Follow by Email

Saturday, June 27, 2015

Bhartruhari's Shatakas--7

भर्तृहरिशतकत्रयी-७

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ नी-१६ ॥
अ: विद्या नाम नरस्य अधिकं रूपम्, प्रच्छन्नगुप्तं धनम्,विद्या भोगकरी यशः-सुख-करी, विद्या गुरूणां गुरुः, विद्या विदेशगमने बन्धुजनः, विद्या परा देवता,विद्या राजसु पूज्यते, धनं नहि । विद्याविहीनः पशुः।
Education enhances handsomeness; it is a hidden wealth; it enables enjoyments, fame and happiness; it is a preceptor for preceptors; it acts as well-wisher in a foreign country; it is the highest divinity; education and not wealth is respected by kings. A person without education is an animal.

क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदि
व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ नी-१७ ॥
अ: देहिनां क्षान्तिः चेत् कवचेन किं, क्रोधः अस्ति चेत् अरिभिःकिम्, ज्ञातिः चेत् अनलेन किं यदि सुहृत् दिव्यौषधैः किं फलम् , यदि दुर्जनाः किं सर्पैः यदि अनवद्या विद्या किमु धनैः, यदि
व्रीडा चेत् किमु भूषणैः, यदि सुकविता अस्ति राज्येन किम् ?
If one has patience, where is the need for any armour?  If there is a paternal relative where is the need for fire? If there is a friend where is the need for divine medicines? If there are vicious persons where is the need for serpents? If there is faultless scholarship where is the need for money?  If there is humility where is the need for ornaments? If there is good poetry where is the need for a kingdom?

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ नी-१८ ॥
अ: स्वजने दाक्षिण्यं, परिजने दया, दुर्जने सदा शाठ्यं, साधुजने प्रीतिः, नृपजने नयः, विद्वत्-जने आर्जवं च , शत्रुजने शौर्यं, गुरुजने क्षमा, कान्ताजने धृष्टता; एवं च ये पुरुषाः कलासु कुशलाः तेषु एव लोकस्थितिः ।
Being considerate towards kith and kin; being compassionate towards attendants; being deceitful towards scoundrels; being affectionate towards good persons; being courteous towards royals; being straight  forward towards learned persons; being valorous towards enemies; being indulgent towards elders. This world is dependent upon people who display such skills.
--
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ शृ-१६ ॥
अ: सा चन्द्रकान्तेन मुखेन महा-नीलैः शिरोरुहैः, पद्मरागाभ्यां कराभ्यां, रत्न-मयी इव रेजे
With her face as lovely as moon (like moon-stone), her hair deep black (like sapphire), her palms having the colour of lotus (like ruby) she was resplendent as if she was made of precious stones. ( The poet has played on the double meanings of ‘chandrakanta’,’mahanila’ and ‘padmaraga’)

गुरुणा स्तनभारेण मुखचन्द्रेन भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ शृ-१७ ॥
अ: गुरुणा स्तन-भारेण भास्वता मुख-चन्द्रेन शनैः-चराभ्यां पादाभ्यां सा ग्रहमयी इव रेजे ।
With the heavy weight of her breasts, her face luminous like moon and her slow pace she looked resplendent as if she was made of planets. (Again pun on words ‘guru’,’chandra’ and ‘Sanaiscara’ is skilfully employed by the poet.)

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किमाकुलस्त्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ शृ-१८ ॥
अ: (हे) चित्त, तस्याः स्तनौ यदि घनौ, जघनं च हारि, वक्त्रं च चारु तव किम्? त्वं किम् आकुलः? तेषु तव वाञ्छा अस्ति चेत् पुण्यं कुरुष्व, पुण्यैः विना समीहित-अर्थाः न भवन्ति हि |
Dear mind, if her breasts are heavy, her hips are attractive and her face beautiful what is it for you? Why do you feel disturbed? If you desire them do good deeds. Desired objectives do not materialise without previous good deeds.
--
स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरः स्पर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ वै-१६ ॥
अ: स्तनौ मांसग्रन्थी कनककलशौ इति उपमितौ, मुखं श्लेष्म-आगारं तत् अपि च शशाङ्केन तुलितम्, जघनं स्रवन् मूत्र-क्लिन्नं करि-वर-शिरः-स्पर्धि , मुहुः निन्द्यं रूपं कवि-जन-विशेषैः गुरु कृतम् ।
Breasts which are glands of flesh are compared to golden pitchers; Face which is a store house of phlegm is compared to moon; the private part wet with urine is compared to the head of the best of elephants; a form which should be often reprehended is made lofty by the great poets.

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः
शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ वै-१७ ॥
अ: एकः रागिषु प्रिय-तमा-देह-अर्ध-हारी हरः राजते, यस्मात् परः विमुक्त-ललना-सङ्गः जनः नीरागेषु न (अस्ति) । शेषः दुर्वार-स्मर-बाण-पन्नग-विष-व्याविद्ध-मुग्धः जनः काम- विडम्बितान् विषयान् भोक्तुं न क्षमः, मोक्तुं (च) न क्षमः ।
Shiva who has carried half of the body of his beloved shines alone as the foremost among lovers and there is no one who excels him among the passion-free in being detached from the company of women. The rest who are entranced having been affected by the snake-poison of the arrows of irresistible cupid are neither capable of enjoying nor resisting the sensual pleasures accepted on account of cupid.    

अजानन् दाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितम् ।
विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्
न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ वै-१८ ॥
अ: शलभः दाह-आत्म्यम् अजानन् तीव्र-दहने पततु, सः मीनः अपि अज्ञानात् बडिश-युतं पिशितम् अश्नातु, इह एते वयम् कामान् विपत्-जाल-जटिलान् विजानन्तः अपि न मुञ्चामः, मोह-महिमा गहनः अहह ।

 Let the moth fall into the fierce fire not knowing that it burns; let the fish eat the meat not knowing that it is baited; but we, even though fully knowing that desires are entangled in a network of hazards do not forsake them; deep indeed is the power of delusion!
- - - -  

No comments:

Post a Comment