Saturday, June 13, 2015

Bhartruhari's Satakas-5

भर्तृहरिशतकत्रयी-५

शक्यो वारयितुं जलेन हुतभुक्शूर्पेण सूर्यातपः
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गौर्गर्दभः ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रैः प्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ नी-१० ॥
अ: हुतभुक् जलेन, सूर्य-आतपः शूर्पेण नागेन्द्रः निशित-अङ्कुशेन , स-मदः गौः गर्दभः (वा) दण्डेन, व्याधिः भेषज-संग्रहेण वारयितुं शक्यः, विषं विविधैः मन्त्रैः प्रयोगैः (च वारयितुं शक्यम्) । सर्वस्य शास्त्र-विहितं औषधम् अस्ति, मूर्खस्य (तु) औषधम् न अस्ति ।
Fire can be controlled by (using) water, sun’s heat by a winnowing basket, a big elephant by a sharp hook, a berserk bull or donkey by a stick, disease by a set of medicines and poison by use of various incantations. For everything there is a medicine prescribed by scriptures, but there is no medicine for a fool.

अथ विद्वत्पद्धतिः ( Scholarship)

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य सुधियस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षकैर्न मणयो यैरर्घतः पातिताः ॥ नी-११ ॥
अ: यस्य प्रभोः विषये शास्त्र-उपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेय-आगमाः विख्याताः कवयः निर्धनाः वसन्ति, (तस्य) वसुधाधिपस्य तत् जाड्यम् । सुधियः तु अर्थं विना  अपि ईश्वराः । यैः कु-परीक्षकैः अर्घतः पातिताः, (ते कुत्साः स्युः) मणयः न कुत्स्याः स्युः ।
It is the stupidity of a king if famous poets whose elegant sayings are supported by relevant treatises and whose knowledge of scriptures is meant for their disciples live in penury in his kingdom. Scholars are masters even if they have no money. If gems are under-valued it is the fault of the bad gem-examiners and not of gems.

हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा-
प्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्
येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ नी-१२ ॥
अ: (हे) नृपाः, यत् हर्तुः न गोचरं याति, सर्वदा शं पुष्णाति, अर्थिभ्यः प्रतिपाद्यमानम् अपि अनिशं परां वृद्धिं प्राप्नोति, कल्प-अन्तेषु अपि निधनं न प्राप्नोति, येषां विद्या-आख्यम् अन्तर्-धनं (अस्ति) तान् प्रति मानम् उज्झत । तैः सह कः स्पर्धते?
O kings! Do not exhibit haughtiness in front of those (scholars) who have internal wealth called knowledge which cannot be taken away as it cannot be seen, which always bestows wellbeing, which keeps on increasing even when it is transferred to those who seek it and which does not cease to exist even at the end of aeons. Who can compete with them?
   
नूनं हि ते कविवरा विपरीतवाचो
ये नित्यमाहुरबला इति कामिनीस्ताः ।
याभिर्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ शृ-१० ॥
अ: ये कामिनीः अबलाः इति नित्यम् आहुः, ते कवि-वराः विपरीत-वाचः हि नूनं । याभिः विलोलतर-तारक-दृष्टि-पातैः शक्र-आदयः अपि विजिताः ताः अबलाः कथम्? 
Those great  poets who constantly tell that women are powerless indeed say perverse things. How can those who conquered even Indra  through their unsteady glances be called “powerless” [abalaa]?

नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ शृ-११ ॥
अ: मकर-ध्वजः तस्याः सुभ्रुवः आज्ञा-करः नूनं यतः (सः) तत्-नेत्र-सञ्चार-सूचितेषु प्रवर्तते ।
Cupid is indeed a faithful servant of women with beautiful eye-brows, because he proceeds to act based on the signals given through their rolling of eyes.

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमौ
इत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥ शृ-१२ ॥
 अ: (हे) तन्वि, केशाः संयमिनः, लोचने श्रुतेः अपि पारं गते, अन्तर्-वक्त्रम् अपि स्वभाव-शुचिभिः द्विजानां गणैः कीर्णम्, इमौ वक्षोज-कुम्भौ मुक्तानां सतत-अधिवास-रुचिरौ, इत्थं ते वपुः प्रशान्तम् अपि नः रागं करोति एव ।  
Hair on the head is tied up (self-controlled); the eyes extend beyond the ears( have mastered the Vedas); the inside of the mouth is filled with naturally clean teeth ( full of Brahmins who are virtuous by nature); these two pitcher-like breasts look appealing with the continued presence of pearls ( liberated souls); thus although your body displays serenity, it disturbs us.[ The poet skilfully plays on double meaning words संयमिनः, श्रुतेः, द्विजानाम्, मुक्तानाम् and brings out an apparent contradiction.]

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ वै-१० ॥
अ: आशा नाम नदी मनोरथ-जला, तृष्णा-तरङ्ग-आकुला, राग-ग्राहवती, वितर्क-विहगा, धैर्य-द्रुम-ध्वंसिनी, मोह-आवर्त-सुदुस्तरा, अति-गहना प्रोत्तुङ्ग-चिन्ता-तटी , तस्याः पार-गताः विशुद्ध-मनसः योगि-ईश्वराः नन्दन्ति ।
Desire is a river which has intentions as water, waves called greed, is infested with crocodiles called lust and birds called doubt, which destroys trees called courage, which is difficult to cross because of whirl pools called delusion, which has steep and high banks called worry. Yogis with pure mind are happy having crossed that river.

अथ विषयपरित्यागविडम्बना ( A critique on discarding sensory pleasures)
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ वै-११ ॥
अ: संसार-उत्पन्नं चरितं कुशलं न अनुपश्यामि । पुण्यानां विपाकः विमृशतः मे भयं जनयति । महद्भिः पुण्य-ओघैः चिर-परिगृहीताः विषयाः च विषयिणां व्यसनं दातुम् इव महान्तः जायन्ते ।
I do not see anything good in worldly life. When analyzed, the result of past good deeds frightens me. The sensory pleasures which have been earned for long by a flood of great good deeds in the past will only grow as if to cause sorrow to those clinging to them.

अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ वै-१२ ॥
अ: विषयाः चिरतरम् उषित्वा अपि यातारः । वियोगे भेदः कः? जनः स्वयम् अमून् न त्यजति (इति) यत्, स्वातन्त्र्यात् व्रजन्तः  (विषयाः) मनसः अतुल-परितापाय (भवन्ति) ।
एते स्वयं त्यक्ता अनन्तं शम-सुखं विदधति हि ।

Sensory pleasures will depart even after staying for long. What is the difference in parting? If man does not discard them himself, they cause immense pain. If they are voluntarily discarded they provide endless joy and peace.
- - - - 

No comments:

Post a Comment