामः ।
O king! No one in this world has seen the end of the ocean of desire; what is the meaning of plenty of money when one has lost lovely youth? Well before our forms are lost due to the onslaught of old age, let us go to the residence of our beloved girls who look like blossoming red and blue lotuses.

रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतुः
मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ शृ-२९ ॥
अ: अस्मिन् लोके यौवनात् अन्यत्, रागस्य एकम् आगारं, नरक-शत-महा-दुःख-संप्राप्ति हेतुः, मोहस्य उत्पत्ति-बीजं, ज्ञान-तारा-अधिपस्य जलधर-पटलं, कन्दर्पस्य एक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं, अनर्थ-व्रज-कुल-भवनं न अस्ति ।
There is nothing in this world other than youth which acts as the residence of passion, which is the cause of severe grief equivalent to hundreds of hell, which acts as the seed for mental delusion, which acts as a spread of clouds to moon-like knowledge, which is the sole friend of cupid and which is a continuous series of well known various clear defects and which acts as a community hall for all worthless things.

शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयते प्राप्ते नवे यौवने ॥ शृ-३० ॥
अ: कः अपि धन्यः नवे यौवने प्राप्ते, शृङ्गार-द्रुम-नीरदे प्रसृमर-क्रीडा-रस-स्रोतसि प्रद्युम्न-प्रिय-बान्धवे चतुर-वाक्-मुक्ताफल-उदन्वति  सौभाग्य-लक्ष्मी-निधौ तन्वी-नेत्र-चकोर-पार्वण-विधौ  विक्रियां न कलयते ।
He is indeed a rare fortunate person who does not get disturbed at the arrival of youth which acts as rain bearing cloud to the tree of romance, which is a quick moving stream of playfulness, which is a dear relative to Manmatha, which is an ocean for pearl-like witty sayings, which acts as full moon to the chakora-like eyes of slender ladies and which is a treasury of the goddess of prosperity.   
--
ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो
येचाल्पत्वं दधति विषयापेक्षपर्याप्तबुद्धेः ।
तेषामन्तः स्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ वै-२८ ॥
अ: ये धन-पति-पुरः प्रार्थना-दुःख-भाजः, ये च विषय-अपेक्ष-पर्याप्त-बुद्धेः अल्पत्वं दधति, तेषां वासराणि शिखरि-कुहर-ग्राव-शय्या-निषण्णः ध्यान-छेदे अन्तः-स्फुरत-हसितं स्मरेयम् ।
When meditation is broken while seated on a rock in a cave of a hill, I should remember smiling internally the days of those who undergo the grief of begging in front of the wealthy and those who bear the smallness of mind contented with the worldly desires.

ये सन्तोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसङ्कुलधियस्तेषां न तृष्णा हता ।
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे  रोचते ॥ वै-२९  ॥
अ: ये सन्तोष-निरन्तर-प्रमुदिताः तेषां मुदः न भिन्नाः, अन्ये ये धन-लुब्ध-सङ्कुल-धियः तेषां तृष्णा न हता । इत्थं (स्थिते) स्व-आत्मनि एव समाप्त-हेम-महिमा मेरुः कस्य कृते कृतः? तादृक् सम्पदां पदं मे न रोचते ।
Happiness of those who are all the time happy is not broken; and the greed of those whose mind is full of avarice for wealth is not killed. For whose sake is Meru mountain the fame of whose gold is only meant for itself created? I do not like that type of wealth.

भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोः सत्त्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ वै-३० ॥
अ: योगीश्वराः अ-दैन्यम् अ-प्रति-सुखं सर्वतः भीति-छिदं दुर्-मात्सर्य-मद-अभिमान-मथनं दुःख-ओघ-विध्वंसनं सर्वत्र अनु-अहम् अ-प्रयत्न-सुलभं साधु-प्रियं पावनं शम्भोः सत्त्रं अवार्यम् अक्षय-निधिं भिक्षा-आहारं शंसन्ति ।

The great saints speak of living on alms as not being mean, a pleasure to which there is no equal, which cuts off all round fear, which destroys haughtiness, intoxication and jealousy, which vanquishes the flood of unhappiness, which is available easily without effort, which is dear to the virtuous, which purifies, which is a homage to Siva and which is an irresistible inexhaustible treasure. 
- - - -

Saturday, July 18, 2015

Bhartruhari's Shatakas-10

भर्तृहरिशतकत्रयी-१०

कुसुमस्तबकस्येव द्वयी वृत्तिः मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ नी-२५ ॥
अ:मनस्विनः वृत्तिः कुसुम-स्तबकस्य इव द्वयी; सर्वलोकस्य मूर्ध्नि (शोभते)वा वने एव शीर्यते ।
Mode of conduct of the wise is of two kinds like that of a bunch of flowers, either assuming its position at the head of all or languishing in a forest.

सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषाः
तान्प्रत्येष विशेषविक्रमरुची राहुर्नवैरायते ।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ
भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ नी-२६ ॥
अ: भ्रातः पश्य, बृहस्पति-प्रभृतयः अन्ये अपि संभाविताः पञ्चषाः सन्ति; एषः विक्रम-रुची दानव-पतिः राहुः तान् प्रति न वैरायते; शीर्ष-अवशेष-आकृतिः पर्वणि भास्वरौ दिवाकर-निशा-प्राण-ईश्वरौ द्वौ एव ग्रसते ।
Look, brother. There are others like Jupiter, five or six in number who are (equally) respected; this chief of demons, Rahu, who is fond of being valorous does not show enmity towards them; with only his head remaining in his form he swallows the bright sun and the bright moon during the full moon and the new moon. 
  
वहति भुवनश्रेणिं शेषः फणाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।
तमपि कुरुते क्रोडाधीनं पयोधिरनादरात्
अहह महतां निःसीमानश्चरित्रविभूतयः ॥ नी-२७ ॥
अ: शेषः फणा-फलक-स्थितां भुवन-श्रेणिं वहति; सः च कमठ-पतिना मध्ये-पृष्ठं धार्यते च ; पयोधिः तम् अपि अनादरात् क्रोड-अधीनं कुरुते; महतां चरित्र-विभूतयः निःसीमानः, अहह ।
Adisesha carries the whole set of worlds on his broad and flat hood; he is carried by the great tortoise on its back; the ocean nonchalantly carries it in its hollows. The manifestations of the conduct of the great are really boundless. What a wonder!
--
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिदुन्मीलितानाम्  ।
उपरिसुरतखेदस्विन्नगण्डस्थलानाम्
अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ शृ-२५ ॥
अ: भाग्यवन्तः उरसि निपतितानां, स्रस्त-धम्मिल्लकानां, मुकुलित-नयनानां, किञ्चित् उन्मीलितानां, उपरि-सुरत-खेद-स्विन्न-गण्डस्थलानाम् वधूनां अधर-मधु पिबन्ति ।
The fortunate drink the sweet lips of their young wives who have fallen on their chests with their braided hair slipping away, with their eyes closed like a bud but ever slightly opened and with their temples wet with sweat due to the exhausting reverse amorous pleasures.

आमीलितनयनानाम् यः सुरतरसोऽनु संविदं भाति ।
मिथुनैर्मिथोऽवधारितमवितथमेव कामनिर्वहणम् ॥ शृ-२६ ॥
अ: आमीलित-नयनानां यः अनु संविदं भाति (सः) सुरतरसः;  मिथुनैः मिथः अवधारितं काम-निर्वहणं अवितथम् एव ।
Sexual pleasure is that which flows between consenting couple with their eyes slightly closed. A sexual encounter mutually agreed to will indeed be not futile.

इदमनुचितमक्रमश्च पुंसां
यदिह जरास्वपि मान्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ शृ-२७ ॥
अ: पुंसां जरासु अपि मान्मथाः विकाराः इति यत्, तत् इदं अनुचितम् अक्रमः च। नितम्बिनीनां स्तन-पतन-अवधि जीवितं रतं वा न कॄतं इति यत् तत् अपि (अनुचितम्) ।
It is indeed improper and not in order that men have sexual cravings even in old age. Similarly it is not right that women’s longevity or desire for sex is not restricted to the age when breasts sag. 
--
किं कन्दाः निर्झरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ वै-२५ ॥
अ: निर्झरेभ्यः कन्दाः, निर्झराः गिरिभ्यः प्रलयम् उपगताः किम्? तरुभ्यः सरस-फल-भृतः वल्कलिन्यः च शाखाः प्रध्वस्ता वा? यत् अपगत-प्रश्रयाणां खलानां दुःख-आप्त-स्वल्प-वित्त-स्मय-पवन-वश-आनर्तित-भ्रू-लतानि मुखानि (याचकैः) वीक्ष्यन्ते ।
Have the bulbous roots vanished from mountain streams or streams have vanished from mountains or branches of trees with their barks and juicy fruits have been destroyed that people are fondly looking at faces of the wicked persons devoid of modesty and whose creeper-like eye-brows dance due to the gale like smile caused by having earned some wealth with great difficulty?     

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणामविवेकगूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ वै-२६ ॥
अ: अधुना पुण्यैः मूलफलैः प्रणयिनीं वृत्तिं कुरुष्व; तथा अ-कृपणैः नव-पल्लवैः भूशय्यां कुरुष्व; उत्तिष्ठ, वनं यावः यत्र अविवेक-गूढ-मनसां वित्त-व्याधि-विकार-विह्वल-गिरां क्षुद्राणां ईश्वराणां नाम सदा अपि न श्रूयते ।
Adopt  a lovely way of life by (enjoying) roots and fruits; sleep on the ground with tender sprouts as bed; let us go to  the forest where not even the name of the small minded wealthy persons whose mind is closed due to absence of discrimination and whose manner of speaking is affected by a disease called money is heard.

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कॄपणाः ॥ वै-२७ ॥
अ: प्रति-वनं अखेदं स्वेच्छा-लभ्यं क्षितिरुहां फलम्, पुण्य-सरितां शिशिर-मधुरं पयः स्थाने स्थाने (स्वेच्छा-लभ्यम्); सु-ललित-लता-पल्लव-मयी मृदु-स्पर्शा शय्या; तत् अपि कृपणाः धनिनां द्वारि सन्तापं सहन्ते ।

In every forest there are fruits of trees which are easily available as much as desired; at frequent intervals is available cold and sweet water from pious rivers; there is bed which is soft to touch and made of sprouts of lovely creepers; even then wretched people undergo troubles at the door of the wealthy.  
- - - - 

Saturday, July 11, 2015

Bhartruhari's shatakas-9

भर्तृहरिश्तकत्रयी-९

स्वल्पस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः
श्वा लब्द्वा परितोषमेति  न च तत्तस्य क्षुधाशान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ नी-२२ ॥
अ: श्वा स्वल्प-स्नायु-वस-अवसेक-मलिनं निर्मांसम् अस्थि अपि लब्ध्वा परितोषम् एति, तु तत् तस्य क्षुधा-शान्तये न (भवति) । सिंहः अङ्कम् आगतं जम्बुकम् अपि त्यक्त्वा द्विपं निहन्ति । सर्वः जनः क्रुच्छ्र-गतः अपि सत्त्व-अनुरूपं  फलं वाञ्छति ।
A dog feels happy to get a flesh-less bone dirtied by remnants of a bit of ligament and marrow although it does not satisfy its hunger.  A lion kills an elephant leaving a fox which has landed on its lap. Persons seek fruits according to their own status even if they are in difficulties.

लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य  वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति छाटुशतैश्च भुङ्क्ते ॥ नी-२३ ॥
अ: श्वा लाङ्गूल-चालनं अधः-चरण-अवपातं भूमौ निपत्य वदन-उदर-दर्शनं च पिण्डदस्य (पुरतः) कुरुते | गज-पुङ्गवः तु धीरं विलोकयति, चाटु-शतैः च भुङ्क्ते ।
A dog wags its tail, shows its face and stomach falling at the feet of the person who feeds it. But an elephant looks  majestically and eats after being cajoled by graceful words.

परिवर्तिनि संसारे मॄतः को वा न जायते ।
स जातो येन जातेन याति वंशः समुन्नतिम् ॥ नी-२४ ॥
अ: परिवर्तिनि संसारे मृतः कः वा न जायते? येन जातेन वंशः समुन्नतिं याति, सः जातः ।
In this cycle of life, who is not born again after dying? The birth of a person who elevates his dynasty is indeed  the birth.
--
अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वङ्गसुखैकलोला ।
आलिङ्गितायां पुनरायताक्ष्या-
माशास्महे विग्रहयोरभेदम् ॥ शृ-२२ ॥
अ: (वयं) अदर्शने दर्शन-मात्र-कामाः, दृष्ट्वा परिष्वङ्ग-सुख-एक-लोलाः, पुनः आयताक्ष्याम् आलिङ्गितायाम् विग्रहयोः अभेदम् आशास्महे ।
When the wide-eyed lady is not seen we desire to see her, having seen we desire to embrace her, after embracing we seek  the union of the bodies.

मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ शृ-२३ ॥
अ: शिरसि मालती, मुखे जृम्भणम्, वपुषि कुङ्कुम-आविलं चन्दनम्, बक्षसि मद-आलसा प्रियतमा, एषः स्वर्गः, परिशिष्टः आगमः ।
Jasmine for the hair, a yawn on the face, body smeared with sandal paste full of saffron, a languorous passionate dear lady to hug and that is heaven, rest is just (bookish) knowledge.

प्राङ्मा मेति मनागनागतरसं जाताभिलाषं ततः
सव्रीडं तदनु श्लथोद्यममथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रम् स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो
निःसङ्गाङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्री रतम् ॥ शृ-२४ ॥
अ: कुलस्त्री-रतं प्राक् अनागत-रसं मनाक् मा मा इति, ततः जात-अभिलाषं स-व्रीडं तदनु श्लथ-उद्यमं पुनः प्रध्वस्त-धैर्यं, ततः प्रेम-आर्द्रं स्पृहणीय-निर्भर-रहः-क्रीडा-प्रगल्भम् निःसङ्ग-अङ्ग-विकर्षण-अधिकसुखं रम्यम् । 
Saying “no,no” weakly when the desire is not yet risen, then becoming desirous shyly and with weak physical resistance and with loss of courage (to resist) and then enjoying secret carefree mature dalliances and unobstructed bodily searches render sex with ones chaste woman a great pleasure.
 --
अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ वै-२२ ॥
अ: इयं दुष्पूरा जठर-पिठरी अभिमत-महा-मान-ग्रन्थि-प्रभेद-पटीयसी गुरुतर-गुण-ग्राम-अम्भोज-उज्ज्वल-चन्द्रिका विपुल-विलसत्-लज्जा-वल्ली-वितान-कुठारिका विडम्बनं करोति ।
This store room of a belly which is difficult to fill up, which is skilful in breaking the cherished knot called self respect, which acts as bright moonlight to the lotus of weighty and good qualities and which acts as an axe to the large glittering collection of creepers makes fun of us.

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालिं कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ वै-२३ ॥
अ: क्षुधा-आर्तः मानी उदर-दरी-पूरणाय पुण्ये ग्रामे महति वने वा सित-पट-छन्न-पालिं कपालिं आदाय न्याय-गर्भ-द्विज-हुत-हुतभुक्-धूम-धूम्र-उपकण्ठे द्वारं द्वारं प्रविष्टः प्राणैः सनाथः वरम्, न पुनः अनु-दिनं तुल्य-कुल्येषु दीनः (वरम्) ।
It is better for a person of self respect who is hungry to manage to breathe and fill his stomach by entering door after door near a village which has become gray with the smoke of fire-offerings made by dutiful Brahmins rather than be miserable among his relatives.

गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः ॥ वै-२४ ॥
अ: मनुष्याः स-अवमान-पर-पिण्ड-रताः (इति) यत्, गङ्गा-तरङ्ग-कण-शीकर-शीतलानि
विद्याधर-अध्युषित-चारु-शिलातलानि हिमवतः स्थानानि प्रलयं गतानि किम्?

Is it that the Himalayan abodes which are cooled by the spray of the waves of Ganga and where Vidyadharas dwell on beautiful rocks have been lost in floods that people have become dependent on others for their daily bread? [ Vidyadharas are a kind of supernatural beings having magical powers and attending on Siva.]
- - - - 

Saturday, July 4, 2015

Bhartruhari's Shatakas-8

भर्तृहरिसुभाषितत्रिशती-८

जाड्यं धियो हरति सिञ्चति वाचि सत्यम्
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति  दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय किन्न करोति पुंसाम् ॥ नी-१९ ॥
अ: सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मान-उन्नतिं दिशति, पापम् अपाकरोति, चेतः प्रसादयति, दिक्षु कीर्तिं तनोति। (सत्सङ्गतिः) पुंसां किम् न करोति, कथय  ।
Company of the virtuous persons removes the lethargy of mind, soaks speech with truth, guides for attaining higher respect, cancels the past sin, freshens mind and spreads fame in all directions. Tell, what is it that it cannot do?

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति तेषां यशःकाये जरामरणजं भयम् ॥ नी-२० ॥
अ: सुकृतिनः रस-सिद्धाः ते कवीश्वराः जयन्ति । तेषां यशः-काये जरा-मरण-जं भयम् नास्ति । 
The blessed great poets who have attained the mastery of sentiments flourish. There is no fear of death or old age to their body of fame.

अथ मानशौर्यपद्धतिः
Section on valour of self respect

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि ।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ नी-२१ ॥
अ: मान-महताम् अग्रेसरः केसरी क्षुत्-क्षामः अपि, जरा-कृशः अपि, शिथिल-प्रायः अपि, कष्टां दशाम् आपन्नः अपि, विपन्न-दीधितिः अपि, प्राणेषु नश्यत्सु अपि, मत्त-इभ-इन्द्र-विभिन्न-कुम्भ-पिशित-ग्रास-एक-बद्ध-स्पृहः जीर्णं तृणम् अत्ति किम्?
Does a lion which stands tall among those valuing self respect and which is solely desirous of a mouthful of meat of the temple of an elephant  in rut eat withered grass even if it (the lion) is weak due to old age, well nigh tottering, is in difficult circumstance, has lost its lustre with its life ebbing out?
 --
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत-
प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः । 
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ शृ-१९  ॥
अ: इमे मृगदृशां तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरत-प्रताप-प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः चिरं चेतःचोराः अभिनव-विकार-एक-गुरवः विलास-व्यापाराः किमपि विजयन्ते ।
These playful activities of doe-eyed girls which are the fragrances of youthful lustre, the beginnings of adult sexual valour, which act as surety for giving victory to cupid, which steal the minds for long, and which are laden with novel alterations flourish in an un-definable manner.

प्रणयमधुरा प्रेमोदारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनो
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ शृ-२० ॥
अ: मृगीदृशां रहसि स्वैर-आलापाः प्रणय-मधुराः प्रेम-उदाराः रस-आश्रयतां गताः, फणिति-मधुराः मुग्ध-प्रायाः प्रकाशित-सम्मदाः प्रकृति-सुभगाः विस्रम्भ-आर्द्राः स्मर-उदय-दायिनः किम् अपि हरन्ति ।
The private care-free utterances of doe-eyed girls sweet with affection, generously loving and replete with the sentiment of love, sweet to hear, well-nigh innocent, expressing exhilaration, lovely by nature, soft with feelings of love and arousing desire in others are attractive in an inexpressible way.
अथ सम्भोगवर्णनम्
(Description of successful love)
विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेन करोद्धतेन
निवारयन्ती शशिनो मयूखान् ॥ शृ-२१ ॥
अ: काचित् तन्वी कर-उद्धतेन स्तन-उत्तरीयेन शशिनः मयूखान् निवारयन्ती वनद्रुमाणां छायासु विश्रम्य विश्रम्य विचचार ।
A slender lady walked in the shades of forest trees resting frequently while warding off the rays of the moon by raising in hand the bosom-covering garment.
--
तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं
प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः ॥ वै-१९ ॥
अ: जनः आस्ये तृषा शुष्यति शीत-मधुरं सलिलं पिबति; क्षुधा-आर्तः मांस-आदि-कलितं शाली-अन्नं कवलयति; काम-अग्नौ प्रदीप्ते वधूं सुदृढतरम् आलिङ्गति;  व्याधेः प्रतीकारं सुखम् इति विपर्यस्यति ।
A person drinks water which is sweet and cold when the mouth gets dried up due to thirst; afflicted by hunger he eats cooked rice mixed with meat etc; when the fire of carnal desire is aflame he embraces his bride tightly; he mistakes as happiness a palliative for a disease.

तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः सम्पदः
कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः ।
मत्वा विश्वमनश्वरं निविशते संसारकारागृहे
सन्दृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ वै-२० ॥
अ: अज्ञान-मूढः जनः तुङ्गं वेश्म, सताम् अभिमताः सुताः, सम्पदः संख्या-अतिगाः, दयिता कल्याणी, नवं वयः,  विश्वम् अनश्वरं मत्वा संसार-कारागृहे निविशते । धन्यः तत् अखिलं क्षण-भङ्गुरम् सन्दृश्य सन्न्यस्यति ।
A person gone astray by ignorance stays in the prison house of family entanglement believing that a lofty mansion, sons admired by the virtuous, un-countable wealth, a beloved worthy of honour, youth and this world are all permanent. A blessed person relinquishes them realizing that all that is perishable in a second.

अथ याच्ञादैन्यदूषणम्
(Criticizing begging and meanness)
दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ वि-२१ ॥
अ: दीन-मुखैः क्षुधितैः क्रोशद्भिः शिशुकैः सदा एव आकृष्ट-जीर्ण-अम्बरा दीना निरन्न-विधुरा गेहिनी दृश्या न चेत्, कः मनस्वी पुमान् स्व-दग्ध-जठरस्य  अर्थे याच्ञा-भङ्ग-भयेन गद्गद-गलत्-त्रुटत्-विलीन-अक्षरं  देहि इति वदेत् ।
If there were no house-wife looking wretched and miserable for want of food with crying hungry children having miserable faces tugging at her old garment, which respectable person begs for food just for the sake of his own burning stomach in broken halting stammering words with the fear that his request may be turned down?  
- - - -

Saturday, June 27, 2015

Bhartruhari's Shatakas--7

भर्तृहरिशतकत्रयी-७

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ नी-१६ ॥
अ: विद्या नाम नरस्य अधिकं रूपम्, प्रच्छन्नगुप्तं धनम्,विद्या भोगकरी यशः-सुख-करी, विद्या गुरूणां गुरुः, विद्या विदेशगमने बन्धुजनः, विद्या परा देवता,विद्या राजसु पूज्यते, धनं नहि । विद्याविहीनः पशुः।
Education enhances handsomeness; it is a hidden wealth; it enables enjoyments, fame and happiness; it is a preceptor for preceptors; it acts as well-wisher in a foreign country; it is the highest divinity; education and not wealth is respected by kings. A person without education is an animal.

क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदि
व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ नी-१७ ॥
अ: देहिनां क्षान्तिः चेत् कवचेन किं, क्रोधः अस्ति चेत् अरिभिःकिम्, ज्ञातिः चेत् अनलेन किं यदि सुहृत् दिव्यौषधैः किं फलम् , यदि दुर्जनाः किं सर्पैः यदि अनवद्या विद्या किमु धनैः, यदि
व्रीडा चेत् किमु भूषणैः, यदि सुकविता अस्ति राज्येन किम् ?
If one has patience, where is the need for any armour?  If there is a paternal relative where is the need for fire? If there is a friend where is the need for divine medicines? If there are vicious persons where is the need for serpents? If there is faultless scholarship where is the need for money?  If there is humility where is the need for ornaments? If there is good poetry where is the need for a kingdom?

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ नी-१८ ॥
अ: स्वजने दाक्षिण्यं, परिजने दया, दुर्जने सदा शाठ्यं, साधुजने प्रीतिः, नृपजने नयः, विद्वत्-जने आर्जवं च , शत्रुजने शौर्यं, गुरुजने क्षमा, कान्ताजने धृष्टता; एवं च ये पुरुषाः कलासु कुशलाः तेषु एव लोकस्थितिः ।
Being considerate towards kith and kin; being compassionate towards attendants; being deceitful towards scoundrels; being affectionate towards good persons; being courteous towards royals; being straight  forward towards learned persons; being valorous towards enemies; being indulgent towards elders. This world is dependent upon people who display such skills.
--
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ शृ-१६ ॥
अ: सा चन्द्रकान्तेन मुखेन महा-नीलैः शिरोरुहैः, पद्मरागाभ्यां कराभ्यां, रत्न-मयी इव रेजे
With her face as lovely as moon (like moon-stone), her hair deep black (like sapphire), her palms having the colour of lotus (like ruby) she was resplendent as if she was made of precious stones. ( The poet has played on the double meanings of ‘chandrakanta’,’mahanila’ and ‘padmaraga’)

गुरुणा स्तनभारेण मुखचन्द्रेन भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ शृ-१७ ॥
अ: गुरुणा स्तन-भारेण भास्वता मुख-चन्द्रेन शनैः-चराभ्यां पादाभ्यां सा ग्रहमयी इव रेजे ।
With the heavy weight of her breasts, her face luminous like moon and her slow pace she looked resplendent as if she was made of planets. (Again pun on words ‘guru’,’chandra’ and ‘Sanaiscara’ is skilfully employed by the poet.)

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किमाकुलस्त्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ शृ-१८ ॥
अ: (हे) चित्त, तस्याः स्तनौ यदि घनौ, जघनं च हारि, वक्त्रं च चारु तव किम्? त्वं किम् आकुलः? तेषु तव वाञ्छा अस्ति चेत् पुण्यं कुरुष्व, पुण्यैः विना समीहित-अर्थाः न भवन्ति हि |
Dear mind, if her breasts are heavy, her hips are attractive and her face beautiful what is it for you? Why do you feel disturbed? If you desire them do good deeds. Desired objectives do not materialise without previous good deeds.
--
स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरः स्पर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ वै-१६ ॥
अ: स्तनौ मांसग्रन्थी कनककलशौ इति उपमितौ, मुखं श्लेष्म-आगारं तत् अपि च शशाङ्केन तुलितम्, जघनं स्रवन् मूत्र-क्लिन्नं करि-वर-शिरः-स्पर्धि , मुहुः निन्द्यं रूपं कवि-जन-विशेषैः गुरु कृतम् ।
Breasts which are glands of flesh are compared to golden pitchers; Face which is a store house of phlegm is compared to moon; the private part wet with urine is compared to the head of the best of elephants; a form which should be often reprehended is made lofty by the great poets.

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः
शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ वै-१७ ॥
अ: एकः रागिषु प्रिय-तमा-देह-अर्ध-हारी हरः राजते, यस्मात् परः विमुक्त-ललना-सङ्गः जनः नीरागेषु न (अस्ति) । शेषः दुर्वार-स्मर-बाण-पन्नग-विष-व्याविद्ध-मुग्धः जनः काम- विडम्बितान् विषयान् भोक्तुं न क्षमः, मोक्तुं (च) न क्षमः ।
Shiva who has carried half of the body of his beloved shines alone as the foremost among lovers and there is no one who excels him among the passion-free in being detached from the company of women. The rest who are entranced having been affected by the snake-poison of the arrows of irresistible cupid are neither capable of enjoying nor resisting the sensual pleasures accepted on account of cupid.    

अजानन् दाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितम् ।
विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्
न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ वै-१८ ॥
अ: शलभः दाह-आत्म्यम् अजानन् तीव्र-दहने पततु, सः मीनः अपि अज्ञानात् बडिश-युतं पिशितम् अश्नातु, इह एते वयम् कामान् विपत्-जाल-जटिलान् विजानन्तः अपि न मुञ्चामः, मोह-महिमा गहनः अहह ।

 Let the moth fall into the fierce fire not knowing that it burns; let the fish eat the meat not knowing that it is baited; but we, even though fully knowing that desires are entangled in a network of hazards do not forsake them; deep indeed is the power of delusion!
- - - -  

Saturday, June 20, 2015

Bhartruhari's Shatakas-6

भर्तृहरिशतकत्रयी-६

अधिगतपरमार्थान् पण्डितान् मावमंस्थाः
तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि ।
अभिनवमदरेखाश्यामगण्डस्थलानां
न भवति बिसतन्तुर्वारणं वारणानाम् ॥ नी-१३ ॥
अ: अधिगत-परम-अर्थान् पण्डितान् मा अवमंस्थाः । लक्ष्मीः तान् लघु तृणम् इव न संरुणद्धि । बिस-तन्तुः अभिनव-मद-रेखा-श्याम-गण्डस्थलानां वारणानां वारणं न भवति ।
 Do not denigrate scholars who have knowledge of the ultimate wisdom; Goddess of wealth, like a blade of grass does not stop them. A filament of lotus stalk does not act as a restraint to an elephant whose temples have become dark due to the fresh flow of rut.[ This is apparently addressed to a king]

अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ नी-१४ ॥
अ: विधाता नितरां कुपितः हंसस्य अम्भोजिनी-वन-विहार-विलासम् एव हन्ति । असौ अस्य दुग्ध-जल-भेद-विधौ प्रसिद्धां वैदग्ध्य-कीर्तिम् अपहर्तुम् न तु समर्थः ।
The angry creator may deprive the swan of its playful gait in a lake of lotuses (by drying up the lake). But he is not capable of depriving it of its famed skill in separating milk and water. [ Swans are traditionally thought to have the ability to separate milk from water.]

केर्यूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषणम् ॥ नी-१५ ॥
अ: केयूराणि पुरुषं न भूषयन्ति, चन्द्र-उज्ज्वलाः हाराः न, अलङ्कृता मूर्धजाः न, स्नानं न, विलेपनं न, कुसुमं न(भूषयति) । एका वाणी या संस्कृता धार्यते पुरुषं सम्-अल्ङ्करोति; अखिल-भूषणानि क्षीयन्ते; वाक्-भूषणं सततं भूषणम् ।
 Bracelets worn on the upper arm do not decorate a person, nor garlands which are as brilliant as moon, nor well groomed hair ; Bath, smearing of perfumes, or wearing of flower does not decorate either; speech delivered in a refined manner decorates a person; all ornaments decay; ornament of speech is the only eternal ornament.
-      -
मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ शृ-१३ ॥
अ: मुग्धे! त्वयि (या) अपूर्वा धानुष्कता दृश्यते (सा) इयं का, यया चेतांसि गुणैरेव विध्यसि, न सायकैः?
Dear young lady, what a skill you have in archery never seen earlier in that you could pierce minds (of men) with (your) qualities (strings) only and not with arrows.[ The poet plays on word ‘guna’ which means quality and also string. While a normal archer shoots arrows to hit a target, you use ‘guna’ to hit your target, namely minds of men. ]

सति प्रदीपे सत्यग्नौ सत्सु तारामणीन्दुषु ।
विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ शृ-१४ ॥
अ: प्रदीपे सति, अग्नौ सति, तारा-मणि-इन्दुषु सत्सु मे मृगशावाक्ष्या विना इदं जगत् तमोभूतम् ।
This world is all darkness without my doe-eyed lady no matter whether there is a light, a fire, stars, gems and the moon.

उद्वृत्तस्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापमधिकं रोमावलिः केन वा ॥ शृ-१५ ॥
अ: एषः उद्-वृत्त- स्तन-भारः, तरले नेत्रे, चले भ्रू-लते, इदं राग-अधिष्ठितम् ओष्ठ-पल्लवम् व्यथां कुर्वन्तु नाम; स्वयं पुष्प-आयुधेन सौभाग्य-अक्षर-मालिका इव लिखिता रोम-आवलिः मध्य-स्था अपि केन (कारणेन) अधिकं तापं करोति?
Let  this weight of upturned breasts, wavering eyes, unsteady creeper-like eye-brows, this reddened sprout-like lip, trouble us; Why does this line of hair in the middle (indifferent), which looks as if it has been scripted by cupid as the alphabet string of loveliness,  create affliction (in us)? [The poet plays on the word ‘madhyastha’ which can mean ‘situated in the middle’ or ‘indifferent’. He thus brings out an apparent contradiction in that something which is indifferent causes us pain. Such description may appear risqué for modern sensibilities, but is not uncommon in Sanskrit literature.]
-      -
ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।
संप्राप्तान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान्
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ वै-१३ ॥
अ: ब्रह्म-ज्ञान-विवेक-निर्मल-धियः अहो दुष्करं कुर्वन्ति यत् उपभोग-भाञ्जि अपि धनानि निःस्पृहाः एकान्ततः मुञ्चन्ति  । परं वयं पुरा न संप्राप्तान् , संप्रति न (प्राप्यमानान्), प्राप्तौ न दृढ-प्रत्ययान् वाञ्छा-मात्र-परिग्रहान् अपि त्यक्तुं न शक्ताः ।
 It is surprising how those who have a clear mind of discrimination arising out of the knowledge of Brahman become totally free from desire and give up wealth that provides them things of pleasure; we on the other hand are unable to give up craving for things which we never had in the past, are not having now and have no firm hopes of having in future.

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम्
आनन्दाश्रुकणान् पिबन्ति शकुना निःशङ्कमङ्केशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट-
क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ वै-१४ ॥
अ: शकुनाः गिरि-कन्दरेषु वसतां परं ज्योतिः ध्यायतां धन्यानाम् आनन्द-अश्रु-कणान् अङ्के-शयाः निःशङ्कं पिबन्ति । मनोरथ-उपरचित-प्रासाद-वापी-तट-क्रीडा-कानन-केलि-कौतुक-जुषाम् अस्माकं आयुः तु परं क्षीयते ।
While the blessed living in mountain caves meditate on the Divine Light and shed tears of joy, birds drink them without any fear lying on their laps; our span of life, on the other hand, decreases  while we imagine in our minds palaces, water pools, pleasure gardens, games and gaiety.

भिक्षाशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं विशीर्णशतखण्डमयी च कन्था
हा हा तथापि विषया न परित्यजन्ति ॥ वै-१५ ॥
अ: भिक्षा-अशनम्, तत् अपि नीरसम् एकवारं (च), भूः शय्या च, निज-देह-मात्रं परिजनः, वस्त्रं विशीर्ण-शत-खण्ड-मयी कन्था; तथा अपि विषया न परित्यजन्ति हा हा ॥

Food is by begging and it is tasteless and that too only once a day, sleeping is on bare earth, the only kin is one’s own body and the clothing is a rag of hundreds of patches; even then sensual craving does not go away! Alas!
- - - - 

Saturday, June 13, 2015

Bhartruhari's Satakas-5

भर्तृहरिशतकत्रयी-५

शक्यो वारयितुं जलेन हुतभुक्शूर्पेण सूर्यातपः
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गौर्गर्दभः ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रैः प्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ नी-१० ॥
अ: हुतभुक् जलेन, सूर्य-आतपः शूर्पेण नागेन्द्रः निशित-अङ्कुशेन , स-मदः गौः गर्दभः (वा) दण्डेन, व्याधिः भेषज-संग्रहेण वारयितुं शक्यः, विषं विविधैः मन्त्रैः प्रयोगैः (च वारयितुं शक्यम्) । सर्वस्य शास्त्र-विहितं औषधम् अस्ति, मूर्खस्य (तु) औषधम् न अस्ति ।
Fire can be controlled by (using) water, sun’s heat by a winnowing basket, a big elephant by a sharp hook, a berserk bull or donkey by a stick, disease by a set of medicines and poison by use of various incantations. For everything there is a medicine prescribed by scriptures, but there is no medicine for a fool.

अथ विद्वत्पद्धतिः ( Scholarship)

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य सुधियस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षकैर्न मणयो यैरर्घतः पातिताः ॥ नी-११ ॥
अ: यस्य प्रभोः विषये शास्त्र-उपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेय-आगमाः विख्याताः कवयः निर्धनाः वसन्ति, (तस्य) वसुधाधिपस्य तत् जाड्यम् । सुधियः तु अर्थं विना  अपि ईश्वराः । यैः कु-परीक्षकैः अर्घतः पातिताः, (ते कुत्साः स्युः) मणयः न कुत्स्याः स्युः ।
It is the stupidity of a king if famous poets whose elegant sayings are supported by relevant treatises and whose knowledge of scriptures is meant for their disciples live in penury in his kingdom. Scholars are masters even if they have no money. If gems are under-valued it is the fault of the bad gem-examiners and not of gems.

हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा-
प्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्
येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ नी-१२ ॥
अ: (हे) नृपाः, यत् हर्तुः न गोचरं याति, सर्वदा शं पुष्णाति, अर्थिभ्यः प्रतिपाद्यमानम् अपि अनिशं परां वृद्धिं प्राप्नोति, कल्प-अन्तेषु अपि निधनं न प्राप्नोति, येषां विद्या-आख्यम् अन्तर्-धनं (अस्ति) तान् प्रति मानम् उज्झत । तैः सह कः स्पर्धते?
O kings! Do not exhibit haughtiness in front of those (scholars) who have internal wealth called knowledge which cannot be taken away as it cannot be seen, which always bestows wellbeing, which keeps on increasing even when it is transferred to those who seek it and which does not cease to exist even at the end of aeons. Who can compete with them?
   
नूनं हि ते कविवरा विपरीतवाचो
ये नित्यमाहुरबला इति कामिनीस्ताः ।
याभिर्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ शृ-१० ॥
अ: ये कामिनीः अबलाः इति नित्यम् आहुः, ते कवि-वराः विपरीत-वाचः हि नूनं । याभिः विलोलतर-तारक-दृष्टि-पातैः शक्र-आदयः अपि विजिताः ताः अबलाः कथम्? 
Those great  poets who constantly tell that women are powerless indeed say perverse things. How can those who conquered even Indra  through their unsteady glances be called “powerless” [abalaa]?

नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ शृ-११ ॥
अ: मकर-ध्वजः तस्याः सुभ्रुवः आज्ञा-करः नूनं यतः (सः) तत्-नेत्र-सञ्चार-सूचितेषु प्रवर्तते ।
Cupid is indeed a faithful servant of women with beautiful eye-brows, because he proceeds to act based on the signals given through their rolling of eyes.

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमौ
इत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥ शृ-१२ ॥
 अ: (हे) तन्वि, केशाः संयमिनः, लोचने श्रुतेः अपि पारं गते, अन्तर्-वक्त्रम् अपि स्वभाव-शुचिभिः द्विजानां गणैः कीर्णम्, इमौ वक्षोज-कुम्भौ मुक्तानां सतत-अधिवास-रुचिरौ, इत्थं ते वपुः प्रशान्तम् अपि नः रागं करोति एव ।  
Hair on the head is tied up (self-controlled); the eyes extend beyond the ears( have mastered the Vedas); the inside of the mouth is filled with naturally clean teeth ( full of Brahmins who are virtuous by nature); these two pitcher-like breasts look appealing with the continued presence of pearls ( liberated souls); thus although your body displays serenity, it disturbs us.[ The poet skilfully plays on double meaning words संयमिनः, श्रुतेः, द्विजानाम्, मुक्तानाम् and brings out an apparent contradiction.]

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ वै-१० ॥
अ: आशा नाम नदी मनोरथ-जला, तृष्णा-तरङ्ग-आकुला, राग-ग्राहवती, वितर्क-विहगा, धैर्य-द्रुम-ध्वंसिनी, मोह-आवर्त-सुदुस्तरा, अति-गहना प्रोत्तुङ्ग-चिन्ता-तटी , तस्याः पार-गताः विशुद्ध-मनसः योगि-ईश्वराः नन्दन्ति ।
Desire is a river which has intentions as water, waves called greed, is infested with crocodiles called lust and birds called doubt, which destroys trees called courage, which is difficult to cross because of whirl pools called delusion, which has steep and high banks called worry. Yogis with pure mind are happy having crossed that river.

अथ विषयपरित्यागविडम्बना ( A critique on discarding sensory pleasures)
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ वै-११ ॥
अ: संसार-उत्पन्नं चरितं कुशलं न अनुपश्यामि । पुण्यानां विपाकः विमृशतः मे भयं जनयति । महद्भिः पुण्य-ओघैः चिर-परिगृहीताः विषयाः च विषयिणां व्यसनं दातुम् इव महान्तः जायन्ते ।
I do not see anything good in worldly life. When analyzed, the result of past good deeds frightens me. The sensory pleasures which have been earned for long by a flood of great good deeds in the past will only grow as if to cause sorrow to those clinging to them.

अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ वै-१२ ॥
अ: विषयाः चिरतरम् उषित्वा अपि यातारः । वियोगे भेदः कः? जनः स्वयम् अमून् न त्यजति (इति) यत्, स्वातन्त्र्यात् व्रजन्तः  (विषयाः) मनसः अतुल-परितापाय (भवन्ति) ।
एते स्वयं त्यक्ता अनन्तं शम-सुखं विदधति हि ।

Sensory pleasures will depart even after staying for long. What is the difference in parting? If man does not discard them himself, they cause immense pain. If they are voluntarily discarded they provide endless joy and peace.
- - - -