Follow by Email

Saturday, May 23, 2015

Bhartruhari's Satakas-2

सुभाषितत्रिशती-२

प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्
समुद्रमपि सन्तरेत्प्रचलदूर्मिमालाकुलम् ।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ नी-३ ॥
अ: मकर-वक्त्र-दंष्ट्र-अन्तरात् मणिं प्रसह्य उद्धरेत् । प्रचलत्-ऊर्मि-माला-आकुलं समुद्रम् अपि सन्तरेत् । कोपितं भुजङ्गम् अपि शिरसि पुष्पवत् धारयेत् । प्रति-निविष्ट-मूर्ख-जन-चित्तम् न तु आराधयेत् ।
One could pull out a gem from the jaws of a shark; one could cross the ocean agitated by moving series of  waves; one could sport  on one’s head an angry serpent as if it is a flower; but one should not try to please the mind of an obdurate fool.  

भ्रूचातुर्यात् कुञ्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश्च हासाः ।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणामेतद्भूषणं चायुधं च ॥ शृ-३ ॥
अ: भ्रू-चातुर्यात् कुञ्चित-अक्षाः कटाक्षाः, स्निग्धाः वाचः,लज्जित-अन्ताः हासाः च, लीला-मन्दं प्रस्थितं स्थितं च स्त्रीणाम् एतत् (सर्वं) भूषणम् आयुधं च ।
Sideway glances due to the dexterity of the eye-brows, friendly talk, smiles ending with bashfulness, playful languidness in movement and posture, all this is both embellishment and weapon for ladies.

क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविलसितैः ।
कुमारीणामेतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ शृ-४ ॥
अ: क्वचित् स-भ्रू-भङ्गैः, क्वचित् अपि लज्जा-परिगतैः, क्वचित् भूरि-त्रस्तैः, क्वचित् अपि लीला-विलसितैः एतैः कुमारीणां मदन-सुभगैः नेत्र-वलितैः दिशः स्फुरत्-नील-अब्जानां प्रकर-परिकीर्णा इव (भान्ति) ।
With the young ladies casting their passionately lovely glances sometimes accompanied by the knitting of the eye brows, sometimes filled with bashfulness, sometimes full of fear and sometimes playfully it looks as if heaps of shining blue lotuses are scattered in all directions.

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ वै-३ ॥
अ: निधि-शङ्कया क्षिति-तलम् उत्खातम् । गिरेः धातवः ध्माताः । सरितां पतिः निस्तीर्णः । नृपतयः यत्नेन सन्तोषियाः । निशाः श्मशाने मन्त्र-आराधन-तत्परेण मनसा नीताः । मया काण-वराटकः अपि न प्राप्तः । (हे) तृष्णे, सकामा भव ।
With the hope of a treasure ground was dug up; oars of mountains were blown (in a smelter); ocean was crossed over; kings were appeased with effort; nights were spent in cemeteries with mind concentrating on the chant; not even a perforated cowrie was got by me; dear greed, be  satisfied.

खलालापाः सोढाः कथमपि तदाराधनपरैः
निगृह्यान्तर्बाष्पं हसितमपि शून्येन  मनसा ।
कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि
त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ वै-४ ॥
अ: तत्-आराधन-परैः (कॄताः) खल-आलापाः  कथम् अपि सोढाः । अन्तर्-बाष्पं निगृह्य शून्येन मनसा हसितम् अपि । वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिः अपि कृतः ।
(हे) मॊघ-आशे आशे , अतः किम् अपरं मां नर्तयसि?

I somehow tolerated wicked talk by those who indulge in it; I feigned laughter suppressing the tears; I even bowed to those whose mental faculty was stupefied by wealth; dear greed with unfulfilled desires, how much more do you make me dance (to your tunes)?
- - - - 

No comments:

Post a Comment