Follow by Email

Saturday, August 24, 2013

Bhaminivilasah-48

भामिनीविलासः-४८
भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलः
नाशो हन्त सतामसत्पथजुषामायुः समानां शतम् ।
दुर्नीतं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि सन्
किं कुर्वे जगदीश यत्पुनरहं दीनो भवानी पतिः ॥ ३७ ॥
अन्वयः : जगदीश! नीचगृहेषु भूतिः, विप्रसदने दारिद्र्यकोलाहलः, सतां नाशः, असत्पथजुषाम् आयुः समानां शतम्; तव दुर्नीतं वीक्ष्य कोषदहनज्वालाजटालः अपि सन् किम् अहं कुर्वे? यत् पुनः भवानीपतिः दीनः, हन्त ।
Lord of the world! There is wealth among lowly born people, poverty pervades the houses of Brahmins, the good people are getting destroyed and those that tread the path of evil live for one hundred years. Looking at your injustice my anger is such that its flames are swirling around me. Even then, what shall I do? Because, after all even Shiva is poor. [That Shiva is poor shows the height of injustice. What can I, a poor poet, do?]

आमूलाद्रत्नसानोः मलयवलयितादा च कूलात् पयोधेः
यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजाम्
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ३८ ॥
अन्वयः : मलयवलयितात् रत्नसानोः आमूलात्, आ पयोधेः कूलात् च यावन्तः काव्य-प्रणयन-पटवः सन्ति ते विशङ्कं वदन्तु । मृद्वीका-मध्य-निर्यत्-मसृण-रस-झरी-माधुरी-भाग्य-भाजां वाचाम् आचार्यतायाः पदम् अनुभवितुं मदन्यः कः धन्यः अस्ति?
All those poets competent to compose poetry who live right from the origin of Ratnagiri ranges enveloped by Malaya mountains up to the shores of the ocean speak fearlessly. Who else is the blessed person other than me who can enjoy the position of being the preceptor of composition which exudes the sweetness of the stream of juice dripping from a bunch of grapes? [ While concluding this work the poet displays in a few verses his justified pride in his unquestioned ability to create juicy poetry.]


गिरां देवी वीणागुणरणनहीनादरकरा
यदीयानां वाचाममृतमयमाचामति रसम् ।
वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेः
अधुन्वन् मूर्धानं नृपशुरथवायं पशुपतिः ॥ ३९ ॥
अन्वयः : गिरां देवी यदीयानां वाचाम् अमृतमयं रसं वीणा-गुण-रणन-हीन-आदर-करा आचामति, तस्य पण्डितपतेः श्रवणसुभगं वचः आकर्ण्य मूर्धानम् अधुन्वन् अयं नृपशुः अथवा पशुपतिः ।
He is either an animal in the garb of a human or Shiva himself who does not shake his head (in appreciation) after listening to the mellifluous words of Pandita Jagannatha, whose words the Goddess of learning herself enjoys while her hand stops to pluck the string of the Veena. [ Perhaps Shiva as an ascetic has no taste for music!]

मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा
कदाचित् केषांचिन्न खलु विदधीरन्नपि मुदम् ।
ध्रुवं ते जीवन्तो ऽप्यहह मृतका मन्दमतयो
न येषामानन्दं जनयति जगन्नाथभणितिः ॥ ४० ॥
अन्वयः : मधु, द्राक्षा, साक्षात् अमृतम् अथ वामा-अधर-सुधा केषाञ्चित् कदाचित् मुदं न विदधीरन् अपि, येषाम् आनन्दं जगन्नाथभणितिः न जनयति ते मन्दमतयः जीवन्तः अपि मृतका खलु, अहह ।
Sometimes for some persons honey, grapes and even ambrosia or the ambrosia of a lady’s lips may not bring joy. But those dull-headed persons are as good as dead for whom Jagannatha’s words do not bring joy.

निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रवन्-
मृद्वीकामधुमाधुरीमदपरीहारोद्घुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशाम्
नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः ॥ ४१ ॥
अन्वयः : सखे! यदि अत्यन्त-पाक-द्रवत्-मृद्वीका-मधु-माधुरी-मद-परीहार-उद्घुराणां गिरां निर्माणे नितरां मार्मिकः असि, तर्हि सुखेन मादृशां सम्मुखे कथय, नो चेत् आत्मना कृतं दुष्कृतम् इव स्वान्तात् बहिः मा कृथाः ।
Dear friend! If you are very competent in composing works which have the strength to repel the intoxicating sweetness of ripe grape juice then recite them with ease in presence of persons like me or else, as if you had committed a bad deed, do not expose yourself.   


मद्वाणि मा कुरु विषादमनादरेण
मात्सर्यमग्नमनसां सहसा खलानाम् ।
काव्यारविन्दमकरन्दमधुव्रतानाम्
आस्येषु धास्यतितमां कियतो विलासान् ॥ ४२ ॥
अन्वयः : मद्वाणि! मात्सर्य-मग्न-मनसां खलानाम् अनादरेण सहसा विषादं मा कुरु ।(भवती) काव्य-अरविन्द-मकरन्द-मधुव्रतानाम् आस्येषु कियतः विलासान् धास्यतितमाम् ।
O my speech! Do not grieve suddenly at the disinterestedness of bad persons whose mind is immersed in jealousy. You will provide for  many types of appreciation from the mouths of those who act as bees to enjoy the nectar of lotus of literature. 
- - - - 

No comments:

Post a Comment