Saturday, August 6, 2016

Varadarajastava of Appayyadikshita-21

वरदराजस्तवः-२१

नाभेरभूत्तव चतुर्भुज नान्तरिक्षं
यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
नाभ्या इतिश्रुतिविपर्ययगे विभक्ती
तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ ५९ ॥
अ : चतुर्भुज, यदुनेतः ! तव नाभेः अन्तरिक्षं न अभूत्, यत् इयं नाभिः एव ततः अभूत् । नाभ्याः इति श्रुति-विपर्ययगे विभक्ती । जैमिनेः पशोः च सूत्रं ताम् अनुससार ।
O God with four shoulders ! Leader of Yadu clan ! The sky did not arise from your navel because your navel arose out of the sky. It is a reversal of cases that “naabhyaah” is used in the fifth case in the Vedic hymn. The Sutra of Jaimini simply followed the case reversal
Note : The verse refers to an esoteric discussion in the Vedas and the Jaimini sutras, where case reversal between the fifth case and the first case happens.

आरोपमध्यवसितिं च विना तवास्यां
नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।
साक्षादियं सरसिजस्य समुद्रशायिन्
उत्पत्तिभूरिति हि नायक नायमूहः ॥ ६० ॥
अ: समुद्र-शायिन् ! नायक ! आरोपम् अध्यवसितिं च विना एव तव अस्यां नाभौ सरः-पदं वृत्तिं कथं न उपैतु । इयं सरसिजस्य साक्षात् उत्पत्ति भूः इति अयं न ऊहः हि ।
 O Leader, One who sleeps on the ocean ! This navel of yours merits being equated with a lake, without invoking “aaropa” or “adhyavasaaya”. It is not a matter of supposition that this (your navel) is the source for the lotus ( sarasija=born in a lake).
Note: The poet has used technical words “aaropa” and “adhyavasaaya” employed in poetics. Aaropa is to equate the object of comparison and the subject of comparison clearly expressing their difference, while “adhyavasaaya” is equating without expressing the difference.

कल्पान्तरेषु विततिं कमलासनानां
भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैतत्
भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥
अ : मुरारे ! कल्प-अन्तरेषु कमलासनानां भूयः अपि विततिं कर्तुम् इव भूरि रजः दधानं तव एतत् नाभि-ह्रदे समुदितं नलिनं सदा एव मम भूतिकरं भूयात् ।

O, Enemy of demon Mura ! May this lotus which has grown out of deep lake-like navel which carries plenty of pollen as if to provide for the births of Brahma in future aeons bring me well being always.
- - - - 

No comments:

Post a Comment