Follow by Email

Saturday, June 1, 2013

Bhamini vilasah-36



भामिनीविलासः-३६
मधुरतरं स्मयमानः स्वस्मिन्नेवालपन् शनैः किमपि ।
कोकनदयन् त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः ॥ १५१ ॥
अन्वयः : क्षीबः मधुरतरं स्मयमानः किमपि स्वस्मिन् एव शनैः आलपन् त्रिलोकीं कोकनदयन् आलम्बनशून्यम् ईक्षते ।
Smiling sweetly and muttering something within himself, the drunk looks at the world with a vacant look as if it is a red lotus.



मधुरसान्मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय ।
मम गृहाण करेण कराम्बुजं प प पतामि ह हा भ भ भूतले ॥ १५२ ॥
अन्वयः : तरुणि! मधुरसात् मधुरम् तव अधरं मद्वदने विनिवेशय, मम कराम्बुजं करेण गृहाण, प प पतामि हहा भ भ भूतले ।
Young lady! Place your lips which are sweeter than liquor on my face. Take my lotus-like hand in your hand; I am g g going to f f fall on to the g g ground! [A drunk says to his girl.]




शतेनोपायानां कथमपि गतः सौधशिखरम्
सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने ।
विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनाम्
सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम् ॥ १५३ ॥
अन्वयः : उपायानां शतेन कथमपि सौधशिखरं गतः सुकृती सुधाफेनस्वच्छे पुष्पशयने शयितां राजरमणीं रहसि विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यति अहह !
Breathing heavily after reaching the top of the palace using hundreds of methods, the lucky fellow  wakes up the princess who is sleeping in a bed of flowers as white as the foam of ambrosia and embraces her who is of slender limbs and who is smiling and whose eyes are gleaming with surprise.



गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥ १५४ ॥
अन्वयः : मधुव्रताः सरसीषु परितः मञ्जु गुञ्जन्ति, संमुखं गत्वा धावन्ति, आवर्तन्ते विवर्तन्ते ।
Bees in the ponds hum pleasantly all round, come running in front, go back and return. [The poet seems to suggest the scene of young men strutting before girls.]


यथा यथा तामरसेक्षणा मया पुनः सरागं नितरां निषेविता ।
तथा तथा तत्त्वकथेव सर्वतो विकृत्य मामेकरसं चकार सा ॥ १५५ ॥
अन्वयः : तामरसेक्षणा मया पुनः सरागं नितरां यथा यथा निषेविता तथा तथा तत्त्वकथा इव सा सर्वतो विकृत्य माम् एकरसं चकार ।
The more and more I enjoyed the lotus-eyed lady lovingly and repeatedly, the more and more she changed me, like a philosophical story would, to be attached to a single sentiment. [While a philosophical story is likely to lead him to a shanta rasa, his attachment to her is leading him to srungara rasa solely.]    



हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते ।
सेवितं सर्वसम्पद्भिरपि तद्भवनं वनम् ॥ १५६ ॥
अन्वयः : यत्र हरिणीप्रेक्षणा गृहिणी न विलोक्यते तत् भवनं सर्वसम्पद्भिः सेवितम् अपि वनम् ।
A house where a doe-eyed housewife is not seen is just forest even if endowed with all types of wealth.



लोलालकावलिचलन्नयनारविन्दलीलावशंवदितलोकविलोचनायाः ।
सायाहनि प्रणयिनो भवनं व्रजन्त्याः चेतो न कस्य हरते गतिरङ्गनायाः ॥ १५७ ॥
अन्वयः : लोल-अलक-आवलि-चलत्-नयनारविन्द-लीला-वशंवदित-लोक-विलोचनायाः सायाहनि प्रणयिनः भवनं व्रजन्त्याः अङ्गनायाः गतिः कस्य चेतः न हरते ।
Whose mind is not carried away by the gait of the lady who is on her way to her lover’s house in the evening while her lotus-like eyes, which flit due to the swinging fore locks, render the gaze of the whole world captive?



दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतं वदनमेणविलोचनायाः ।
वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः ॥ १५८ ॥
 अन्वयः : विदुषां वरेण्यः वेधा एणविलोचनायाः दन्तांशुकान्तम् अरविन्द-रमा-अपहारि सान्द्र-अमृतं वदनं पुनरुक्तम् इन्दुबिम्बम् इव विधाय कथं न दूरीकरोति?
How is it that the creator, the foremost among scholars, having created the doe-eyed lady’s face which is glowing with the rays of her teeth, which has stolen the beauty of the lotus and which is dense with ambrosia as a repetition of moon’s form does not reject it?



सानुकम्पाः सानुरागाः चतुराः शीलशीतलाः ।
हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥ १५९ ॥
अन्वयः : कान्तायाः सानुकम्पाः सानुरागाः चतुराः शीलशीतलाः स्वान्तवृत्तयः हृदयं हरन्ति ।
Alas, my beloved’s innate inclinations of compassion love coolness and skill captivate (my) heart.
- - - - 

No comments:

Post a Comment