Follow by Email

Saturday, June 29, 2013

Bhaminivilasah-40

                       भामिनीविलासः-४०

अथ भामिनीविलासे तृतीयः करुणाविलासः


Now starts the third section of Bhamnivilasa on Compassion





दैवे पराग्वदनशालिनि हन्त जाते

याते च संप्रति दिवं प्रति बन्धुरत्ने।

कस्मै मनः कथयितासि निजामवस्थाम्

कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १ ॥

अन्वयः : मनः! दैवे पराग्वदनशालिनि जाते, दिवं प्रति बन्धुरत्ने याते, संप्रति कस्मै निजाम् अवस्थां कथयिता असि? तव आधिं कः शीतलैः वचनैः शमयिता?

O mind! When the fate is not favourable and the gem among relatives has left for heaven, now to whom will you tell your real state and who is there to relieve you of your pains with kind words? [Lamentations of a bereaved person.]











प्रत्युद्गता सविनयं सहसा पुरेव

स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।

मामद्य मञ्जुरचनैर्वचनैश्च बाले

हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २ ॥

अन्वयः : बाले! स्मरस्य सचिवैः सरसावलोकैः स्मेरैः सविनयं प्रत्युद्गता (त्वं) पुरा इव अद्य मञ्जुरचनैः वचनैः च लेशतः अपि कथं न शिशिरीकरोषि? हा ।

Young lady! How is it that you who would get up with courtesy suddenly with smiles and charming glances which are the helpers of Cupid now do not cool me with your pleasantly composed words even to a small extent? Alas!





सर्वेऽपि विस्मृतिपथं विषयाः प्रयाताः

विद्यापि खेदकलिता विमुखीबभूव ।

सा केवलं हरिणशावकलोचना मे

नैवापयाति हृदयादधिदेवतेव ॥ ३ ॥

अन्वयः : सर्वे अपि विषयाः विस्मृतिपथं प्रयाताः; खेदकलिता विद्या अपि विमुखीबभूव; सा हरिणसावकलोचना मे हृदयात् अधिदेवता इव न एव अपयाति ।

All sensory objects are forgotten; knowledge possessed with difficulty has turned away (from me); Only that doe-eyed lady does not move away from my mind as if she is my guardian angel.







निर्वाणमङ्गलपदं त्वरया विशन्त्या मुक्ता दयावति दयापि किल त्वयासौ ।

यन्मां न भामिनि निभालयसि प्रभातनीलारविन्दमदभङ्गिमदैः कटाक्षैः ॥ ४ ॥

अन्वयः : दयावति भामिनि! निर्वाणमङ्गलपदं त्वरया विशन्त्या त्वया असौ दया अपि मुक्ता किल, यत् प्रभात-नील-अरविन्द-मद-भङ्गि-मदैः कटाक्षैः मां न निभालयसि ।

Merciful lady! Hastily entering the auspicious state of eternal peace, you have left behind even your kindness as you did not look at me with your glances which are proud of having broken the pride of morning blue lotuses. [Perhaps a lamentation of a lover as his lady-love departs from this world.]





धृत्वा पदस्खलनभीतिवशात् करं मे या रूढवत्यसि शिलाशकलं विवाहे ।

सा मां विहाय कथमद्य विलासिनि द्यामारोहसीति हृदयं शतधा प्रयाति ॥ ५ ॥

अन्वयः : विलासिनि! या विवाहे पदस्खलनभीतिवशात् मे करं धृत्वा शिलाशकलं रूढवती असि सा अद्य कथं मां विहाय द्याम् आरोहसि इति हृदयं शतधा प्रयाति ।

Playful lady! How is it that you, who during marriage stepped on the seat of stone holding my hand fearing a false step, have gone up to heaven leaving me? My heart breaks into hundred pieces.


- - - -

Saturday, June 22, 2013

Bhamni vilasah-39

भामिनीविलासः-३९


निभाल्य भूयो निजगौरिमाणं मा नाम मानं सहसैव यासीः ।
गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥ १७६ ॥
अन्वयः : मुग्धे! निजगौरिमाणं भूयः निभाल्य सहसा एव मानं मा नाम यासीः । तव अङ्गवर्णा सुवर्णावलयः गृहे गृहे लुठन्ति, पश्य ।
Foolish girl! Do not be proud looking at your white complexion often. Look, there are golden colored girls in row who have your complexion moving to and fro in every house.


करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।
कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥ १७७ ॥
अन्वयः : आलि! विशृङ्खलैः कविभिः उरोजयोः करिकुम्भतुलां क्रियमाणां कथं सादरं शृणोषि? योषितः विपरीतार्थविदः हि ।
Dear friend! How are you listening to unbridled poets comparing breasts with the frontal globes on the forehead of elephants? (I now know) Women understand in the reverse manner. [Poet wants to imply that instead of breasts being compared with the frontal globes on the forehead of the elephant, it is the frontal globes which need to be compared with breasts!]



परिष्वजन् रोषवशात् तिरस्कृतः प्रियो मृगाक्ष्या शयितः पराङ्मुखः ।
किं दुःखितोऽसाविति कान्दिशीकया कदाचिदाचुम्ब्य चिराय सस्वजे ॥ १७८ ॥
अन्वयः : कदाचित् परिष्वजन् प्रियः रोषवशात् मृगाक्ष्या तिरस्कृतः पराङ्मुखः शयितः, असौ किं दुःखितः? इति कान्दिशीकया चिराय आचुम्ब्य सस्वजे ।
Once when the lover who was embracing her was rejected by the doe-eyed lady due to anger and he lay down with his face turned away from her, fearing that he may be aggrieved, she kissed him long and embraced him. 



चेलाञ्चलेनाननशीतरश्मिं संवृण्वतीनां हरिदृश्वतीनाम् ।
व्रजाङ्गनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी ॥ १७९ ॥
अन्वयः : चेलाञ्चलेन आननशीतरश्मिं संवृण्वतीनां हरिदृश्वतीनां व्रजाङ्गनानां नीवी स्मरजातकम्पात् अकाण्डसंपातम् इयाय ।
The central knot of the saree of Vraja women fell down unexpectedly caused by the trembling on account of passion as they, covering their moonlike faces with the border of the saree, looked at Krishna. [One can discern subtle humour!]



अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुक्लभावः ।
हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥ १८० ॥
अन्वयः : पक्ष्मलाक्ष्याः रदानां शुक्लभावः अधरेण समागमात् अरुणिम्ना पिहितः अपि, सितेन हसितेन जातपक्षः पुनः उल्लासम् अवाप ।
Although the whiteness of the teeth of the lady with long eye-lashes was covered by the redness because of close contact with the lips, it grew its wings as it were and became lively again because of the white smile.



सरसीरुहोदरसौरभावधारितबिंबाधरे मृगाक्षि तव ।
वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ १८१ ॥
अन्वयः : मृगाक्षि! सरसीरुह-उदर-सौरभ-अवधारित-बिम्ब-अधरे मणिरदने वदने ताम्बूलं केन वयं लक्षयेम?
Doe-eyed lady! How can we recognize the (consumption) of betel leaves in your face which has bimba fruit-like lips which put to shame the fragrance of the lotus stalk and which has gem-like teeth? [The redness of betel-leaf chewing cannot be discerned, because of the natural redness of the lips.]



शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥ १८२ ॥
अन्वयः : अनीश्वरा दयिता (दयितस्य) सविधे अपि शयिता, मनोरथान् सफलीकर्तुं दयिताननाम्बुजं दर-मीलन्-नयना निरीक्षते ।
The lady-love who does not have a husband and lies down near her lover looks at him with half closed eyes in order to fulfill her desires.



वदनारविन्दसौरभलोभादिन्दिन्दिरेषु निपतत्सु ।
मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषा परुषाः ॥ १८३ ॥
अन्वयः : वदन-अरविन्द-सौरभ-लोभात् इन्दिन्दिरेषु निपतत्सु अधरार्थिनि मयि अतिरुषा परुषाः सुदृशः दृशः जयन्ति ।
While bees surround her face attracted by the fragrance of her lotus-like face, my lady love’s fierce angry looks at me who is craving for her lips are pre-eminent.

इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे
शृङ्गारो नाम द्वितीयो विलासः ।
Thus ends the second section called “LOVE”
In Bhamnivilasa composed by Jagannaatha, king among scholars.
- - - -

Saturday, June 15, 2013

Bhamini vialasah-38

भामिनीविलासः-३८
पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन ।
हिमाम्बुसङ्गानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम् ॥ १६९ ॥
अन्वयः : रघुनन्दनेन पाणौ कृतः इलासुतायाः सस्वेदकम्पः पाणिः हिमाम्बु-सङ्ग-अनिल-विह्वलस्य प्रभातपद्मस्य शोभां बभार ।
When Srirama took in his hand the hand of Earth’s daughter Sita, which was trembling with sweat, it attained the luster of a lotus in the morning when disturbed by the breeze laden with cold moisture.



अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले ।
अधरीकरोति नितरां तवाधरौ मधुरिमातिशयात् ॥ १७० ॥
अन्वयः : बाले! तव अधरौ अरुणं विद्रुमद्रुम् अपि मृदुलतरं किसलयम् अपि मधुरिमातिशयात् नितराम् अधरीकरोति ।
Young lady! Your lips outshine the red coral tree and the softer sprouts because of their being very sweet. [Although the lips are like coral and soft like sprouts, they have sweetness which is absent in coral or sprout.]        



सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया ।
अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम् ॥ १७१ ॥
अन्वयः : सुदृशः जितरत्नजालया सुरत-अन्त-श्रम-बिन्दु-मालया हेमकान्तिना अलिकेन च परस्परं का अपि रुचिः विदधे ।
The string of drops of sweat formed due to fatigue after her dalliance which out beat a net of pearls (in beauty) and the golden fore-locks of hair together had an indescribable splendor. 



परपूरुषदृष्टिपातवज्राहतिभीता हृदयं प्रियस्य सीता ।
अविशत् परकामिनीभुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः ॥ १७२ ॥
अन्वयः : पर-पूरुष-दृष्टि-पात-वज्र-आहति-भीता सीता प्रियस्य हृदयं अविशत् । सः अपि परकामिनी-भुजङ्गी-भयतः सत्वरम् एव तस्याः (हृदयं) अविशत् ।
Afraid of being hit by the thunderbolt-like glares of other men, Sita entered the heart of his beloved (Rama); he too entered her heart being afraid of the snake-like other women.



अङ्गानि दत्त्वा हेमाङ्गि प्राणान् क्रीणासि चेन्नृणाम् ।
युक्तमेतन्न तु पुनः कोणम् नयनपद्मयोः ॥ १७३ ॥
अन्वयः : हेमाङ्गि! अङ्गानि दत्त्वा नृणां प्राणान् क्रीणासि चेत्, एतत् युक्तम् । न तु पुनः नयनपद्मयोः कोणं (दत्त्वा) ।
Lady of golden limbs! If you buy men’s hearts by giving your body, it is alright; but (it is not alright) if you steal the hearts of men by just giving a side-glance.



जितरत्नरुचां सदा रदानां सहवासेन परां मुदं ददानाम् ।
विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥ १७४ ॥
अन्वयः : ते साहसशालि मौक्तिकं जित-रत्न-रुचां रदानां सहवासेन सदा मुदं ददानां नासां विरसात् अधुना अधरीकरोति ।
The nose which was dispensing joy (to beholders) by virtue if its constant contact with the teeth whose luster defeats that of gems, is now being overshadowed by your adventurous nose-pearl. [The nose pearl’s luster is detracting the gaze of beholders.]



विलसत्याननं तस्याः नासाग्रस्थितमौक्तिकम् ।
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥ १७५ ॥
अन्वयः : तस्याः नासा-अग्र-स्थित-मौक्तिकम् आननं आलक्षित-बुध-आश्लेषं राकेन्दोः मण्डलम् इव विलसति ।
Her face with the pearl at the tip of her nose looks enchanting like the moon’s orb in conjunction with planet Mercury.
- - - - 

Saturday, June 8, 2013

Bhamni vilasah-37

भामिनीविलासः-३७


अलकाः फणिशावतुल्यशीलाः नयनान्ता परिपुङ्खितेषु लीलाः ।
चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥ १६० ॥
अन्वयः : (यस्याः) अलकाः फणिशावतुल्यशीलाः, नयनान्ताः परिपुङ्खितेषु लीलाः. या स्वयं चपलोपमिता सा लोके सुखसाधनं कथं (भवेत्), बत ।
How can a woman who is compared to lightning and whose forelocks behave like young snakes and whose side glances are like feathered arrows, be an instrument for happiness, alas?



वदने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलाभूत् ।
अधुना हरिणाक्षि हा कथं वा गतिरन्यैव विलोक्यते गुणानाम् ॥ १६१ ॥
अन्वयः : हरिणाक्षि! यत्र तव वदने माधुरी, हृदि कोमला करुणा पूर्णा अभूत्, अधुना कथं गुणानां गतिः कथम् अन्या एव विलोक्यते, हा ?
Doe eyed lady! Where there was sweetness in your face and your heart was full of tender compassion, how is it that now only opposite qualities are now seen? [How is it that such a sweet face now betrays bitterness and you have become hard-hearted?]



अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते ।
निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥ १६२ ॥
अन्वयः : अनिशं नयनाभिरामया रमया संमदिनः ते मुखस्य निशि निःसरद् इन्दिरं पङ्कजं कलया अपि कथं तुलयामः?
How can we compare even to a small extent your face which displays pride all the time with an enchanting luster with the blue lotus which closes in the night?   



अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति ।
विकलयति कुसुमबाणो बाणालीभिः मम प्राणान् ॥ १६३ ॥
अन्वयः : सा सुकुमारतरैः अङ्गैः कुसुमानां श्रियं हरति । (परं तु) कुसुमबाणः बाणालीभिः मम प्राणान् विकलयति ।
That lady steals the luster of flowers by the very delicate limbs she bears. But the cupid, whose weapons are flowers, disturbs my life with a series of arrows. [While the lady is responsible for stealing the luster of flowers, which are cupid’s arrows, the punishment is meted out to a hapless me by the cupid!]



खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण ।
खिद्यामि हन्त परितस्तद्रूपविलोकनेन विकलोऽहम् ॥ १६४ ॥
अन्वयः : कोमलचरणा सा पथि यान्ती नितम्बभारेण खिद्यति । हन्त, परितः तद्रूपविलोकनेन अहं विकलः खिद्यामि ।
That lady of delicate feet struggles due to the weight of her hips. Having observed her beauty all round, I, being deprived, feel distressed.



मथुरागनोन्मुखे मुरारौ असुभारार्तिभृतां व्रजाङ्गनानाम् ।
प्रलयज्वलनायते स्म राका भवनाकाशमजायताम्बुराशिः ॥ १६५ ॥
अन्वयः : मुरारौ मथुरागमनोन्मुखे (सति) असु-भार-अर्ति-भृतां व्रजाङ्गनानां राका प्रलयज्वलनायते स्म, भवन-आकाशम् अम्बु-राशिः अजायत ।
When Krishna was about to start for Mathura, for the damsels of Brindavan, who were heavy in their hearts, moon became the fire of pralaya and the spaces around their houses became (inhospitable) like ocean.




केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः
सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः ।
जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि
श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासञ्जितः ॥ १६६ ॥
अन्वयः : शनकैः इङ्गितैः आलीः अपास्य केलीमन्दिरम् आगतस्य, सरुषः सुप्तायाः सरोरुहदृशः संवीजनं कुर्वतः, मम पाणिः जानन्त्या अपि अनभिज्ञया इव कपटव्यामीलिताक्ष्या सखि! श्रान्ता असि इति अभिधाय वक्षसि आसञ्जितः ।
When I entered the pleasure chambers after making signs to her friends to move away and started fanning the angry lotus-eyed lady who was lying down, she, who had closed her eyes and pretended that she was unaware of my presence although she was aware, placed my hand on her bosom saying, “Maid! you are tired.” [A beautiful piece of poetry! The lady wants her lover to believe that she is placing his hand on her bosom thinking that it is the hand of her maid who was fanning!]



मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाधरबिम्बमासीत् ।
किञ्चाभवन्मृगकिशोरदृशोर्नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन ॥ १६७ ॥
अन्वयः : मृग-किशोर-दृशोः गमनं शैशवेन सह मान्थर्यम् आप; मनसा सह अधरबिम्बं रक्तम् आसीत्; किञ्च अयं नितम्बः मन्मथेन सह  सर्वाधिकः गुरुः अभवत् ।
The doe-eyed maiden’s gait slowed down along with her girlhood, her bimba-fruit-like lower lip attained redness along with her mind (which got inclined in matters of love), her hips became weighty along with her interest in dalliance. [With the use of suggestive words, poet tries to also compare her slowness in gait with that of Saturn (मान्थर्यम्), her redness of lips with that of Mars (रक्तम्) and heaviness of hips with that of Jupiter (गुरुः).]  



श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।
नस्यात् सुभग कथेयं तिष्ठतु तावत् कथान्तरं कथय ॥ १६८ ॥
अन्वयः : नस्यात् श्वासः अनुमानवेद्यः, अङ्गानि शीतानि, दृष्टिः शीतला
कथा इयं तिष्ठतु तावत्, कथान्तरं कथय
 “The breath can be felt only at the nostrils, the limbs are cold, eyes are static”. “Friend, stop this story, tell me something else.” [It is a conversation between friends, where one describes the plight of the other’s beloved. The other one cannot listen to his beloved’s plight and asks to change the subject.]
- - - -

Saturday, June 1, 2013

Bhamini vilasah-36



भामिनीविलासः-३६
मधुरतरं स्मयमानः स्वस्मिन्नेवालपन् शनैः किमपि ।
कोकनदयन् त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः ॥ १५१ ॥
अन्वयः : क्षीबः मधुरतरं स्मयमानः किमपि स्वस्मिन् एव शनैः आलपन् त्रिलोकीं कोकनदयन् आलम्बनशून्यम् ईक्षते ।
Smiling sweetly and muttering something within himself, the drunk looks at the world with a vacant look as if it is a red lotus.



मधुरसान्मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय ।
मम गृहाण करेण कराम्बुजं प प पतामि ह हा भ भ भूतले ॥ १५२ ॥
अन्वयः : तरुणि! मधुरसात् मधुरम् तव अधरं मद्वदने विनिवेशय, मम कराम्बुजं करेण गृहाण, प प पतामि हहा भ भ भूतले ।
Young lady! Place your lips which are sweeter than liquor on my face. Take my lotus-like hand in your hand; I am g g going to f f fall on to the g g ground! [A drunk says to his girl.]




शतेनोपायानां कथमपि गतः सौधशिखरम्
सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने ।
विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनाम्
सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम् ॥ १५३ ॥
अन्वयः : उपायानां शतेन कथमपि सौधशिखरं गतः सुकृती सुधाफेनस्वच्छे पुष्पशयने शयितां राजरमणीं रहसि विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यति अहह !
Breathing heavily after reaching the top of the palace using hundreds of methods, the lucky fellow  wakes up the princess who is sleeping in a bed of flowers as white as the foam of ambrosia and embraces her who is of slender limbs and who is smiling and whose eyes are gleaming with surprise.



गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥ १५४ ॥
अन्वयः : मधुव्रताः सरसीषु परितः मञ्जु गुञ्जन्ति, संमुखं गत्वा धावन्ति, आवर्तन्ते विवर्तन्ते ।
Bees in the ponds hum pleasantly all round, come running in front, go back and return. [The poet seems to suggest the scene of young men strutting before girls.]


यथा यथा तामरसेक्षणा मया पुनः सरागं नितरां निषेविता ।
तथा तथा तत्त्वकथेव सर्वतो विकृत्य मामेकरसं चकार सा ॥ १५५ ॥
अन्वयः : तामरसेक्षणा मया पुनः सरागं नितरां यथा यथा निषेविता तथा तथा तत्त्वकथा इव सा सर्वतो विकृत्य माम् एकरसं चकार ।
The more and more I enjoyed the lotus-eyed lady lovingly and repeatedly, the more and more she changed me, like a philosophical story would, to be attached to a single sentiment. [While a philosophical story is likely to lead him to a shanta rasa, his attachment to her is leading him to srungara rasa solely.]    



हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते ।
सेवितं सर्वसम्पद्भिरपि तद्भवनं वनम् ॥ १५६ ॥
अन्वयः : यत्र हरिणीप्रेक्षणा गृहिणी न विलोक्यते तत् भवनं सर्वसम्पद्भिः सेवितम् अपि वनम् ।
A house where a doe-eyed housewife is not seen is just forest even if endowed with all types of wealth.



लोलालकावलिचलन्नयनारविन्दलीलावशंवदितलोकविलोचनायाः ।
सायाहनि प्रणयिनो भवनं व्रजन्त्याः चेतो न कस्य हरते गतिरङ्गनायाः ॥ १५७ ॥
अन्वयः : लोल-अलक-आवलि-चलत्-नयनारविन्द-लीला-वशंवदित-लोक-विलोचनायाः सायाहनि प्रणयिनः भवनं व्रजन्त्याः अङ्गनायाः गतिः कस्य चेतः न हरते ।
Whose mind is not carried away by the gait of the lady who is on her way to her lover’s house in the evening while her lotus-like eyes, which flit due to the swinging fore locks, render the gaze of the whole world captive?



दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतं वदनमेणविलोचनायाः ।
वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः ॥ १५८ ॥
 अन्वयः : विदुषां वरेण्यः वेधा एणविलोचनायाः दन्तांशुकान्तम् अरविन्द-रमा-अपहारि सान्द्र-अमृतं वदनं पुनरुक्तम् इन्दुबिम्बम् इव विधाय कथं न दूरीकरोति?
How is it that the creator, the foremost among scholars, having created the doe-eyed lady’s face which is glowing with the rays of her teeth, which has stolen the beauty of the lotus and which is dense with ambrosia as a repetition of moon’s form does not reject it?



सानुकम्पाः सानुरागाः चतुराः शीलशीतलाः ।
हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥ १५९ ॥
अन्वयः : कान्तायाः सानुकम्पाः सानुरागाः चतुराः शीलशीतलाः स्वान्तवृत्तयः हृदयं हरन्ति ।
Alas, my beloved’s innate inclinations of compassion love coolness and skill captivate (my) heart.
- - - -