Follow by Email

Saturday, May 30, 2015

Bhartruhari's Satakas-3

सुभाषितत्रिशती-३

व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते
भेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति ।
माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते
मूर्खान्यः प्रतिनेतुमिच्छति बलात् सूक्तैः सुधास्यन्दिभिः ॥ नी-५ ॥
अ: यः मूर्खान् सुधा-स्यन्दिभिः सूक्तैः बलात् प्रतिनेतुम् इच्छति, (सः) असौ व्यालं बाल-मृणाल-तन्तुभिः रोद्धुं समुज्जृम्भते,  वज्र-मणिं शिरीष-कुसुम-प्रान्तेन भेत्तुं सन्नह्यति, क्षार-अम्बुधेः माधुर्यं मधु-बिन्दुना रचयितुम् ईहते ।
 One who wants to change stupid persons forcefully through ambrosia-exuding good sayings is attempting to obstruct a serpent through tender threads of lotus stalk,is trying to break a diamond with the ends of a shirisha flower,wishes to sweeten the salty ocean with a drop of honey.

स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्   ॥ नी-६ ॥
अ: मौनम् अपण्डितानाम् स्वायत्तं एकान्तहितं विधात्रा विनिर्मितं अज्ञतायाः छादनं विशेषतः सर्वविदां समाजे विभूषणम् ।
For those who are not scholars, observing silence is an extremely comfortable covering under one’s own control created by the creator and it is an adornment for them especially in the society of erudite scholars.

वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ शृ-५ ॥
अ: चन्द्रविकासि वक्त्रम्, पङ्कज-परीहास-क्षमे लोचने, स्वर्णम् अपाकरिष्णुः वर्णः, अलिनी-जिष्णुः कचानां चयः, इभ-कुम्भ-विभ्रम-हरौ वक्षोजौ, गुर्वी नितम्ब-स्थली, वाचां हारि मार्दवम् युवतिषु स्वाभाविकं मण्डनम् ।
A face steadily broadening like moon, eyes which can put lotuses to shame, colour which outshines that of Gold, lock of hair which wins over (swarm of) female bees (in colour), bosoms which steal the grace of elephant’s frontal prominences, heavy hips and enticing sweetness in speech; these are natural adornments for young women.

स्मितं किञ्चिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ।
गतानामारम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिव नहि रम्यं मृगदृशः ॥ शृ-६ ॥
अ: किञ्चित् मुग्धं स्मितम्,  सरल-तरलः दृष्टि-विभवः, अभिनव-विलास-उक्ति-सरसः वाचाम् परिस्पन्दः, गतानाम् आरम्भः, किसलयित-लीला-परिकरः, तारुण्यं स्पृशन्त्याःमृग-दृशः किम् इव न हि रम्यम् ।
A smile that is somewhat innocent, beauty of candidly unsteady eyes, diction in speech embellished with fresh playful words, gait in walking, abundantly sprouting elegance, what is not charming in a doe-eyed girl entering youth?

अमीषां प्राणानां तुलितबिसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां
कृतं मानव्रीडैर्निजगुणकथापातकमपि ॥ वै-५ ॥
अ: तुलित-बिसिनी-पत्र-पयसां अमीषां प्राणानां कृते विगलित-विवेकैः अस्माभिः किं न व्यवसितम्? यत् द्रविण-मद-निःसंज्ञ-मनसां आढ्यानाम् अग्रे मानव्रीडैः निज-गुण-कथा-पातकम् अपि कृतम् ।
We shamelessly committed the crime of narrating our own virtues before the rich whose minds are insensitive due to the arrogance of money. What is it that we, deprived of discrimination, did not do for the sake of our lives which are like water on the lotus leaf?

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः
सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।
ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शम्भोः पदं
तत्तत्कर्मकृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ वै-६ ॥  
 अ: क्षान्तं, (तु) न क्षमया; गृह-उचित-सुखं त्यक्तं, (तु) न सन्तोषतः; दुःसह-शीत-वात-तपन-क्लेशाः सोढाः (तु) तपः न तप्तम्; नियमित-प्राणैः अहः-निशम् वित्तं ध्यातं,न (तु) शम्भोः पदम्; यत् एव मुनिभिः कॄतं तत् तत् कर्म कृतम्, (तु) तैः तैः फलैः वञ्चिताः।

We tolerated but not with a sense of forgiving; we left homely comforts but not with joy; we endured the distress caused by unbearable cold, wind and heat, but we did not do penance; controlling our breath we thought of money day and night, but we did not think of Shiva’s abode; What sages did we also did, but we were denied the fruits (that they got). 
- - - -  

No comments:

Post a Comment