Follow by Email

Saturday, June 27, 2015

Bhartruhari's Shatakas--7

भर्तृहरिशतकत्रयी-७

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ नी-१६ ॥
अ: विद्या नाम नरस्य अधिकं रूपम्, प्रच्छन्नगुप्तं धनम्,विद्या भोगकरी यशः-सुख-करी, विद्या गुरूणां गुरुः, विद्या विदेशगमने बन्धुजनः, विद्या परा देवता,विद्या राजसु पूज्यते, धनं नहि । विद्याविहीनः पशुः।
Education enhances handsomeness; it is a hidden wealth; it enables enjoyments, fame and happiness; it is a preceptor for preceptors; it acts as well-wisher in a foreign country; it is the highest divinity; education and not wealth is respected by kings. A person without education is an animal.

क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदि
व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ नी-१७ ॥
अ: देहिनां क्षान्तिः चेत् कवचेन किं, क्रोधः अस्ति चेत् अरिभिःकिम्, ज्ञातिः चेत् अनलेन किं यदि सुहृत् दिव्यौषधैः किं फलम् , यदि दुर्जनाः किं सर्पैः यदि अनवद्या विद्या किमु धनैः, यदि
व्रीडा चेत् किमु भूषणैः, यदि सुकविता अस्ति राज्येन किम् ?
If one has patience, where is the need for any armour?  If there is a paternal relative where is the need for fire? If there is a friend where is the need for divine medicines? If there are vicious persons where is the need for serpents? If there is faultless scholarship where is the need for money?  If there is humility where is the need for ornaments? If there is good poetry where is the need for a kingdom?

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ नी-१८ ॥
अ: स्वजने दाक्षिण्यं, परिजने दया, दुर्जने सदा शाठ्यं, साधुजने प्रीतिः, नृपजने नयः, विद्वत्-जने आर्जवं च , शत्रुजने शौर्यं, गुरुजने क्षमा, कान्ताजने धृष्टता; एवं च ये पुरुषाः कलासु कुशलाः तेषु एव लोकस्थितिः ।
Being considerate towards kith and kin; being compassionate towards attendants; being deceitful towards scoundrels; being affectionate towards good persons; being courteous towards royals; being straight  forward towards learned persons; being valorous towards enemies; being indulgent towards elders. This world is dependent upon people who display such skills.
--
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ शृ-१६ ॥
अ: सा चन्द्रकान्तेन मुखेन महा-नीलैः शिरोरुहैः, पद्मरागाभ्यां कराभ्यां, रत्न-मयी इव रेजे
With her face as lovely as moon (like moon-stone), her hair deep black (like sapphire), her palms having the colour of lotus (like ruby) she was resplendent as if she was made of precious stones. ( The poet has played on the double meanings of ‘chandrakanta’,’mahanila’ and ‘padmaraga’)

गुरुणा स्तनभारेण मुखचन्द्रेन भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ शृ-१७ ॥
अ: गुरुणा स्तन-भारेण भास्वता मुख-चन्द्रेन शनैः-चराभ्यां पादाभ्यां सा ग्रहमयी इव रेजे ।
With the heavy weight of her breasts, her face luminous like moon and her slow pace she looked resplendent as if she was made of planets. (Again pun on words ‘guru’,’chandra’ and ‘Sanaiscara’ is skilfully employed by the poet.)

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किमाकुलस्त्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ शृ-१८ ॥
अ: (हे) चित्त, तस्याः स्तनौ यदि घनौ, जघनं च हारि, वक्त्रं च चारु तव किम्? त्वं किम् आकुलः? तेषु तव वाञ्छा अस्ति चेत् पुण्यं कुरुष्व, पुण्यैः विना समीहित-अर्थाः न भवन्ति हि |
Dear mind, if her breasts are heavy, her hips are attractive and her face beautiful what is it for you? Why do you feel disturbed? If you desire them do good deeds. Desired objectives do not materialise without previous good deeds.
--
स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरः स्पर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ वै-१६ ॥
अ: स्तनौ मांसग्रन्थी कनककलशौ इति उपमितौ, मुखं श्लेष्म-आगारं तत् अपि च शशाङ्केन तुलितम्, जघनं स्रवन् मूत्र-क्लिन्नं करि-वर-शिरः-स्पर्धि , मुहुः निन्द्यं रूपं कवि-जन-विशेषैः गुरु कृतम् ।
Breasts which are glands of flesh are compared to golden pitchers; Face which is a store house of phlegm is compared to moon; the private part wet with urine is compared to the head of the best of elephants; a form which should be often reprehended is made lofty by the great poets.

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः
शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ वै-१७ ॥
अ: एकः रागिषु प्रिय-तमा-देह-अर्ध-हारी हरः राजते, यस्मात् परः विमुक्त-ललना-सङ्गः जनः नीरागेषु न (अस्ति) । शेषः दुर्वार-स्मर-बाण-पन्नग-विष-व्याविद्ध-मुग्धः जनः काम- विडम्बितान् विषयान् भोक्तुं न क्षमः, मोक्तुं (च) न क्षमः ।
Shiva who has carried half of the body of his beloved shines alone as the foremost among lovers and there is no one who excels him among the passion-free in being detached from the company of women. The rest who are entranced having been affected by the snake-poison of the arrows of irresistible cupid are neither capable of enjoying nor resisting the sensual pleasures accepted on account of cupid.    

अजानन् दाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितम् ।
विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्
न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ वै-१८ ॥
अ: शलभः दाह-आत्म्यम् अजानन् तीव्र-दहने पततु, सः मीनः अपि अज्ञानात् बडिश-युतं पिशितम् अश्नातु, इह एते वयम् कामान् विपत्-जाल-जटिलान् विजानन्तः अपि न मुञ्चामः, मोह-महिमा गहनः अहह ।

 Let the moth fall into the fierce fire not knowing that it burns; let the fish eat the meat not knowing that it is baited; but we, even though fully knowing that desires are entangled in a network of hazards do not forsake them; deep indeed is the power of delusion!
- - - -  

Saturday, June 20, 2015

Bhartruhari's Shatakas-6

भर्तृहरिशतकत्रयी-६

अधिगतपरमार्थान् पण्डितान् मावमंस्थाः
तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि ।
अभिनवमदरेखाश्यामगण्डस्थलानां
न भवति बिसतन्तुर्वारणं वारणानाम् ॥ नी-१३ ॥
अ: अधिगत-परम-अर्थान् पण्डितान् मा अवमंस्थाः । लक्ष्मीः तान् लघु तृणम् इव न संरुणद्धि । बिस-तन्तुः अभिनव-मद-रेखा-श्याम-गण्डस्थलानां वारणानां वारणं न भवति ।
 Do not denigrate scholars who have knowledge of the ultimate wisdom; Goddess of wealth, like a blade of grass does not stop them. A filament of lotus stalk does not act as a restraint to an elephant whose temples have become dark due to the fresh flow of rut.[ This is apparently addressed to a king]

अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ नी-१४ ॥
अ: विधाता नितरां कुपितः हंसस्य अम्भोजिनी-वन-विहार-विलासम् एव हन्ति । असौ अस्य दुग्ध-जल-भेद-विधौ प्रसिद्धां वैदग्ध्य-कीर्तिम् अपहर्तुम् न तु समर्थः ।
The angry creator may deprive the swan of its playful gait in a lake of lotuses (by drying up the lake). But he is not capable of depriving it of its famed skill in separating milk and water. [ Swans are traditionally thought to have the ability to separate milk from water.]

केर्यूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषणम् ॥ नी-१५ ॥
अ: केयूराणि पुरुषं न भूषयन्ति, चन्द्र-उज्ज्वलाः हाराः न, अलङ्कृता मूर्धजाः न, स्नानं न, विलेपनं न, कुसुमं न(भूषयति) । एका वाणी या संस्कृता धार्यते पुरुषं सम्-अल्ङ्करोति; अखिल-भूषणानि क्षीयन्ते; वाक्-भूषणं सततं भूषणम् ।
 Bracelets worn on the upper arm do not decorate a person, nor garlands which are as brilliant as moon, nor well groomed hair ; Bath, smearing of perfumes, or wearing of flower does not decorate either; speech delivered in a refined manner decorates a person; all ornaments decay; ornament of speech is the only eternal ornament.
-      -
मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ शृ-१३ ॥
अ: मुग्धे! त्वयि (या) अपूर्वा धानुष्कता दृश्यते (सा) इयं का, यया चेतांसि गुणैरेव विध्यसि, न सायकैः?
Dear young lady, what a skill you have in archery never seen earlier in that you could pierce minds (of men) with (your) qualities (strings) only and not with arrows.[ The poet plays on word ‘guna’ which means quality and also string. While a normal archer shoots arrows to hit a target, you use ‘guna’ to hit your target, namely minds of men. ]

सति प्रदीपे सत्यग्नौ सत्सु तारामणीन्दुषु ।
विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ शृ-१४ ॥
अ: प्रदीपे सति, अग्नौ सति, तारा-मणि-इन्दुषु सत्सु मे मृगशावाक्ष्या विना इदं जगत् तमोभूतम् ।
This world is all darkness without my doe-eyed lady no matter whether there is a light, a fire, stars, gems and the moon.

उद्वृत्तस्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापमधिकं रोमावलिः केन वा ॥ शृ-१५ ॥
अ: एषः उद्-वृत्त- स्तन-भारः, तरले नेत्रे, चले भ्रू-लते, इदं राग-अधिष्ठितम् ओष्ठ-पल्लवम् व्यथां कुर्वन्तु नाम; स्वयं पुष्प-आयुधेन सौभाग्य-अक्षर-मालिका इव लिखिता रोम-आवलिः मध्य-स्था अपि केन (कारणेन) अधिकं तापं करोति?
Let  this weight of upturned breasts, wavering eyes, unsteady creeper-like eye-brows, this reddened sprout-like lip, trouble us; Why does this line of hair in the middle (indifferent), which looks as if it has been scripted by cupid as the alphabet string of loveliness,  create affliction (in us)? [The poet plays on the word ‘madhyastha’ which can mean ‘situated in the middle’ or ‘indifferent’. He thus brings out an apparent contradiction in that something which is indifferent causes us pain. Such description may appear risqué for modern sensibilities, but is not uncommon in Sanskrit literature.]
-      -
ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।
संप्राप्तान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान्
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ वै-१३ ॥
अ: ब्रह्म-ज्ञान-विवेक-निर्मल-धियः अहो दुष्करं कुर्वन्ति यत् उपभोग-भाञ्जि अपि धनानि निःस्पृहाः एकान्ततः मुञ्चन्ति  । परं वयं पुरा न संप्राप्तान् , संप्रति न (प्राप्यमानान्), प्राप्तौ न दृढ-प्रत्ययान् वाञ्छा-मात्र-परिग्रहान् अपि त्यक्तुं न शक्ताः ।
 It is surprising how those who have a clear mind of discrimination arising out of the knowledge of Brahman become totally free from desire and give up wealth that provides them things of pleasure; we on the other hand are unable to give up craving for things which we never had in the past, are not having now and have no firm hopes of having in future.

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम्
आनन्दाश्रुकणान् पिबन्ति शकुना निःशङ्कमङ्केशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट-
क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ वै-१४ ॥
अ: शकुनाः गिरि-कन्दरेषु वसतां परं ज्योतिः ध्यायतां धन्यानाम् आनन्द-अश्रु-कणान् अङ्के-शयाः निःशङ्कं पिबन्ति । मनोरथ-उपरचित-प्रासाद-वापी-तट-क्रीडा-कानन-केलि-कौतुक-जुषाम् अस्माकं आयुः तु परं क्षीयते ।
While the blessed living in mountain caves meditate on the Divine Light and shed tears of joy, birds drink them without any fear lying on their laps; our span of life, on the other hand, decreases  while we imagine in our minds palaces, water pools, pleasure gardens, games and gaiety.

भिक्षाशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं विशीर्णशतखण्डमयी च कन्था
हा हा तथापि विषया न परित्यजन्ति ॥ वै-१५ ॥
अ: भिक्षा-अशनम्, तत् अपि नीरसम् एकवारं (च), भूः शय्या च, निज-देह-मात्रं परिजनः, वस्त्रं विशीर्ण-शत-खण्ड-मयी कन्था; तथा अपि विषया न परित्यजन्ति हा हा ॥

Food is by begging and it is tasteless and that too only once a day, sleeping is on bare earth, the only kin is one’s own body and the clothing is a rag of hundreds of patches; even then sensual craving does not go away! Alas!
- - - - 

Saturday, June 13, 2015

Bhartruhari's Satakas-5

भर्तृहरिशतकत्रयी-५

शक्यो वारयितुं जलेन हुतभुक्शूर्पेण सूर्यातपः
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गौर्गर्दभः ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रैः प्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ नी-१० ॥
अ: हुतभुक् जलेन, सूर्य-आतपः शूर्पेण नागेन्द्रः निशित-अङ्कुशेन , स-मदः गौः गर्दभः (वा) दण्डेन, व्याधिः भेषज-संग्रहेण वारयितुं शक्यः, विषं विविधैः मन्त्रैः प्रयोगैः (च वारयितुं शक्यम्) । सर्वस्य शास्त्र-विहितं औषधम् अस्ति, मूर्खस्य (तु) औषधम् न अस्ति ।
Fire can be controlled by (using) water, sun’s heat by a winnowing basket, a big elephant by a sharp hook, a berserk bull or donkey by a stick, disease by a set of medicines and poison by use of various incantations. For everything there is a medicine prescribed by scriptures, but there is no medicine for a fool.

अथ विद्वत्पद्धतिः ( Scholarship)

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य सुधियस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षकैर्न मणयो यैरर्घतः पातिताः ॥ नी-११ ॥
अ: यस्य प्रभोः विषये शास्त्र-उपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेय-आगमाः विख्याताः कवयः निर्धनाः वसन्ति, (तस्य) वसुधाधिपस्य तत् जाड्यम् । सुधियः तु अर्थं विना  अपि ईश्वराः । यैः कु-परीक्षकैः अर्घतः पातिताः, (ते कुत्साः स्युः) मणयः न कुत्स्याः स्युः ।
It is the stupidity of a king if famous poets whose elegant sayings are supported by relevant treatises and whose knowledge of scriptures is meant for their disciples live in penury in his kingdom. Scholars are masters even if they have no money. If gems are under-valued it is the fault of the bad gem-examiners and not of gems.

हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा-
प्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्
येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ नी-१२ ॥
अ: (हे) नृपाः, यत् हर्तुः न गोचरं याति, सर्वदा शं पुष्णाति, अर्थिभ्यः प्रतिपाद्यमानम् अपि अनिशं परां वृद्धिं प्राप्नोति, कल्प-अन्तेषु अपि निधनं न प्राप्नोति, येषां विद्या-आख्यम् अन्तर्-धनं (अस्ति) तान् प्रति मानम् उज्झत । तैः सह कः स्पर्धते?
O kings! Do not exhibit haughtiness in front of those (scholars) who have internal wealth called knowledge which cannot be taken away as it cannot be seen, which always bestows wellbeing, which keeps on increasing even when it is transferred to those who seek it and which does not cease to exist even at the end of aeons. Who can compete with them?
   
नूनं हि ते कविवरा विपरीतवाचो
ये नित्यमाहुरबला इति कामिनीस्ताः ।
याभिर्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ शृ-१० ॥
अ: ये कामिनीः अबलाः इति नित्यम् आहुः, ते कवि-वराः विपरीत-वाचः हि नूनं । याभिः विलोलतर-तारक-दृष्टि-पातैः शक्र-आदयः अपि विजिताः ताः अबलाः कथम्? 
Those great  poets who constantly tell that women are powerless indeed say perverse things. How can those who conquered even Indra  through their unsteady glances be called “powerless” [abalaa]?

नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ शृ-११ ॥
अ: मकर-ध्वजः तस्याः सुभ्रुवः आज्ञा-करः नूनं यतः (सः) तत्-नेत्र-सञ्चार-सूचितेषु प्रवर्तते ।
Cupid is indeed a faithful servant of women with beautiful eye-brows, because he proceeds to act based on the signals given through their rolling of eyes.

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमौ
इत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥ शृ-१२ ॥
 अ: (हे) तन्वि, केशाः संयमिनः, लोचने श्रुतेः अपि पारं गते, अन्तर्-वक्त्रम् अपि स्वभाव-शुचिभिः द्विजानां गणैः कीर्णम्, इमौ वक्षोज-कुम्भौ मुक्तानां सतत-अधिवास-रुचिरौ, इत्थं ते वपुः प्रशान्तम् अपि नः रागं करोति एव ।  
Hair on the head is tied up (self-controlled); the eyes extend beyond the ears( have mastered the Vedas); the inside of the mouth is filled with naturally clean teeth ( full of Brahmins who are virtuous by nature); these two pitcher-like breasts look appealing with the continued presence of pearls ( liberated souls); thus although your body displays serenity, it disturbs us.[ The poet skilfully plays on double meaning words संयमिनः, श्रुतेः, द्विजानाम्, मुक्तानाम् and brings out an apparent contradiction.]

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ वै-१० ॥
अ: आशा नाम नदी मनोरथ-जला, तृष्णा-तरङ्ग-आकुला, राग-ग्राहवती, वितर्क-विहगा, धैर्य-द्रुम-ध्वंसिनी, मोह-आवर्त-सुदुस्तरा, अति-गहना प्रोत्तुङ्ग-चिन्ता-तटी , तस्याः पार-गताः विशुद्ध-मनसः योगि-ईश्वराः नन्दन्ति ।
Desire is a river which has intentions as water, waves called greed, is infested with crocodiles called lust and birds called doubt, which destroys trees called courage, which is difficult to cross because of whirl pools called delusion, which has steep and high banks called worry. Yogis with pure mind are happy having crossed that river.

अथ विषयपरित्यागविडम्बना ( A critique on discarding sensory pleasures)
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ वै-११ ॥
अ: संसार-उत्पन्नं चरितं कुशलं न अनुपश्यामि । पुण्यानां विपाकः विमृशतः मे भयं जनयति । महद्भिः पुण्य-ओघैः चिर-परिगृहीताः विषयाः च विषयिणां व्यसनं दातुम् इव महान्तः जायन्ते ।
I do not see anything good in worldly life. When analyzed, the result of past good deeds frightens me. The sensory pleasures which have been earned for long by a flood of great good deeds in the past will only grow as if to cause sorrow to those clinging to them.

अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ वै-१२ ॥
अ: विषयाः चिरतरम् उषित्वा अपि यातारः । वियोगे भेदः कः? जनः स्वयम् अमून् न त्यजति (इति) यत्, स्वातन्त्र्यात् व्रजन्तः  (विषयाः) मनसः अतुल-परितापाय (भवन्ति) ।
एते स्वयं त्यक्ता अनन्तं शम-सुखं विदधति हि ।

Sensory pleasures will depart even after staying for long. What is the difference in parting? If man does not discard them himself, they cause immense pain. If they are voluntarily discarded they provide endless joy and peace.
- - - - 

Saturday, June 6, 2015

Bhartruhari's Satakas-4

भर्तृहरिशतकत्रयी-४

यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवमदलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ नी-७ ॥
अ: यदा अहं किञ्चित्-ज्ञः गजः इव मद-अन्धः समभवम् । तदा सर्वज्ञः अस्मि इति मम मनः अवलिप्तम् अभवत् । यदा बुध-जन-सकाशात्  किञ्चित् किञ्चित् अवगतं तदा मूर्खः अस्मि इति मे मदः ज्वरः इव व्यपगतः ।  
When I knew a little I became blind with intoxication like an excited elephant; then my mind was arrogant on the conviction that I knew everything. When I learnt little by little from scholars, then my intoxication was gone like fever on my knowing that I am stupid. 

कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन् खरास्थि निरामिषम् ।
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ नी-८ ॥
अ: श्वा कृमि-कुल-चितं लाला-क्लिन्नं विगन्धि जुगुप्सितं निरामिषं खर-अस्थि निरुपम-रस-प्रीत्या खादन् पार्श्वस्थं सुरपतिम् अपि विलोक्य न शङ्कते । क्षुद्रः जन्तुः परिग्रह-फल्गुतां न गणयति हि ।
When a dog is eating with relish as if it is of incomparable taste a donkeys’ bone which is malodorous, disgusting, devoid of flesh, covered with worms and wet with its own saliva, it is not worried about even Indra standing by its side. A lowly being does not mind the worthlessness of its possession.

शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ।
अथो गङ्गा सेयं पदमुपगता स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ नी-९ ॥
अ: (या) गङ्गा स्वर्गात् शार्वं शिरः, पशुपतिशिरस्तः क्षितिधरं, उत्तुङ्गात् महीध्रात् अवनिम्, अवनेः च जलधिम् अपि उपगता सा इयं स्तोकं पदम् उपगता । अथवा विवेक-भ्रष्टानां विनिपातः शतमुखः भवति । 
River Ganga fell down on the head of Shiva from heaven, on to the mountain (Himalaya) from Shiva’s head, on to the earth from the lofty mountain and to the ocean from the earth and attained an insignificant state. Perhaps the fall of those who have lost their capacity to discriminate happens in hundreds of ways.

 
द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु किं तद्वचः ।
किं स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुः
ध्येयं किं नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमः ॥ शृ-७ ॥
अ: सहृदयैः द्रष्टव्येषु उत्तमं किम्? मृग-दृशः प्रेम-प्रसन्नं मुखम् । घ्रातव्येषु  अपि (उत्तमं) किम्? तत्-आस्य-पवनः । श्राव्येषु (उत्तमं) किम्? तत्-वचः । स्वाद्येषु (उत्तमं) किम्? तत्-ओष्ठ-पल्लव-रसः । स्पृश्येषु (उत्तमं) किम् ? तत्-वपुः । सहृदयैः ध्येयं किम्? नव-यौवनम् । सर्वत्र तत्-विभ्रमः ।
Among those a man of taste can look at, which is the best? The face of a doe-eyed lady pleasant with love; among those he can smell, which is the best? her facial breath; among those he can hear? her words; among those he can taste? the juice of her sprout- like lips; among those he can touch? her body. What is it that a man of taste should contemplate on? fresh youth. Its illusion is everywhere.

एताश्चलद्वलयसंहतिमेखलोत्थ-
झङ्कारनूपुरपराजितराजहंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ शृ-८ ॥

अ: एताः चलत्-वलय-संहति-मेखल-उत्थ-झङ्कार-नूपुर-पराजित-राजहंस्यः तरुण्यः वित्रस्त-मुग्ध-हरिणी-सदृशैः कटाक्षैः कस्य मनः विवशं न कुर्वन्ति?
Whose mind do these young ladies who excel royal swans by their jingling set of bangles, girdle and the anklets not capture with their glances similar to those of frightened innocent deer?

कुङ्कुमपङ्ककलङ्कितदेहा
गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पदपद्मा
कं न वशीकुरुते भुवि रामा ॥ शृ-९ ॥
अ: कुङ्कुम-पङ्क-कलङ्कित-देहा गौर-पयोधर-कम्पित-हारा नूपुर-हंस-रणत्-पद-पद्मा  रामा भुवि कं न वशीकुरुते ।
Who on earth will not be captivated by a damsel who has her body smeared in kunkum,  her garland swaying due to the fair breasts and her lotus- like feet jingling due to the swan-like anklets?


भोगा न भुक्ताः वयमेव भुक्ताः तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव याताः तृष्णा न जीर्णा वयमेव जीर्णाः ॥ वै-७ ॥
अ: भोगाः न भुक्ताः, वयम् एव भुक्ताः; तपः न तप्तम्, वयम् एव तप्ताः,  कालः न यातः, वयम् एव याताः; तृष्णा न जीर्णा, वयम् एव जीर्णाः ।
We did not enjoy pleasures, we only were eaten up; we did not do penances, only we were distressed; time did not pass on, only we passed on; greed did not wear out, only we decayed. [ Contextual different shades of meaning of words भुक्त, तप्त, यात, जीर्ण have been beautifully played upon.]

वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ वै-८ ॥
अ: मुखं वलीभिः आक्रान्तम्, शिरः पलितेन अङ्कितम्, गात्राणि शिथिलायन्ते, तृष्णा एका तरुणायते ।
The face is over run by wrinkles, head is marked by grey hair, limbs have become loose, only greed is getting younger.

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः
समानाः स्वर्याताः  सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ॥ वै-९ ॥
अ:  भोग-इच्छा निवृत्ता; पुरुष-बहुमानः अपि गलितः; जीवित-समाः समानाः सुहृदः स्वर् याताः; शनैः यष्टि-उत्थानं, नयने घन-तिमिर-रुद्धे च; तत् अपि मूढः कायः मरण-अपाय-चकितः (इति) अहो ।

The desire to enjoy bodily pleasures is gone, self-respect has also waned, friends  who were dear as one’s own life have gone to heaven; getting up slowly is with the help of a stick; eyesight  is affected by advanced cataract; in spite of all this the stupid body is afraid of death.
- - - -