Follow by Email

Saturday, July 27, 2013

BhaminIvilaasah-44

भामिनीविलासः-४४
ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः ।
प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥ ६ ॥
अन्वयः : वृष्णिवरेण्यः मे वेदनां ग्रीष्म-चण्ड-कर-मण्डल-भीष्म-ज्वाल-संसरण-तापित-मूर्तेः (वेदनां) वारिधरः प्रावृषेण्यः इव हरतु ।
 May Krishna, the Lord of Vrishnis remove my pains like the cloud in the rainy season removes the heat of a person whose body has been heated up by the spread of terrible flames of the solar orb in summer.


अपारे संसारे विषमविषयारण्यसरणौ
मम भ्रामं भ्रामं विगलितविरामं जडमतेः ।
परिश्रान्तस्यायं तरणितनयातीरनिलयः
समन्तात् सन्तापं हरिनवतमालस्तिरयतु ॥ ७ ॥
अन्वयः : अपारे संसारे विषम-विषय-अरण्य-सरणौ विगलितविरामं भ्रामं भ्रामं परिश्रान्तस्य जडमतेः मम सन्तापम् अयं तरणि-तनया-तीर-निलयः हरि-नव-तमालः समन्तात् तिरयतु ।
May the Tamal tree in the form of Krishna remove the distress of this dull-witted self who is tired of restless wandering in the series of forests of rugged sensory pleasures amidst this endless worldly life. [Just as a Tamal tree provides shade and thus provides solace to a traveller weary of wandering in the forest, may Krishna provide me who is weary of worldly pleasures, solace.]


आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियङ्गुलतयेव तरुस्तमालः ।
देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः ॥ ८ ॥
अन्वयः : भगवान् देवः अरविन्दनाभः प्रियङ्गुलतया लग्नः तमालः तरुः इव जलधिकन्यकया सलीलम् आलिङ्गितः मदीये देहावसानसमये हृदये चकास्तु ।
May Lord Padmanabha, who is playfully embraced by Goddess Lakshmi like the Tamal tree entwined by the Priyangu creeper, shine in my heart at the time of my departing from this body.


नयनानन्दसन्दोहतुन्दिलीकरणक्षमा ।
तिरयन्त्याशु सन्तापं कापि कादम्बिनी मम ॥ ९ ॥
अन्वयः : नयन-आनन्द-सन्दोह-तुन्दिलीकरण-क्षमा का अपि कादम्बिनी मम सन्तापम् आशु तिरयन्ती (भवतु) ।
May that indescribable garland of clouds (namely Krishna) which is capable of making my eyes laden with heaps of pleasure remove my distress.


वाचा निर्मलया सुधा मधुरया यां नाथ शिक्षामदाः
तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रतः
त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥ १० ॥
अन्वयः : नाथ! यदुपते! मधुरया निर्मलया वाचा यां शिक्षाम् अदाः ताम् अहम् अहंभावावृतः निस्त्रपः स्वप्ने अपि न संस्मरामि; इति आगः-शत-शालिनं मां पुनः अपि स्वीयेषु बिभ्रतः त्वत्तः दयानिधिः न अस्ति; मत्तः अपरः मत्तः न अस्ति ।
My lord! Chief of Yadus! I, being full of ego, do not remember without any shame even in dreams the education you gave me through sweet and faultless words. There is no one kinder than you in that you have included me, who has committed hundreds of wrongs, as one among yours and there is no one who is more arrogant than me.


पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परां तर तथाप्याशा न शान्तास्तव ।
आधिव्याधिपराहतो यदि सदा क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥ ११ ॥
अन्वयः : रे! पातालं सुरपुरीं वा व्रज; मेरोः शिरः आरोह; पारावारपरम्परां तर; तथा अपि तव आशाः न शान्ताः । आधि-व्याधि-पर-आहतः सदा निजं क्षेमं वाञ्छसि यदि, श्रीकृष्ण इति रसायनं रसय; अन्यैः श्रमैः किम्?
You can go to the netherworld or the city of divine beings; you can climb to the top of Meru mountain; you can cross the series of oceans; even then your desires will not calm down. If you, tormented by the enemies such as mental and physical distress desire your well-being, savour the tonic of calling, “Srikrishna”; of what use are any other efforts?


गणिकाजामिलमुख्यानवता भवता बताहमपि ।
सीदन् भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥ १२ ॥
अन्वयः : करुणामूर्ते! गणिका-अजामिल-मुख्यान् अवता भवता भव-मरु-गर्ते सीदन्, बत अहम् अपि सर्वथा न उपेक्ष्यः ।
 O Compassion personified! I, who have pitiably fallen into the desert pit of worldly life, may not be forsaken at any cost by you, who has protected persons like the prostitute and Ajamila. [ Reference is to the story of Krishna showing kindness to a prostitute and who gave deliverance to king Ajamila, who was way-ward.]


विदित्वेदं दृश्यं विषमरिपुदुष्टं नयनयोः
विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्याञ्चन नवनभस्यांबुदरुचौ ॥ १३ ॥
अन्वयः : इदं विषमरिपुदुष्टं विदित्वा, नयनयोः अन्तर्मुद्रां विधाय, अथ सपदि विषयान् विद्राव्य, विधूत-अन्तः-ध्वान्तः कदा कस्याञ्चन मधुर-मधुरायां नव-नभस्य-अम्बुद-रुचौ चिति निमग्नः स्याम् ।
Having realized that all that I see is polluted by the antagonistic enemy ( senses) and having drawn the eyes inwards and then quickly driving away sensual desires, and having cast off the internal darkness, when will I immerse my mind in that indescribable extremely sweet spirit (Krishna) which has the luster of a cloud in the early part of Bhadrapada month?


मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।
सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ १४ ॥
अन्वयः : मदीय जीव! भूयः भवे भ्राम्यता भवता मृद्वीका रसिता, सिता समशिता, स्फीतं पयः निपीतम्, स्वर्-यातेन सुधा अपि अधायि, कतिधा रम्भा-अधरः खण्डितः । कृष्ण इति अक्षरयोः मधुरिमा उद्गारः क्वचित् लक्षितः? सत्यं ब्रूहि।

My life! Having repeatedly wandered in this world, you have enjoyed bunches of grapes, you have tasted sugar-candy, you have drunk plenteous milk, having gone to the world of divines you have tasted ambrosia, you have bitten the lips of Rambha (celestial danseuse) several times. Tell me the truth, have you ever come across anything as sweet as the two syllables, “Krishna”?
- - - - 

No comments:

Post a Comment