Follow by Email

Saturday, August 3, 2013


वज्रं पापमहीभृतां भवगतोद्रेकस्य सिद्धौषधम्
मिथ्याज्ञाननिशाविशालतमसः तिग्मांशुबिम्बोदयः ।
क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी
द्वारं निर्वृतिसद्मनः विजयते कृष्णेति वर्णद्वयम् ॥ १५ ॥
अन्वयः : पापमहीभृतां वज्रम्, भव-गत-उद्रेकस्य सिद्धौषधम्, मिथ्या-ज्ञान-निशा-विशाल-तमसः तिग्मांशु-बिम्ब-उदयः, क्रूर-क्लेश-महीरुहाम् उरुतर-ज्वाला-जटालः शिखी, निर्वृति-सद्मनः-द्वारं कृष्ण इति वर्णद्वयं विजयते ।
The two-syllable word “Krishna” which acts as a thunderbolt to the mountains called sin, which acts as a proven medicine to the illnesses due to worldly life, which acts as the rise of sun’s orb in (vanquishing) the vast darkness of the night of false knowledge, which acts as a forest-fire swirling intense flames to the trees called cruel distresses (of worldly life) and which acts as a gateway to the abode of peace keeps flourishing.

रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्
वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्नकार्यस्त्वया ।
सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितैः
एष त्वां तव वल्लभान्श्च विषयानाशु क्षयं नेष्यति ॥ १६ ॥
अन्वयः : रे चेतः! ते इदं हितं कथयामि । वृन्दावने गवां वृन्दं चारयन् कः अपि नवाम्बुदनिभः त्वया बन्धुः न कार्यः । सौन्दर्यामृतम् अभितः उद्गिरद्भिः मन्दस्मितैः त्वां संमोह्य तव वल्लभान् विषयान् च आशु क्षयं नेष्यति ।
O Mind! I am telling you what is in your interests. Do not develop kinship with that indescribable person (Krishna) having a hue of new clouds who grazes a herd of cows in Vrindavan. By mesmerizing you with his smiles which spill all round the ambrosia of charm he will quickly destroy your worldly pleasures, dear to you. [ Apparently the poet suggests the opposite using irony.]

अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना
कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् ।
तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीम्
कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ॥ १७ ॥
अन्वयः : रसने! या अन्तः निमग्ना अव्याख्येयां परां प्रीतिं वितरति, कण्ठे लग्ना अनतर-ध्वान्त-जालं नितरां हरति, द्राक्षाद्यैः अपि बहुमतां माधुरीम् उद्गिरन्तीं कृष्ण इति आख्यां त्वं रसज्ञा यदि कथय ।
O Tongue! If you are a connoisseur recite the name “Krishna”, which when delved in gives indescribable joy, which when memorized totally removes the web of internal darkness and which exudes sweetness far superior to that of grapes and other fruits.

सन्त्येवास्मिन् जगति बहवो पक्षिणो रम्यरूपाः
तेषां मध्ये मम तु महती वासना चातकेषु ।
यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः
चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ १८ ॥
अन्वयः : अस्मिन् जगति रम्यरूपाः पक्षिणः बहवः सन्ति एव । तेषां मध्ये मम तु चातकेषु वासना महती यैः अध्यक्षैः निजसखं नीरदं स्मारयद्भिः किमपि कृष्णाभिधानं ब्रह्म चित्तारूढं भवति ।
In this world there are certainly many beautiful birds. But among them I like most cataka birds, which when present remind their bosom-friend “Cloud” bringing to mind that indescribable Brahman, called Krishna.[ Cataka birds bring to mind clouds which bring to mind the cloud-coloured Krishna.]         

विष्वद्रीच्या भुवनमखिलं भासते यस्य भासा
सर्वासामप्यहमिति विदां गूढमालम्बनं यः ।
तं पृच्छन्ति स्वहृदयमनावेदिनो विष्णुमन्यान्
अन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १९ ॥
अन्वयः : यस्य विष्वद्रीच्या भासा अखिलं भुवनं भासते, यः  अहम् इति विदां सर्वासां गूढम् आलम्बनम्, तं विष्णुं स्व-हृदयम् अनावेदिनः अन्यान् पृच्छन्ति, नृणाम् अयम् अन्यायः केन वर्णनीयः? शिव,शिव ।
Who can describe this unjust state of affairs in men, who ask others who Vishnu is without being able to communicate with their own hearts, while Vishnu is the secret support of all who know him to be their own atman and whose all pervading glow lights the whole world? What a pity! [ The poet refers to an Upanishadic passage where it is said that the glow of Brahman lights the whole world.]

सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यताम्
चिन्तायामसि सस्पृहं यदि तदा चक्रायुधश्चिन्त्यताम् ।
आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदालाप्यताम्
स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥ २० ॥
अन्वयः : रे सखे! यदि सेवायां साभिलाषम् असि, लक्ष्मीपतिः सेव्यताम्; यदि चिन्तायां सस्पृहम् असि तदा चक्रायुधः चिन्त्यताम्; यदि आलापं काङ्क्षसि तदा स्मररिपोः गाथा आलाप्यताम्; स्वापं वाञ्छसि चेत् चेतः निरर्गलसुखे सुप्यताम् ।
O friend! If you are interested in serving serve Vishnu, the lord of Lakshmi. If you are interested in contemplation, contemplate on Vishnu, the wielder of the discus. If you want to indulge in conversations, talk  about the stories of Shiva. If you want to have (restful) sleep, may your mind sleep in Brahman, who gives unhindered joy. [The poet, perhaps without being conscious of it, reflects the ideas from Mukundamala, which as a southerner he would have known.] 

बलादुन्मूल्य द्राङ्निगडमविवेकव्यतिकरम् ।
विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥ २१ ॥
अन्वयः : भव-ग्रीष्म-प्रौढ-आतप-निवह-सन्तप्त-वपुषः निगडम् अविवेकव्यतिकरं द्राक् बलात् उन्मूल्य दूरीकृतकलुषजालाः सुकृतिनः अस्मिन् विशुद्धे नैराश्यशिशिरे आत्मामृतसरसि विगाहन्ते ।
The blessed persons who get rid of their sins by casting away quickly and forcibly the chains of obstruction in the form of foolishness, after having got their bodies scorched by the peak summer heat called worldly living, dive into the pure lake of ambrosia for the soul, which chills despondency.
- - - -  

No comments:

Post a Comment