Follow by Email

Saturday, November 28, 2015

Bhartrhari's Shatakas-29

भर्तृहरिशतकत्रयी-२९

भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्ते मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
स्वस्थास्तिष्ठत दैवमेव हि परं वृद्धौ क्षये कारणम् ॥ नी-८२ ॥
अ: आखुः (करण्डस्य) विवरं कृत्वा भग्न-आशस्य करण्ड-पिण्डित-तनोः क्षुधा म्लान-इन्द्रियस्य भोगिनः मुखे स्वयं निपतितः । असौ (भोगी) तत्-पिशितेन तृप्तः तेन एव पथा सत्वरं यातः । स्वस्थाः तिष्ठत । वृद्धौ क्षये हि दैवम् एव परं कारणम् ।
After making a hole in the basket a mouse falls into the mouth of a snake which has its body curled into a heap in the basket and whose senses are weakened because of hunger. The snake having had a satisfying meal of the mouse gets out of the same hole quickly. You people! Keep quiet.  Fate is the only cause for growth or decay.

यथा कन्दुकपातेनोत्पतत्यार्यः पतन्नपि ।
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ नी-८३ ॥
अ: आर्यः पतन् अपि कन्दुकपातेन यथा उत्पतति, अनार्यः तु मृत्-पिण्ड-पतनं यथा तथा पतति ।
A gentleman bounces back like a ball after a fall. An uncultured person falls down like a heap of mud (never to bounce back).

खल्वाटो दिवसेश्वरस्य किरणैः सन्तापिते मस्तके
गच्छन्देशमनातपं द्रुतगतिस्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥ नी-८४ ॥
अ: खल्वाटः मस्तके दिवस-ईश्वरस्य किरणैः सन्तापिते, द्रुत-गतिः अनातपं देशं गच्छन् तालस्य मूलं गतः । तत्र अपि अस्य शिरः पतता महा-फलेन सशब्दं भग्नम् । प्रायः यत्र दैव-हतकः गच्छति तत्र एव आपदः यान्ति ।
A bald person, with his head burning due to the heat of the sun, seeks a shady place and quickly goes to the base of a pine tree. There his head gets broken by a falling big pine fruit. Perhaps misfortune follows an unfortunate person wherever he goes.
--
मधुरयं मधुरैरपि कोकिला-
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ॥ शृ-८२ ॥
अ: अयं मधुः मधुरैः कोकिला-कल-रवैः मलयस्य वायुभिः अपि विरहिणः शरीरिणः प्रहिणस्ति । विपदि सुधा अपि विषायते, हन्त ।
This spring time hits the separated lovers with the pleasant indistinct singings of the cuckoo and the wind blowing from Malaya mountain. Alas! Even ambrosia turns poison in times of distress.

आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः
केषाञ्चित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ॥ शृ-८३ ॥
अ: अत्र चैत्रे किलकिञ्चितस्य आवासः, पार्श्वे विलास-अलसाः दयिताः, कर्णे कोकिल-कामिनी-कल-रवः स्मेरः लता-मण्डपः, कतिपयैः सत्-कविभिः समं गोष्ठी, सितांशोः मुग्धाः कराः, विचित्राः स्रजः केषाञ्चित् हृदयं सुखयन्ति ।
 Amorous display of emotions at home, beloveds tired of amorous activities by the side, the sweet tones of the female cuckoo to hear, vine- bower  full of laughter, meeting with a few reputed poets, colourful garlands, all these do bring happiness to the heart s of some people.

पान्थस्त्रीविरहानलाहुतिकलामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ।
अल्पास्ते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ श्रृ-८४ ॥
अ : अधुना माकन्देषु पान्थ-स्त्री-विरह-अनल-आहुति-कलाम् आतन्वती मञ्जरी पिक-अङ्गनाभिः स-उत्कण्ठम् आलोक्यते । नव-पाटला-परिमल-प्राग्भार-पाटच्चराः क्लान्ति-वितान-तानव-कृतः ते अल्पाः श्रीखण्ड-शैल-अनिलाः वान्ति ।
Female cuckoos  longingly look at the cluster of mango blossoms which act as offerings to the fire of separation felt by ladies whose husbands are away on travel. Mild winds blow from Srikhanda mountain which are prone to steal the fragrance of fresh Patala flowers and which diminish the spread of weariness.

--
यदेततस्वच्छन्दं विहरणमकार्पण्यमशनं
सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्
न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ वै-८२ ॥
अ: एतत् स्व-छन्दं विहरणम्, अ-कार्पण्यम् अशनम्, आर्यैः सह संवासः, उपशम-एक-व्रत-फलं श्रुतं, मनः बहिः अपि मन्द-स्पन्दं, चिरस्य विमृशन् अपि कस्य उदारस्य तपसः एषा परिणतिः न जाने ।
I do not know what type of penance results in this type of maturity: care-free wandering, food without the need to feel humble, living among the virtuous, sacred knowledge with the sole purpose of mental tranquillity, internally and externally very little wavering.

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥ वै-८३ ॥
अ:  मनोरथाः च हृदये एव जीर्णाः, तत् यौवनं च यातं, गुणाः च गुणज्ञैः विना अङ्गेषु वन्ध्य-फलतां याताः, हन्त । किं युक्तम्? । अक्षमी बलवान् कालः कृतान्तः सहसा अभ्युपैति । हा, ज्ञातम्, मदन-अन्तक-अङ्घ्रि-युगलं मुक्त्वा अन्या गतिः न अस्ति ।
 Our yearnings have aged and weakened in the heart only, that youth is gone, due to lack of discerning people good qualities have been in vain, alas, the unforgiving powerful God of death quickly approaches. Yes, I know, there is no other go than seeking the feet of Shiva who annihilated the Love God.

महेश्वरे वा जगतामधीश्वरे
जनार्दने वा जगदन्तरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेन्दुशेखरे  ॥ वै-८४ ॥
अ: जगताम् अधीश्वरे महेश्वरे वा जगत्-अनतर्-आत्मनि जनार्दने वा मे वस्तु-भेद-प्रतिपत्तिः न अस्ति, तथा अपि भक्तिः तरुण-इन्दु-शेखरे (अस्ति ) ।

I do not recognize any difference between Mahesvara who is the over lord of all the worlds and Vishnu who is the inner soul of the worlds. Even then my devotion is to Shiva with the young moon on his crest.
- - - - 

Saturday, November 21, 2015

Bhartrhari's Shatakas-28

भर्तृहरिशतकत्रयी-२८

छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न लोकेषु ॥ नी-७९ ॥
अ: सन्तः “तरुः छिन्नः अपि रोहति, चन्द्रः क्षीणः अपि पुनः उपचीयते” इति विमृशन्तः लोकेषु न सन्तप्यन्ते ।
Wise persons do not grieve in this world understanding that a tree that has been felled grows again and that the moon which wanes expands again.

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमः
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ नी-८० ॥
अ: सुजनता ऐश्वर्यस्य विभूषणं, वाक्संयमः शौर्यस्य, उपशमः ज्ञानस्य, विनयः श्रुतस्य, पात्रे व्ययः वित्तस्य, अक्रोधः तपसः, क्षमा प्रभवितुः, निर्व्याजता धर्मस्य, सर्वेषाम्  अपि सर्वकारणम् इदं शीलं परं भूषणम् ।
Good conduct is an ornament for wealth, restraint in speech is an ornament  for valour, mental tranquillity for wisdom, humility for scholarship, spending  for the right cause for money, not getting angry for penance, ability to pardon for a capable person, being unbiased for righteous conduct; this morality is an ornament for one and all.

अथ दैवपद्धतिः
Section on Destiny

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावतो वारणः ।
इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे
तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥ नी-८१ ॥
अ: यस्य नेता बृहस्पतिः, प्रहरणं वज्रं, सैनिकाः सुराः, दुर्गं स्वर्गो, अनुग्रहः खलु हरेः, वारणः ऐरावतः, इति आश्चर्यबलान्वितः अपि बलभित् सङ्गरे परैः भग्नः, तत् व्यक्तं ननु शरणं दैवम् एव पौरुषम् वृथा, धिक् धिक् ।
Even Indra, whose leader is Bruhaspati, whose weapon is Vajra, whose army consists of Divine persons, whose fort is heaven,  whose elephant is Airavata and who has the blessings of Lord Vishnu was defeated by his enemies in battle; it is quite clear that destiny is the refuge and valour is of no use, what a pity!

--
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वॆषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकश्चापरे ॥ शृ-७९ ॥
: ये मूढाः कुधियः कुसुम-आयुधस्य जयिनीं सर्व-अर्थ-सम्पत्करीं स्त्री-मुद्रां प्रविहाय मिथ्या-फल-अन्वेषिणः यान्ति,ते तेन एव निहत्य निर्दयतरं नग्नीकृताः मुण्डिताः
केचित् पञ्चशिखीकृताः च जटिलाः अपरे कापालिकाः च (कृताः) ।
Fools having wrong knowledge who neglect the cupid’s signet in the form of ladies which provides every type of wealth and which ensures victory go after false results. They are mercilessly destroyed by the same cupid and some are made naked, tonsured, some are made to have five tufts, some to have matted hairs and others to hold skulls. [ It is the poet’s way of saying that they become ascetics of various types.] 

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः
तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं येभुञ्झते मानवाः
तेषामिन्द्रियनिग्रहो यदि भवेत् विन्ध्यः प्लवेत् सागरे ॥ श्रृ-८० ॥
अ: वात–अम्बु-पर्ण-अशनाः विश्वामित्र-पराशर-प्रभृतयः ते अपि सुललितं स्त्री-मुख-पङ्कजं दृष्ट्वा एव मोहं गताः । शाली-अन्नं सघृतं पयो-दधि-युतं ये मानवाः भुञ्जते तेषाम् इन्द्रियनिग्रहः यदि भवेत् विन्ध्यः सागरे प्लवेत् ।
Even ascetics like Viswamitra and Parasara who subsisted on just air, water or leaves got deluded by looking at the lotus face of ladies. Vindhya mountain would float on ocean if those who consume cooked rice with ghee mixed with milk and curd were to control their senses.

अथ ऋतुवर्णनम्

परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविधुरोत्कण्ठाभाजः प्रियाः पिकपक्षिणाम् ।
विरलविरलस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ शृ-८१ ॥
अ: परिमल-भृतः वाताः, नवाङ्कुरकोटयः शाखाः, पिकपक्षिणां प्रियाः मधुर-विधुर-उत्कण्ठाभाजः, वधू-वदन-इन्दवः विरल-विरल-स्वेद-उद्गाराः, धात्र्यां मधौ प्रसरति (सति) कस्य गुणोदयः न जातः ।
The wind is carrying fragrances, the branches are full of the tips of new sprouts, female cuckoos express a longing sometimes pleasing and sometimes harsh, the moon-like faces of young ladies have sparse drops of sweats oozing; when spring arrives on the land which thing does not  attain quality?

--
रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यं साधुसमागमागतसुखं काव्यॆषु रम्याः कथाः ।
कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यमनित्यतामुपगते चित्ते न किञ्चित्पुनः ॥ वै-७९ ॥
अ: चन्द्रमरीचयः रम्याः तृणवती वन-अन्त-स्थली रम्या
साधु-समागम-आगत-सुखं रम्यं काव्येषु कथाः रम्याःकोप-उपाहित-बाष्प-बिन्दु-तरलं प्रियाया मुखं रम्यं सर्वं रम्यम् चित्ते अनित्यताम् उपगते न किञ्चित्पुनः (रम्यम् ) ।
Pleasant are the moonbeams, pleasant are the grass laden forest interiors; pleasant is the happy meeting with saints; pleasant are the stories in literary works; pleasant is the face of the beloved with unsteady drops of tears brought out by feigned anger; everything is pleasant; but if there is restlessness in mind nothing is pleasant.

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किन्तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाङ्कुर-
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥वै-८० ॥
अ: वसतये हर्म्यतलं रम्यं न किं? गेयादिकं श्रव्यं न (किम्), वा प्राण-समा-समागम-सुखं एव अधिकप्रीतये न किं ? किन्तु सकलं भ्रान्त-पतङ्ग-पक्ष-पवन-व्यालोल-दीप-अङ्कुर-
च्छाया-चञ्चलम् आकलय्य सन्तः वनान्तं गताः
Is not a mansion nice for staying? Is it not nice to listen to music? Or is it not very pleasing to meet with a beloved? But considering that everything is as temporary as the unsteady shadow of the flame of a lamp wavering due to the air blown by the wings of a disoriented moth, the wise have gone to the forest. 

अथ शिवार्चनम्
( Worshipping Shiva)

आसंसारात्त्रिभुवनमिदं चिन्वतां तात तादृक्-
मैवास्माकं नयनपदवीं श्रोत्रमार्गं  गतो वा ।
योऽयं धत्ते विषयकरिणीगाढगूढाभिमान-
क्षीबस्यान्तःकरणकरिणः संयमानायलीलाम् ॥ वै-८१ ॥
अ: तात! आसंसारात् त्रिभुवनम् इदं चिन्वतां अस्माकं नयनपदवीं श्रोत्रमार्गं  वा तादृक्-
एव मा गतो, यः अयं विषय-करिणी-गाढ-गूढ-अभिमान-
क्षीबस्य अन्तःकरण-करिणः संयम-आनाय-लीलाम् धत्ते
Dear!  We, who have been searching this world ever since its beginning  have not heard or seen one who acts as the rope-net which controls the elephant called mind which is intoxicated with the deep secret desire for the female elephant called the sensual pleasures.
- - - -  

Saturday, November 14, 2015

Bhartrhari's Shatakas-27

भर्तृहरिशतकत्रयी-२७

कदर्थितस्यापि हि धैर्यवृत्तेः
न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेः
नाधः शिखा यान्ति कदाचिदेव ॥ नी-७६  ॥
अ: धैर्यवृत्तेः कदर्थितस्य अपि धैर्यगुणः प्रमार्ष्टुं न शक्यते । वह्नेः अधोमुखस्य कृतस्य अपि शिखाः कदाचित् एव अधः न यान्ति ।  
Fortitude of a brave person cannot be obliterated even if he is despised. The flames of a fire even if held down do not grow downwards.

वरं शृङ्गोत्सङ्गाद्गुरुशिखरिणः क्वापि विषमे
पतित्वायं कायः कठिनदृषदन्ते विगलितः ।
वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने
वरं वह्नौ पातस्तदपि न कृतः शीलविलयः ॥ नी-७७ ॥
अ : अयं कायः गुरु-शिखरिणः शृङ्ग-उत्सङ्गात् क्व अपि विषमे कठिण-दृषद्-अन्ते पतित्वा विगलितः वरम्, हस्तः तीक्ष्ण-दशने फणि-पति-मुखे न्यस्तः वरम्, वह्नौ पातः वरम्, तत् अपि शील-विलयः न कृतः ।
 It is better that this body gets broken by falling on some hard rock from a cliff of a high mountain, it is better that the hand is thrust into the mouth of a big snake with sharp fangs, it is better to jump into fire, ones morality should not get lost.

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतरं शीलं समुन्मीलति ॥ नी-७८ ॥
अ: यस्य अङ्गे अखिल-लोक-वल्लभतरं शीलं समुन्मीलति, तस्य वह्निः जलायते, जलनिधिः कुल्यायते, तत्क्षणात् मेरुः स्वल्पशिलायते, मृगपतिः सद्यः कुरङ्गायते,  व्यालः माल्य-गुणायते, विष-रसः पीयूष-वर्षायते ।
Fire becomes water, ocean becomes a small canal, mountain Meru becomes a small rock, lion becomes a deer, a serpent becomes a garland and poison becomes ambrosia for a person in whom morality adored by the whole world shines.

--
तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ शृ-७६ ॥
अ: यावत् अङ्गेषु हतः पञ्चेषु-पावकः न ज्वलति, तावत् महत्त्वं पाण्डित्यं कुलीनत्वं, विवेकिता ।
One’s greatness, scholarship and ability to discriminate last so long as the cursed fire called cupid does not inflame one’s body. 

शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्तबोधोऽपि बाढं
संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ शृ-७७ ॥
अ: अस्मिन् संसारे शास्त्रज्ञः अपि, प्रगुणित-नयः अपि, आत्त-बोधः अपि,सद्गतीनां भाजनं विरलः भवति, येन एतस्मिन् वाम-अक्षीणां कुटिला भ्रू-लता कुञ्चिका इव निरय-नगर-द्वारम् उद्घाटयन्ती भवति ।
 In this world even though a person is well versed in scriptures, is endowed with right conduct, is aware of true knowledge it is rare that he attains salvation. Because the curved creeper-like eye brows of ladies with beautiful eyes act as a key which opens the door of city called hell.

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयत्क्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधाक्षामो जीर्णः पिठरककसालार्पितगलः
शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ शृ-७८ ॥
अ: कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलःव्रणी पूयत्क्लिन्नः कृमि-कुल-शतैः आवृत-तनुः क्षुधा-क्षामः जीर्णः पिठरक-कसाल-अर्पित-गलः श्वा शुनीम् अन्वेति । मदनः हतम् अपि च हन्ति एव ।
A dog even if it is weak, blind, lame, deaf, tail-less, wounded wet with pus, with its body covered with hundreds of worms, hungry, old with its neck stuck in a broken pot follows a bitch. Cupid strikes even the stricken.
--
तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ वै-७६ ॥
अ: जने कतिपय-निमेष-आयुषि,  तपस्यन्तः सन्तः सुरनदीं अधि निवसामः किम्? उत गुण-उदारान् दारान् सविनयम् परिचरामः , उत विविध-काव्य-अमृत-रसान् शास्त्र-ओघान् पिबामः, न विद्मः किं कुर्मः ।
Shall we live near the river Ganga doing penances? Or, shall we serve in humility virtuous wives? Or, shall we drink the streams of ambrosia-like various literary works which act as streams of scripture? We do not know what we should do.

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजः
वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ वै-७७ ॥
अ:सखे! अमी तुरग-चल-चित्ताः क्षितिभुजः दुराराध्याः, वयं च स्थूल-इच्छाः सुमहति फले बद्ध-मनसः,जरा देहं हरति, मृत्युः दयितम् इदं जीवितं हरति, अन्यत्र जगति तपसः अन्यत् श्रेयः न ।
Dear friend, these kings who are fickle-minded like horses are difficult to serve; but we with a large desire are determined to attain the great goal; old age takes away this dear body, death takes away this life; elsewhere in this world there is nothing beneficial other than penance.
माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः-
पूतग्रावगिरीन्द्रकन्दरनटीकुञ्जे निवासः क्वचित् ॥ वै-७८ ॥
अ: माने म्लायिनि, वसुनि खण्डिते च, अर्थिनि व्यर्थे प्रयाते, बन्धुजने क्षीणे, परिजने गते, शनैः यौवने नष्टे, सुधियां केवलम् एतत् एव, यत् क्वचित् जह्नु-कन्या-पयः-
पूत-ग्राव-गिरीन्द्र-कन्दर-नटी-कुञ्जे निवासः युक्तम् ।
With respect for oneself fading away, wealth gone to pieces, those seeking help having gone away, relatives having thinned out, members of family having gone, youth getting lost slowly, the only thing a wise man could do is to settle down in a bower in a cave of a big mountain  with rocks purified by the waters of river Ganga.
- - - - 


Saturday, November 7, 2015

Bhartruhari's Shatakas-26

भर्तृहरिशतकत्रयी-२६

क्वचित्पृथ्वीशय्यः क्वचिदपि पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ नी-७३ ॥
अ: क्वचित् पृथ्वी-शय्यः, क्वचित् अपि पर्यङ्क-शयनः, क्वचित् शाक-आहारः, क्वचित् अपि शाल्योदन-रुचिः, क्वचित् कन्ता-धारी, क्वचित् अपि दिव्य-अम्बर-धरः, मनस्वी कार्यार्थी दुःखं न गणयति, सुखं न गणयति ।
An intelligent person determined to attain his objective does not care for comforts or discomforts that come his way; he sleeps on the floor sometimes, he sleeps on a couch sometimes; he subsists on just vegetables sometimes, he has meal made of  boiled rice sometimes; he is sometimes dressed in rags, sometimes wears divine clothing.

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ नी-७४ ॥
अ: यदि नीति-निपुणाः निन्दन्तु वा स्तुवन्तु, लक्ष्मीः यथा-इष्टं समाविशतु वा गच्छतु,मरणम् अद्य एव वा युग-अन्तरे अस्तु, धीराः न्याय्यात् पथः पदं न प्रविचलन्ति ।
The brave do not deviate from the path of correct conduct irrespective of whether experts in moral behaviour praise him or criticize him; whether wealth goes away or comes in at its own will; whether death occurs today or aeons later.

कान्ताकटाक्षविशिखा न लुनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः ।
तर्षन्ति भूरिविषयाश्च न लोभपाशा
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ नी-७५ ॥
अ: यस्य चित्तं कान्ता-कटाक्ष-विशिखाः न लुनन्ति, कोप-कृशानु-तापः  चित्तं न निर्दहति,  (यं) लोभ-पाशाः भूरि-विषयाः च न तर्षन्ति सः धीरः इदं कृत्स्नं लोक-त्रयं जयति ।
He indeed is brave whose mind is not severed by the arrows of his beloved’s glances and is not burnt in the fire of anger, and who will not be tempted by the snares of greed or heavy sensual attractions. He will conquer the three worlds.
--
मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किं तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥ शृ-७३ ॥
अ: भुवि मत्त-इभ-कुम्भ-दलने धीराः सन्ति, केचित् प्रचण्ड-मृगराज-वधे अपि दक्षाः, किं तु बलिनां पुरतः प्रसह्य ब्रवीमि, मनुष्याः कन्दर्प-दर्प-दलने विरलाः ।
There are brave people in this world who can strike at the temple of a mad elephant; there are capable people who can kill a lion, king of animals; but, I can tell in front of strong people, people who can strike at the arrogance of cupid are indeed rare.

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ शृ-७४ ॥
अ: यावत् लीलावतीनां एते भ्रू-चाप-आकृष्ट-मुक्ताः श्रवण-पथ-गताः नील-पक्ष्माणः धृति-मुषः दृष्टि-बाणाः हृदि न पतन्ति, तावत् एव नरः सन्मार्गे आस्ते, इन्द्रियाणां (नियमने) तावत् एव प्रभवति, तावत् लज्जां विधत्ते, तावत् एव विनयम् अपि समालम्बते ।
So long as the arrows of glances of coquettish ladies shot by the curved bow-like brows with blue eye lashes (blue feathers) which steal ones courage do not fall on his heart, he treads the right path, he controls the senses, he upholds a sense of shame and he displays modesty.

उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ शृ-७५ ॥
अ: अङ्गनाः उन्मत्त-प्रेम-संरम्भात् यत् आरभन्ते तत्र प्रत्यूहम् आधत्तुं ब्रह्मा अपि कातरः ।
Even Brahma feels diffident to obstruct actions of women who are insanely excited by love.
--
गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ वै-७३ ॥
अ: जीर्णवयसः पुरुषस्य गात्रं सङ्कुचितं (भवति), गतिः विगलिता, दन्त-आवलिः भ्रष्टा, दृष्टिः नश्यति, बधिरता वर्धते, वक्त्रं च लालायते, बान्धवजनः वाक्यं नाद्रियते, भार्या न शुश्रूषते, पुत्रः अपि अमित्रायते, हा कष्टम् ।
An old man’s body shrinks, his steps become loose, his teeth are lost, eye sight weakens, deafness increases, saliva oozes out from the mouth, relatives do not respect him, wife does not serve, even son becomes unfriendly, what a pity!

वर्णं सितं झटिति वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहृत्य यान्ति
चण्डालकूपमिब दूरतरं तरुण्यः ॥ वै-७४ ॥
अ: तरुण्यः शिरोरुहाणां सितं वर्णं वीक्ष्य तदा जरा-परिभवस्य स्थानं पुमांसं झटिति आरोपित-अस्थि-शतकं चण्डाल-कूपम् इव परिहृत्य दूरतरं यान्ति ।
Young women keep away in haste from old men, looking at their white hairs and how old age has defeated those men, just as people keep away from wells filled with hundreds of bones and used by the low caste people.
 
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ वै-७५ ॥

अ: यावत् इदं शरीरम् अरुजं स्वस्थं यावत् जरा दूरतः, यावत् इन्द्रिय-शक्तिः अप्रतिहता, यावत् आयुषः क्षयः न तावत् एव विदुषा आत्म-श्रेयसि महान् प्रयत्नः कार्यः। भवने सन्दीप्ते कूप-खननं प्रति उद्यमः कीदृशः?
While this body is in good health without any illness, while the senses have not lost their sharpness and while longevity is not reduced, much effort has to be put in by a wise man for the good of his soul. What sort of an action is it to start digging a well when the house is on fire?
- - - -