Follow by Email

Saturday, July 25, 2015

Bhartruhari's Shataka's-11

भर्तृहरिशतकत्रयी-११

It is not proper for a person to run away from disaster to save one’s life when his kith and kin are suffering:
वरं प्राणोच्छेदः समदमघवन्मुक्तकुलिश-
प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ नी-२८ ॥
अ: तुषार-अद्रेः सूनोः प्राण-उच्छेदः वरम् । पितरि उद्गच्छत्-बहुल-दहन-उद्गार-गुरुभिः स-मद-मघवन्-मुक्त-कुलिश-प्रहारैः क्लेश-विवशे पयसां पत्युः पयसि असौ सम्पातः न उचितः ।
It would be better for Mainaka, the son of Himavat to breath his last. It is not proper that he should fall into the waters of the ocean when his father is in distress due to the strikes of thunder bolt released by Indra accompanied by the loud noises of the fire. [ The poet refers to the mythological story of Mainaka taking shelter in the ocean to avoid the thunder bolts of Indra.]

The poet puns on the word “paada”:
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥ नी-२९ ॥
अ: इन-कान्तः अचेतनः अपि सवितुः पादैः स्पृष्टः प्रज्वलति (इति) यत् , तत् तेजस्वी पुरुषः पर-कृत-निकृतिं कथं सहते (इति द्योतयति) ।
The lens though lifeless fires up when touched by the rays (feet) of the sun. How can a powerful person tolerate wicked conduct of another person?

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसां हेतुः ॥ नी-३० ॥
अ: सिंहः शिशुः अपि मद-मलिन-कपोल-भित्तिषु गजेषु निपतति । सत्त्ववतां इयं प्रकृतिः, तेजसां वयः हेतुः न खलु ।
Even a lion’s cub attacks elephants whose temples have become dirty due to the flow of ichor. It is the nature of the powerful; age is not a reason for valorous action.
--
A friend addresses a king:
राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
कोवार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनाम्
आक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ शृ-२८ ॥
अ: राजन्! जगति कश्चित् एव तृष्णा-अम्बु-राशेः अवसानं न गतः हि । स्व-वपुषि  स-अनुरागे यौवने  गलिते, प्रभूतैः अर्थैः कः वा अर्थः? (यावत्) जरया आक्रम्य आक्रम्य रूपं न लुप्यते तावत् विकसित-कुमुद-इन्दीवर-आलोकिनीनां प्रेयसीनां सद्म गच्छामः ।
O king! No one in this world has seen the end of the ocean of desire; what is the meaning of plenty of money when one has lost lovely youth? Well before our forms are lost due to the onslaught of old age, let us go to the residence of our beloved girls who look like blossoming red and blue lotuses.

रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतुः
मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ शृ-२९ ॥
अ: अस्मिन् लोके यौवनात् अन्यत्, रागस्य एकम् आगारं, नरक-शत-महा-दुःख-संप्राप्ति हेतुः, मोहस्य उत्पत्ति-बीजं, ज्ञान-तारा-अधिपस्य जलधर-पटलं, कन्दर्पस्य एक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं, अनर्थ-व्रज-कुल-भवनं न अस्ति ।
There is nothing in this world other than youth which acts as the residence of passion, which is the cause of severe grief equivalent to hundreds of hell, which acts as the seed for mental delusion, which acts as a spread of clouds to moon-like knowledge, which is the sole friend of cupid and which is a continuous series of well known various clear defects and which acts as a community hall for all worthless things.

शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयते प्राप्ते नवे यौवने ॥ शृ-३० ॥
अ: कः अपि धन्यः नवे यौवने प्राप्ते, शृङ्गार-द्रुम-नीरदे प्रसृमर-क्रीडा-रस-स्रोतसि प्रद्युम्न-प्रिय-बान्धवे चतुर-वाक्-मुक्ताफल-उदन्वति  सौभाग्य-लक्ष्मी-निधौ तन्वी-नेत्र-चकोर-पार्वण-विधौ  विक्रियां न कलयते ।
He is indeed a rare fortunate person who does not get disturbed at the arrival of youth which acts as rain bearing cloud to the tree of romance, which is a quick moving stream of playfulness, which is a dear relative to Manmatha, which is an ocean for pearl-like witty sayings, which acts as full moon to the chakora-like eyes of slender ladies and which is a treasury of the goddess of prosperity.   
--
ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो
येचाल्पत्वं दधति विषयापेक्षपर्याप्तबुद्धेः ।
तेषामन्तः स्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ वै-२८ ॥
अ: ये धन-पति-पुरः प्रार्थना-दुःख-भाजः, ये च विषय-अपेक्ष-पर्याप्त-बुद्धेः अल्पत्वं दधति, तेषां वासराणि शिखरि-कुहर-ग्राव-शय्या-निषण्णः ध्यान-छेदे अन्तः-स्फुरत-हसितं स्मरेयम् ।
When meditation is broken while seated on a rock in a cave of a hill, I should remember smiling internally the days of those who undergo the grief of begging in front of the wealthy and those who bear the smallness of mind contented with the worldly desires.

ये सन्तोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसङ्कुलधियस्तेषां न तृष्णा हता ।
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे  रोचते ॥ वै-२९  ॥
अ: ये सन्तोष-निरन्तर-प्रमुदिताः तेषां मुदः न भिन्नाः, अन्ये ये धन-लुब्ध-सङ्कुल-धियः तेषां तृष्णा न हता । इत्थं (स्थिते) स्व-आत्मनि एव समाप्त-हेम-महिमा मेरुः कस्य कृते कृतः? तादृक् सम्पदां पदं मे न रोचते ।
Happiness of those who are all the time happy is not broken; and the greed of those whose mind is full of avarice for wealth is not killed. For whose sake is Meru mountain the fame of whose gold is only meant for itself created? I do not like that type of wealth.

भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोः सत्त्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ वै-३० ॥
अ: योगीश्वराः अ-दैन्यम् अ-प्रति-सुखं सर्वतः भीति-छिदं दुर्-मात्सर्य-मद-अभिमान-मथनं दुःख-ओघ-विध्वंसनं सर्वत्र अनु-अहम् अ-प्रयत्न-सुलभं साधु-प्रियं पावनं शम्भोः सत्त्रं अवार्यम् अक्षय-निधिं भिक्षा-आहारं शंसन्ति ।

The great saints speak of living on alms as not being mean, a pleasure to which there is no equal, which cuts off all round fear, which destroys haughtiness, intoxication and jealousy, which vanquishes the flood of unhappiness, which is available easily without effort, which is dear to the virtuous, which purifies, which is a homage to Siva and which is an irresistible inexhaustible treasure. 
- - - -

Saturday, July 18, 2015

Bhartruhari's Shatakas-10

भर्तृहरिशतकत्रयी-१०

कुसुमस्तबकस्येव द्वयी वृत्तिः मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ नी-२५ ॥
अ:मनस्विनः वृत्तिः कुसुम-स्तबकस्य इव द्वयी; सर्वलोकस्य मूर्ध्नि (शोभते)वा वने एव शीर्यते ।
Mode of conduct of the wise is of two kinds like that of a bunch of flowers, either assuming its position at the head of all or languishing in a forest.

सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषाः
तान्प्रत्येष विशेषविक्रमरुची राहुर्नवैरायते ।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ
भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ नी-२६ ॥
अ: भ्रातः पश्य, बृहस्पति-प्रभृतयः अन्ये अपि संभाविताः पञ्चषाः सन्ति; एषः विक्रम-रुची दानव-पतिः राहुः तान् प्रति न वैरायते; शीर्ष-अवशेष-आकृतिः पर्वणि भास्वरौ दिवाकर-निशा-प्राण-ईश्वरौ द्वौ एव ग्रसते ।
Look, brother. There are others like Jupiter, five or six in number who are (equally) respected; this chief of demons, Rahu, who is fond of being valorous does not show enmity towards them; with only his head remaining in his form he swallows the bright sun and the bright moon during the full moon and the new moon. 
  
वहति भुवनश्रेणिं शेषः फणाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।
तमपि कुरुते क्रोडाधीनं पयोधिरनादरात्
अहह महतां निःसीमानश्चरित्रविभूतयः ॥ नी-२७ ॥
अ: शेषः फणा-फलक-स्थितां भुवन-श्रेणिं वहति; सः च कमठ-पतिना मध्ये-पृष्ठं धार्यते च ; पयोधिः तम् अपि अनादरात् क्रोड-अधीनं कुरुते; महतां चरित्र-विभूतयः निःसीमानः, अहह ।
Adisesha carries the whole set of worlds on his broad and flat hood; he is carried by the great tortoise on its back; the ocean nonchalantly carries it in its hollows. The manifestations of the conduct of the great are really boundless. What a wonder!
--
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिदुन्मीलितानाम्  ।
उपरिसुरतखेदस्विन्नगण्डस्थलानाम्
अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ शृ-२५ ॥
अ: भाग्यवन्तः उरसि निपतितानां, स्रस्त-धम्मिल्लकानां, मुकुलित-नयनानां, किञ्चित् उन्मीलितानां, उपरि-सुरत-खेद-स्विन्न-गण्डस्थलानाम् वधूनां अधर-मधु पिबन्ति ।
The fortunate drink the sweet lips of their young wives who have fallen on their chests with their braided hair slipping away, with their eyes closed like a bud but ever slightly opened and with their temples wet with sweat due to the exhausting reverse amorous pleasures.

आमीलितनयनानाम् यः सुरतरसोऽनु संविदं भाति ।
मिथुनैर्मिथोऽवधारितमवितथमेव कामनिर्वहणम् ॥ शृ-२६ ॥
अ: आमीलित-नयनानां यः अनु संविदं भाति (सः) सुरतरसः;  मिथुनैः मिथः अवधारितं काम-निर्वहणं अवितथम् एव ।
Sexual pleasure is that which flows between consenting couple with their eyes slightly closed. A sexual encounter mutually agreed to will indeed be not futile.

इदमनुचितमक्रमश्च पुंसां
यदिह जरास्वपि मान्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ शृ-२७ ॥
अ: पुंसां जरासु अपि मान्मथाः विकाराः इति यत्, तत् इदं अनुचितम् अक्रमः च। नितम्बिनीनां स्तन-पतन-अवधि जीवितं रतं वा न कॄतं इति यत् तत् अपि (अनुचितम्) ।
It is indeed improper and not in order that men have sexual cravings even in old age. Similarly it is not right that women’s longevity or desire for sex is not restricted to the age when breasts sag. 
--
किं कन्दाः निर्झरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ वै-२५ ॥
अ: निर्झरेभ्यः कन्दाः, निर्झराः गिरिभ्यः प्रलयम् उपगताः किम्? तरुभ्यः सरस-फल-भृतः वल्कलिन्यः च शाखाः प्रध्वस्ता वा? यत् अपगत-प्रश्रयाणां खलानां दुःख-आप्त-स्वल्प-वित्त-स्मय-पवन-वश-आनर्तित-भ्रू-लतानि मुखानि (याचकैः) वीक्ष्यन्ते ।
Have the bulbous roots vanished from mountain streams or streams have vanished from mountains or branches of trees with their barks and juicy fruits have been destroyed that people are fondly looking at faces of the wicked persons devoid of modesty and whose creeper-like eye-brows dance due to the gale like smile caused by having earned some wealth with great difficulty?     

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणामविवेकगूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ वै-२६ ॥
अ: अधुना पुण्यैः मूलफलैः प्रणयिनीं वृत्तिं कुरुष्व; तथा अ-कृपणैः नव-पल्लवैः भूशय्यां कुरुष्व; उत्तिष्ठ, वनं यावः यत्र अविवेक-गूढ-मनसां वित्त-व्याधि-विकार-विह्वल-गिरां क्षुद्राणां ईश्वराणां नाम सदा अपि न श्रूयते ।
Adopt  a lovely way of life by (enjoying) roots and fruits; sleep on the ground with tender sprouts as bed; let us go to  the forest where not even the name of the small minded wealthy persons whose mind is closed due to absence of discrimination and whose manner of speaking is affected by a disease called money is heard.

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कॄपणाः ॥ वै-२७ ॥
अ: प्रति-वनं अखेदं स्वेच्छा-लभ्यं क्षितिरुहां फलम्, पुण्य-सरितां शिशिर-मधुरं पयः स्थाने स्थाने (स्वेच्छा-लभ्यम्); सु-ललित-लता-पल्लव-मयी मृदु-स्पर्शा शय्या; तत् अपि कृपणाः धनिनां द्वारि सन्तापं सहन्ते ।

In every forest there are fruits of trees which are easily available as much as desired; at frequent intervals is available cold and sweet water from pious rivers; there is bed which is soft to touch and made of sprouts of lovely creepers; even then wretched people undergo troubles at the door of the wealthy.  
- - - - 

Saturday, July 11, 2015

Bhartruhari's shatakas-9

भर्तृहरिश्तकत्रयी-९

स्वल्पस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः
श्वा लब्द्वा परितोषमेति  न च तत्तस्य क्षुधाशान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ नी-२२ ॥
अ: श्वा स्वल्प-स्नायु-वस-अवसेक-मलिनं निर्मांसम् अस्थि अपि लब्ध्वा परितोषम् एति, तु तत् तस्य क्षुधा-शान्तये न (भवति) । सिंहः अङ्कम् आगतं जम्बुकम् अपि त्यक्त्वा द्विपं निहन्ति । सर्वः जनः क्रुच्छ्र-गतः अपि सत्त्व-अनुरूपं  फलं वाञ्छति ।
A dog feels happy to get a flesh-less bone dirtied by remnants of a bit of ligament and marrow although it does not satisfy its hunger.  A lion kills an elephant leaving a fox which has landed on its lap. Persons seek fruits according to their own status even if they are in difficulties.

लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य  वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति छाटुशतैश्च भुङ्क्ते ॥ नी-२३ ॥
अ: श्वा लाङ्गूल-चालनं अधः-चरण-अवपातं भूमौ निपत्य वदन-उदर-दर्शनं च पिण्डदस्य (पुरतः) कुरुते | गज-पुङ्गवः तु धीरं विलोकयति, चाटु-शतैः च भुङ्क्ते ।
A dog wags its tail, shows its face and stomach falling at the feet of the person who feeds it. But an elephant looks  majestically and eats after being cajoled by graceful words.

परिवर्तिनि संसारे मॄतः को वा न जायते ।
स जातो येन जातेन याति वंशः समुन्नतिम् ॥ नी-२४ ॥
अ: परिवर्तिनि संसारे मृतः कः वा न जायते? येन जातेन वंशः समुन्नतिं याति, सः जातः ।
In this cycle of life, who is not born again after dying? The birth of a person who elevates his dynasty is indeed  the birth.
--
अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वङ्गसुखैकलोला ।
आलिङ्गितायां पुनरायताक्ष्या-
माशास्महे विग्रहयोरभेदम् ॥ शृ-२२ ॥
अ: (वयं) अदर्शने दर्शन-मात्र-कामाः, दृष्ट्वा परिष्वङ्ग-सुख-एक-लोलाः, पुनः आयताक्ष्याम् आलिङ्गितायाम् विग्रहयोः अभेदम् आशास्महे ।
When the wide-eyed lady is not seen we desire to see her, having seen we desire to embrace her, after embracing we seek  the union of the bodies.

मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ शृ-२३ ॥
अ: शिरसि मालती, मुखे जृम्भणम्, वपुषि कुङ्कुम-आविलं चन्दनम्, बक्षसि मद-आलसा प्रियतमा, एषः स्वर्गः, परिशिष्टः आगमः ।
Jasmine for the hair, a yawn on the face, body smeared with sandal paste full of saffron, a languorous passionate dear lady to hug and that is heaven, rest is just (bookish) knowledge.

प्राङ्मा मेति मनागनागतरसं जाताभिलाषं ततः
सव्रीडं तदनु श्लथोद्यममथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रम् स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो
निःसङ्गाङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्री रतम् ॥ शृ-२४ ॥
अ: कुलस्त्री-रतं प्राक् अनागत-रसं मनाक् मा मा इति, ततः जात-अभिलाषं स-व्रीडं तदनु श्लथ-उद्यमं पुनः प्रध्वस्त-धैर्यं, ततः प्रेम-आर्द्रं स्पृहणीय-निर्भर-रहः-क्रीडा-प्रगल्भम् निःसङ्ग-अङ्ग-विकर्षण-अधिकसुखं रम्यम् । 
Saying “no,no” weakly when the desire is not yet risen, then becoming desirous shyly and with weak physical resistance and with loss of courage (to resist) and then enjoying secret carefree mature dalliances and unobstructed bodily searches render sex with ones chaste woman a great pleasure.
 --
अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ वै-२२ ॥
अ: इयं दुष्पूरा जठर-पिठरी अभिमत-महा-मान-ग्रन्थि-प्रभेद-पटीयसी गुरुतर-गुण-ग्राम-अम्भोज-उज्ज्वल-चन्द्रिका विपुल-विलसत्-लज्जा-वल्ली-वितान-कुठारिका विडम्बनं करोति ।
This store room of a belly which is difficult to fill up, which is skilful in breaking the cherished knot called self respect, which acts as bright moonlight to the lotus of weighty and good qualities and which acts as an axe to the large glittering collection of creepers makes fun of us.

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालिं कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ वै-२३ ॥
अ: क्षुधा-आर्तः मानी उदर-दरी-पूरणाय पुण्ये ग्रामे महति वने वा सित-पट-छन्न-पालिं कपालिं आदाय न्याय-गर्भ-द्विज-हुत-हुतभुक्-धूम-धूम्र-उपकण्ठे द्वारं द्वारं प्रविष्टः प्राणैः सनाथः वरम्, न पुनः अनु-दिनं तुल्य-कुल्येषु दीनः (वरम्) ।
It is better for a person of self respect who is hungry to manage to breathe and fill his stomach by entering door after door near a village which has become gray with the smoke of fire-offerings made by dutiful Brahmins rather than be miserable among his relatives.

गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः ॥ वै-२४ ॥
अ: मनुष्याः स-अवमान-पर-पिण्ड-रताः (इति) यत्, गङ्गा-तरङ्ग-कण-शीकर-शीतलानि
विद्याधर-अध्युषित-चारु-शिलातलानि हिमवतः स्थानानि प्रलयं गतानि किम्?

Is it that the Himalayan abodes which are cooled by the spray of the waves of Ganga and where Vidyadharas dwell on beautiful rocks have been lost in floods that people have become dependent on others for their daily bread? [ Vidyadharas are a kind of supernatural beings having magical powers and attending on Siva.]
- - - - 

Saturday, July 4, 2015

Bhartruhari's Shatakas-8

भर्तृहरिसुभाषितत्रिशती-८

जाड्यं धियो हरति सिञ्चति वाचि सत्यम्
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति  दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय किन्न करोति पुंसाम् ॥ नी-१९ ॥
अ: सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मान-उन्नतिं दिशति, पापम् अपाकरोति, चेतः प्रसादयति, दिक्षु कीर्तिं तनोति। (सत्सङ्गतिः) पुंसां किम् न करोति, कथय  ।
Company of the virtuous persons removes the lethargy of mind, soaks speech with truth, guides for attaining higher respect, cancels the past sin, freshens mind and spreads fame in all directions. Tell, what is it that it cannot do?

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति तेषां यशःकाये जरामरणजं भयम् ॥ नी-२० ॥
अ: सुकृतिनः रस-सिद्धाः ते कवीश्वराः जयन्ति । तेषां यशः-काये जरा-मरण-जं भयम् नास्ति । 
The blessed great poets who have attained the mastery of sentiments flourish. There is no fear of death or old age to their body of fame.

अथ मानशौर्यपद्धतिः
Section on valour of self respect

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि ।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ नी-२१ ॥
अ: मान-महताम् अग्रेसरः केसरी क्षुत्-क्षामः अपि, जरा-कृशः अपि, शिथिल-प्रायः अपि, कष्टां दशाम् आपन्नः अपि, विपन्न-दीधितिः अपि, प्राणेषु नश्यत्सु अपि, मत्त-इभ-इन्द्र-विभिन्न-कुम्भ-पिशित-ग्रास-एक-बद्ध-स्पृहः जीर्णं तृणम् अत्ति किम्?
Does a lion which stands tall among those valuing self respect and which is solely desirous of a mouthful of meat of the temple of an elephant  in rut eat withered grass even if it (the lion) is weak due to old age, well nigh tottering, is in difficult circumstance, has lost its lustre with its life ebbing out?
 --
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत-
प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः । 
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ शृ-१९  ॥
अ: इमे मृगदृशां तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरत-प्रताप-प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः चिरं चेतःचोराः अभिनव-विकार-एक-गुरवः विलास-व्यापाराः किमपि विजयन्ते ।
These playful activities of doe-eyed girls which are the fragrances of youthful lustre, the beginnings of adult sexual valour, which act as surety for giving victory to cupid, which steal the minds for long, and which are laden with novel alterations flourish in an un-definable manner.

प्रणयमधुरा प्रेमोदारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनो
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ शृ-२० ॥
अ: मृगीदृशां रहसि स्वैर-आलापाः प्रणय-मधुराः प्रेम-उदाराः रस-आश्रयतां गताः, फणिति-मधुराः मुग्ध-प्रायाः प्रकाशित-सम्मदाः प्रकृति-सुभगाः विस्रम्भ-आर्द्राः स्मर-उदय-दायिनः किम् अपि हरन्ति ।
The private care-free utterances of doe-eyed girls sweet with affection, generously loving and replete with the sentiment of love, sweet to hear, well-nigh innocent, expressing exhilaration, lovely by nature, soft with feelings of love and arousing desire in others are attractive in an inexpressible way.
अथ सम्भोगवर्णनम्
(Description of successful love)
विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेन करोद्धतेन
निवारयन्ती शशिनो मयूखान् ॥ शृ-२१ ॥
अ: काचित् तन्वी कर-उद्धतेन स्तन-उत्तरीयेन शशिनः मयूखान् निवारयन्ती वनद्रुमाणां छायासु विश्रम्य विश्रम्य विचचार ।
A slender lady walked in the shades of forest trees resting frequently while warding off the rays of the moon by raising in hand the bosom-covering garment.
--
तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं
प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः ॥ वै-१९ ॥
अ: जनः आस्ये तृषा शुष्यति शीत-मधुरं सलिलं पिबति; क्षुधा-आर्तः मांस-आदि-कलितं शाली-अन्नं कवलयति; काम-अग्नौ प्रदीप्ते वधूं सुदृढतरम् आलिङ्गति;  व्याधेः प्रतीकारं सुखम् इति विपर्यस्यति ।
A person drinks water which is sweet and cold when the mouth gets dried up due to thirst; afflicted by hunger he eats cooked rice mixed with meat etc; when the fire of carnal desire is aflame he embraces his bride tightly; he mistakes as happiness a palliative for a disease.

तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः सम्पदः
कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः ।
मत्वा विश्वमनश्वरं निविशते संसारकारागृहे
सन्दृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ वै-२० ॥
अ: अज्ञान-मूढः जनः तुङ्गं वेश्म, सताम् अभिमताः सुताः, सम्पदः संख्या-अतिगाः, दयिता कल्याणी, नवं वयः,  विश्वम् अनश्वरं मत्वा संसार-कारागृहे निविशते । धन्यः तत् अखिलं क्षण-भङ्गुरम् सन्दृश्य सन्न्यस्यति ।
A person gone astray by ignorance stays in the prison house of family entanglement believing that a lofty mansion, sons admired by the virtuous, un-countable wealth, a beloved worthy of honour, youth and this world are all permanent. A blessed person relinquishes them realizing that all that is perishable in a second.

अथ याच्ञादैन्यदूषणम्
(Criticizing begging and meanness)
दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ वि-२१ ॥
अ: दीन-मुखैः क्षुधितैः क्रोशद्भिः शिशुकैः सदा एव आकृष्ट-जीर्ण-अम्बरा दीना निरन्न-विधुरा गेहिनी दृश्या न चेत्, कः मनस्वी पुमान् स्व-दग्ध-जठरस्य  अर्थे याच्ञा-भङ्ग-भयेन गद्गद-गलत्-त्रुटत्-विलीन-अक्षरं  देहि इति वदेत् ।
If there were no house-wife looking wretched and miserable for want of food with crying hungry children having miserable faces tugging at her old garment, which respectable person begs for food just for the sake of his own burning stomach in broken halting stammering words with the fear that his request may be turned down?  
- - - -