Follow by Email

Saturday, June 6, 2015

Bhartruhari's Satakas-4

भर्तृहरिशतकत्रयी-४

यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवमदलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ नी-७ ॥
अ: यदा अहं किञ्चित्-ज्ञः गजः इव मद-अन्धः समभवम् । तदा सर्वज्ञः अस्मि इति मम मनः अवलिप्तम् अभवत् । यदा बुध-जन-सकाशात्  किञ्चित् किञ्चित् अवगतं तदा मूर्खः अस्मि इति मे मदः ज्वरः इव व्यपगतः ।  
When I knew a little I became blind with intoxication like an excited elephant; then my mind was arrogant on the conviction that I knew everything. When I learnt little by little from scholars, then my intoxication was gone like fever on my knowing that I am stupid. 

कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन् खरास्थि निरामिषम् ।
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ नी-८ ॥
अ: श्वा कृमि-कुल-चितं लाला-क्लिन्नं विगन्धि जुगुप्सितं निरामिषं खर-अस्थि निरुपम-रस-प्रीत्या खादन् पार्श्वस्थं सुरपतिम् अपि विलोक्य न शङ्कते । क्षुद्रः जन्तुः परिग्रह-फल्गुतां न गणयति हि ।
When a dog is eating with relish as if it is of incomparable taste a donkeys’ bone which is malodorous, disgusting, devoid of flesh, covered with worms and wet with its own saliva, it is not worried about even Indra standing by its side. A lowly being does not mind the worthlessness of its possession.

शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ।
अथो गङ्गा सेयं पदमुपगता स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ नी-९ ॥
अ: (या) गङ्गा स्वर्गात् शार्वं शिरः, पशुपतिशिरस्तः क्षितिधरं, उत्तुङ्गात् महीध्रात् अवनिम्, अवनेः च जलधिम् अपि उपगता सा इयं स्तोकं पदम् उपगता । अथवा विवेक-भ्रष्टानां विनिपातः शतमुखः भवति । 
River Ganga fell down on the head of Shiva from heaven, on to the mountain (Himalaya) from Shiva’s head, on to the earth from the lofty mountain and to the ocean from the earth and attained an insignificant state. Perhaps the fall of those who have lost their capacity to discriminate happens in hundreds of ways.

 
द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु किं तद्वचः ।
किं स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुः
ध्येयं किं नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमः ॥ शृ-७ ॥
अ: सहृदयैः द्रष्टव्येषु उत्तमं किम्? मृग-दृशः प्रेम-प्रसन्नं मुखम् । घ्रातव्येषु  अपि (उत्तमं) किम्? तत्-आस्य-पवनः । श्राव्येषु (उत्तमं) किम्? तत्-वचः । स्वाद्येषु (उत्तमं) किम्? तत्-ओष्ठ-पल्लव-रसः । स्पृश्येषु (उत्तमं) किम् ? तत्-वपुः । सहृदयैः ध्येयं किम्? नव-यौवनम् । सर्वत्र तत्-विभ्रमः ।
Among those a man of taste can look at, which is the best? The face of a doe-eyed lady pleasant with love; among those he can smell, which is the best? her facial breath; among those he can hear? her words; among those he can taste? the juice of her sprout- like lips; among those he can touch? her body. What is it that a man of taste should contemplate on? fresh youth. Its illusion is everywhere.

एताश्चलद्वलयसंहतिमेखलोत्थ-
झङ्कारनूपुरपराजितराजहंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ शृ-८ ॥

अ: एताः चलत्-वलय-संहति-मेखल-उत्थ-झङ्कार-नूपुर-पराजित-राजहंस्यः तरुण्यः वित्रस्त-मुग्ध-हरिणी-सदृशैः कटाक्षैः कस्य मनः विवशं न कुर्वन्ति?
Whose mind do these young ladies who excel royal swans by their jingling set of bangles, girdle and the anklets not capture with their glances similar to those of frightened innocent deer?

कुङ्कुमपङ्ककलङ्कितदेहा
गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पदपद्मा
कं न वशीकुरुते भुवि रामा ॥ शृ-९ ॥
अ: कुङ्कुम-पङ्क-कलङ्कित-देहा गौर-पयोधर-कम्पित-हारा नूपुर-हंस-रणत्-पद-पद्मा  रामा भुवि कं न वशीकुरुते ।
Who on earth will not be captivated by a damsel who has her body smeared in kunkum,  her garland swaying due to the fair breasts and her lotus- like feet jingling due to the swan-like anklets?


भोगा न भुक्ताः वयमेव भुक्ताः तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव याताः तृष्णा न जीर्णा वयमेव जीर्णाः ॥ वै-७ ॥
अ: भोगाः न भुक्ताः, वयम् एव भुक्ताः; तपः न तप्तम्, वयम् एव तप्ताः,  कालः न यातः, वयम् एव याताः; तृष्णा न जीर्णा, वयम् एव जीर्णाः ।
We did not enjoy pleasures, we only were eaten up; we did not do penances, only we were distressed; time did not pass on, only we passed on; greed did not wear out, only we decayed. [ Contextual different shades of meaning of words भुक्त, तप्त, यात, जीर्ण have been beautifully played upon.]

वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ वै-८ ॥
अ: मुखं वलीभिः आक्रान्तम्, शिरः पलितेन अङ्कितम्, गात्राणि शिथिलायन्ते, तृष्णा एका तरुणायते ।
The face is over run by wrinkles, head is marked by grey hair, limbs have become loose, only greed is getting younger.

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः
समानाः स्वर्याताः  सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ॥ वै-९ ॥
अ:  भोग-इच्छा निवृत्ता; पुरुष-बहुमानः अपि गलितः; जीवित-समाः समानाः सुहृदः स्वर् याताः; शनैः यष्टि-उत्थानं, नयने घन-तिमिर-रुद्धे च; तत् अपि मूढः कायः मरण-अपाय-चकितः (इति) अहो ।

The desire to enjoy bodily pleasures is gone, self-respect has also waned, friends  who were dear as one’s own life have gone to heaven; getting up slowly is with the help of a stick; eyesight  is affected by advanced cataract; in spite of all this the stupid body is afraid of death.
- - - - 

No comments:

Post a Comment