Follow by Email

Saturday, December 5, 2015

Bhartrhari's Shatakas-39

भर्तृहरिशतकत्रयी-३०

गजभुजङ्गविहङ्गमबन्धनं
शशिदिवाकरयोर्ग्रहपीडनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ नी-८५ ॥
अ: गज-भुजङ्ग-विहङ्गम-बन्धनं शशि-दिवाकरयोः ग्रह-पीडनं मतिमतां दरिद्रतां च विलोक्य अहो विधिः बलवान् इति मे मतिः ।
After seeing that elephants, snakes and birds are kept captive, that planets torment the sun and the moon and that learned persons live in penury I believe that one’s destiny is very powerful.

सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः ।
तदपि तत्क्षणभङ्गि करोति चेत्
अहह कष्टमपण्डितता विधेः ॥ नी-८६ ॥
अ: (विधिः)अशेष-गुण-आकरं भुवः अलङ्करणं पुरुष-रत्नं सृजति तावत्, तत् अपि तत्-क्षण-भङ्गि करोति चेत् अहह कष्टं विधेः अपण्डितता ।
If Fate creates a gem of a person who is an ornament for the world and who is a source of all good qualities and also makes him lasting for a few moments, what a pity that it is so un-informed.

अयममृतनिधानं नायकोऽप्योषधीनां
शतभिषगनुयातः शम्भुमूर्ध्नोऽवतंसः ।
विरहयति न चैनं राजयक्ष्मा शशाङ्कं
हतविधिपरिपाकः केन वा लङ्घनीयः ॥ नी-८७ ॥
अ: अयम् अमॄत-निधानं शत-भिषक्-अनुयातः शम्भु-मूर्ध्नः अवतंसः । एनं शशाङ्कं राज-यक्ष्मा न विरहयति च । हत-विधि-परिपाकः केन वा लङ्घनीयः ?
This moon is a receptacle of ambrosia, is followed by hundreds of physicians (followed by Satabhishak star) and is a crest on the head of Shiva. (However) He is affected by the disease of consumption. Who can get over the effect of wretched Fate?
--

प्रथितः प्रणयवतीनां तावत्पदमातनोतु हृदि मानः ।
भवति न यावच्चन्दनतरुसुरभिर्मलयपवमानः ॥ शृ-८५ ॥
अ: प्रणयवतीनां प्रथितः मानः तावत् हृदि पदम् आतनोतु यावत् मलय-पवमानः चन्दन-तरु-सुरभिः न भवति ।
May the famous ego of ladies who are in love stay on so long as the wind from Malaya mountain does not carry the fragrance of sandal trees.

सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते ।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ शृ-८६ ॥
अ: सहकार-कुसुम-केसर-निकर-भर-आमोद-मूर्च्छित-दिगन्ते मधुर-मधु-विधुर-मधुपे मधौ कस्य उत्कण्ठा न भवति ?
At the time of spring when the horizon is full of intense fragrance of the filaments of mango flowers and when honey bees are agitated by the sweet honey (of the flowers), who does not long for one’s beloved?

अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं मदनं च विवर्धयन्ति ॥ शृ-८७ ॥
अ: ग्रीष्मे अच्छ-अच्छ-चन्दन-रस-आर्द्र-तराः मृग-अक्ष्यः धारा-गृहाणि कुसुमानि कौमुदी च सुमनसः मन्दः मरुत् शुचि हर्म्य-पृष्ठं  मदं मदनं च विवर्धयन्ति ।
In summer doe-eyed ladies who are moist with very pure sandal paste, bath rooms with water streams, flowers, moonlight, mild wind from flowers and clean palace grounds increase intoxication and romance.
--

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम् ॥ वै-८५ ॥
अ: शान्त-ध्वनिषु रजनीषु द्यु-सरितः क्व अपि स्फुरत्-स्फार-ज्योत्स्ना-धवलित-तले पुलिने सुख-आसीनाः भव-आभोग-उद्विग्नाः  शिव शिव इति उच्च-वचसः अन्तर्गत-बहुल-बाष्प-आकुल-दशां कदा यास्यामः?
When shall we, agitated by the serpent of worldly affairs, reach the state where copious tears of joy are internally controlled  chanting loudly “ shiva, shiva, shiva”, on nights when all sound has subsided, reclining comfortably somewhere on the sparkling extensive moon-light-lit sands of the divine river Ganga ?

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः
त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ॥ वै-८६ ॥
अ: वयं सर्वस्वे संसारे वितीर्णे तरुण-करुणा-पूर्ण-हृदयाः विगुण-परिणामां विधि-गतिं स्मरन्तः पुण्य-अरण्ये परिणत-शरत्-चन्द्र-किरणाः त्रियामाः हर-चरण-चिन्ता-एक-शरणाः नेष्यामः ।
After crossing all the worldly affairs remembering the ill effects of the vicissitudes of destiny and with our hearts full of fresh compassion, when shall we spend nights in a holy forest lit by the rays of the autumnal full moon taking sole refuge in the thoughts of the feet of Shiva?

कदा वाराणस्याममरतटिनीरोधसि  वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ वै-८७ ॥
अ: वाराणस्याम् अमर-तटिनी-रोधसि वसन् कौपीनं वसानः शिरसि अञ्जलि-पुटं निदधानः
 “अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन” इति आक्रोशन् दिवसान् निमिषम् इव  कदा नेष्यामि?
When shall I spend my days as if they are minutes in the city of Varanasi living on the banks of Ganga wearing a loin-cloth with hands folded above my head chanting, “ O Consort of Gauri, the destroyer of Tripura, Shambhu, the three-eyed”?
- - - - 

No comments:

Post a Comment