Follow by Email

Friday, March 2, 2012

The World of Valmiki-13

The World of Valmiki-13
omens
सीताकपीन्द्रक्षणदाचराणाम्
राजीवहेमज्वलनोपमानि ।
सुग्रीवरामप्रणयप्रसङ्गे
वामामि नेत्राणि समं स्फुरन्ति ॥४/५/३३॥
At the very moment when Sugriva and Rama became friends, the left eyes of Sita whose eyes were like lotus, of Vali whose eyes were golden and of Ravana whose eyes were like fire quivered.

तस्याः शुभं वाममरालपक्ष्म-
-राजीवृतं कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं नयनं सुकेश्या
मीनाहतं पद्ममिवाभिताम्रम् ॥
भुजश्च चार्वञ्चितपीनवृत्तः
परार्घ्यकालागरुचन्दनार्हः ।
अनुत्तमेनाध्युषितः प्रियेण
चिरेण वामः समवेपताशु ॥
गजेन्द्रहस्तप्रतिमश्च पीनः
तयोःर्द्वयोः संहतयोः सुजातः ।
प्रस्पन्दमानः पुनरूरुरस्या
रामं पुरस्तात् स्थितमाचचक्षे ॥
शुभं पुनर्हेमसमानवर्णम्
ईषद्रजोध्वस्तमिवामलाक्ष्याः ।
वासः स्थितायाः शिखराग्रदत्याः
किञ्चित् परिस्रंसत चारुगात्र्याः ॥५/२९/२-५॥
The left eye of fine-haired Sita, which was dark at the middle and white at the periphery and which was covered by the slanted dense eye lashes quivered like a coppery lotus struck by fish. Her left shoulder, which was beautiful, bent, large and curved and which deserved precious black aguru and chandan and which supported (earlier) her lover non-pareil(Rama) quivered fast for long. The left one of her well formed thighs resembling the trunk of an elephant shook as if announcing that Rama is in front of her. The  unsullied dress, which was golden but slightly covered by dust, of Sita whose teeth resembled pomegranate-like pearls and who had charming limbs, slightly slipped.

यदाप्रभृति वैदेही सम्प्राप्तेमां पुरीं तव ।
तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥
सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः ।
मन्त्रसन्धुक्षितोऽप्यग्निः न सम्यगभिवर्धते ॥
अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ।
सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥
गवां पयांसि स्कन्नानि विमदा वीरकुञ्जराः ।
दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥
खरोष्टाश्वतरा राजन् भिन्नरोमाः स्रवन्ति नः ।
न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः ॥
वायसाः सङ्घशः क्रूराः व्याहरन्ति समन्ततः ।
समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः ॥
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः ।
उपपन्नाश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः ॥
क्रव्यादानां मृगाणां च पुरद्वारेषु सङ्घशः ।
श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिस्वनाः ॥ ६/१०/१४-२१ ॥
Ever since Sita came to this city  of yours, bad omens are being seen. Fires even when properly sprinkled through chants are full of smoke and sparks and do not glow properly. Reptiles are seen in fire places, fire-chambers and places of Vedic offerings. Ants are seen in substances meant for offering to fire. The milk of cows curdles and fearless elephants are without their rutting. Horses neigh pitiably and do not relish their fodder. O king, our donkeys, camels and mules have their hair split and loose even when attended to with much thought. Crows assemble in groups cawing harshly on tops of spires. Vultures in groups hover over the city. Both in the morning and evening jackals howl ominously. At the doors of the city, loud roars of carnivorous animals in groups are heard accompnied with thunder.

वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः ॥
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ।
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥
दीना दीनस्वरा क्रूराः सर्वतो मृगपक्षिणः ।
प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ॥
रजन्यामप्रकाशस्तु सन्तापयति चन्द्रमाः ।
कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ।
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ॥
आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ।
रजसा महता चापि नक्षत्राणि हतानि च ।
युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ॥
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ।
शिवाश्चाप्यशिवान्नादान्नदन्ति सुमहाभयान् ॥६/२३/४-१२ ॥
Polluted winds blow. Earth shakes.The peaks of hills tremble.Trees fall down. Cruel clouds roar menacingly like carnivorous beasts and pour rain mixed with blood. Evenings resembling red sandal are very freightening. Moon with blackish red rays is without its brightness creating distress as if world's end is nearing. There is a deep red halo around the sun which is narrow, harsh and inauspicious. O Lakshmana, dark marks are seen on the (otherwise) spotless sun. ( Sun-spots?) Stars are covered with dust and are dull as if proclaiming the end of the world. Crows, eagles and vultures are falling down. Jackals howl frighteningly and inauspiciously.

उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधान्स्तथा ।
विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥
खराभिस्तनिता घोरा मेघाः प्रतिभयङ्कराः ।
शोणितानाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥
रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ।
ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथा पुरा ॥
व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम् ।
प्रविश्य लङ्कामनिशं समवायान्श्च कुर्वते ॥
कालिकाः पाण्डरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते ।
खरा गोषु प्रजायन्ते मूषिकाः नकुलैः सह ॥
मार्जाराः द्वीपिभिः सार्धं सूकराः शुनकैः सह ।
किन्नरा राक्षसैश्चापि समीयुर्मानुषैः सह ॥
पाण्डुरा रक्तपादाश्च विहङ्गाः कालचोदिताः ।
राक्षसानां विनाशाय कपोता विचरन्ति च ॥
वीचीकूचीति वाश्तन्त्यः शारिका वेश्मसु स्थिताः ॥
पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ।
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च ॥
करालो विकटो मुण्डः परुषः कृष्णपिङ्गलः ।
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते ॥६/३५/२५-३५ ॥
After witnessing varied dangerous portents I foresee destruction of all the Rakshasa's. Clouds with threatening thunder rain hot blood over Lanka. Animals which carry loads shed tears. Flags are colourless and are drooping and do not shine like before. Often preying animals, jackals and vultures assemble and enter Lanka howling in a threatening manner. Dark women with white teeth appear in dreams pillaging houses and talking loudly. The bali offerings made at residences are eaten by dogs.

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।
निबर्हणं प्रवीराणां ॠक्षवानररक्षसाम् ॥
वाताश्च परुषा वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः ॥
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ।
ज्वलच्च निपत्येतदादित्यादग्निमण्डलम् ॥
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् ।
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥
रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः ।
कृष्णरक्तान्तपर्यन्तो यथा लोकस्य संक्षये ॥
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ॥
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ।
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ।
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥
काकाः श्येनास्तथा गृध्राः नीचैः परिपतन्ति च ।
शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ॥६/४१/१२-२० ॥
I see a terrible disaster which will bring destruction to the world killing the  brave bears, monkeys and rakshasa's. Polluted winds blow. Earth shakes. The peaks of hills tremble. Trees fall down. Clouds with threatening sounds like those of wild beasts pour rain mixed with blood. The evenings are very fearsome with a dark red glow. Glowing orb of fire falls from the sun. Inauspicious poor  animals and birds sound pitiably around the sun creating great fear. Moon does not shine at nights and creates distress. Like at the end of the world there is a deep red halo around the sun which appears narrow, fierce and dark red at the ends. O Lakshmana, dark spot is seen in the orb of the sun. The stars do not appear normal. It appears as if it is foreboding that the end of the world is near. Crows, eagles and vultures arre falling down. The jackals are loudly and inauspiciously howling.
- - - -

No comments:

Post a Comment