Follow by Email

Saturday, December 19, 2015

Bhartrhari's Subhashitas-41

भर्तृहरिशतकत्रयी-४१
अथ कर्मपद्धतिः
Section  on Karma
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा
विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किमपरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ नी-९१ ॥
अ: देवान् नमस्यामः; हत-विधेः ते अपि वश-गाः ननु? विधिः वन्द्यः; सः अपि प्रति-नियत-कर्म-एक-फल-दः; फलं कर्म-आयत्तं यदि अपरैः किम्? विधिना च किम्? येभ्यः विधिः अपि न प्रभवति, तत्-कर्मभ्यः नमः ।
We salute the Divine Beings. But they are also affected by the wily Fate. So, we should salute Fate. But Fate also bestows according to one’s own actions. If fruits are as per actions, of what importance is Fate? Let us salute (our own) actions on which even Fate has no control.

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ नी-९२ ॥
अ: येन ब्रह्मा कुलालवत् नियमितः, येन विष्णुः ब्रह्माण्ड-भाण्ड-उदरः दशावतार-गहने महा-सङ्कटे क्षिप्तः, येन रुद्रः कपाल-पाणि-पुटके भिक्षाटनं सेवते, सूर्यः नित्यम् एव गगने भ्राम्यति, तस्मै कर्मणे नमः ।
Salutations to Karma, by whom Brahma is made to work like a potter, Vishnu is thrown into stressful cauldron of Brahmanda beset with ten incarnations, Shiva makes a living by begging with a bowl made of skull in his hand, and the sun wanders daily in the sky.

या साधूंश्च खलान्करोति विदुषो मूर्खान् हितान्द्वेषिणः
प्रत्यक्षं  कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ।
तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
हे  साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥ नी-९३ ॥
अ: हे साधो! या खलान् च साधून् करोति, मूर्खान् विदुषः, द्वेषिणः हितान्, परोक्षं प्रत्यक्षं कुरुते, हालाहलं तत्-क्षणात् अमृतं कुरुते, वाञ्छितं फलं भोक्तुं तां भगवतीं सत्क्रियाम् आराधय, व्यसनैः विपुलेषु गुणेषु वृथा आस्थां मा कृथाः ।
 Dear holy man! Worship that Goddess called Virtuous Action who converts bad persons to holy persons, dull-headed persons into scholars, enemies into well-wishers, renders what is not seen visible, converts instantaneously strongest poison into ambrosia. Do not go after other qualities which are full of weaknesses. 

शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीरित्यनुभूयते चिरमनुस्यूते शुभे कर्मणि ।
विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्त्तन्तुकं
मुक्ताजालमिव  प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥ नी-९४ ॥
अ: शुभे कर्मणि चिरम् अनुस्यूते शुभ्रं सद्म स-विभ्रमाः युवतयः श्वेत-आतपत्र-उज्ज्वला लक्ष्मीः इति अनुभूयते, कर्मणि विच्छिन्ने लक्ष्मीः अनङ्ग-कलह-क्रीडा-त्रुटत्-कन्तुकं भ्रश्यत् मुक्ता-जालम् इव झट् इति नितरां दिशः प्रयाति । दृश्यताम् ।
If good actions are accumulated over a long period, a clean residence, graceful young women and Lakshmi, Goddess of Wealth brilliant with a white umbrella can all be experienced. If good actions are broken Lakshmi will go in different directions quickly like the beads of pearls slipping away in different directions from a necklace during amorous quarrel.    
--

वियदुपचितमेघं भूमयः कन्दलिन्यः
नवकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कन्ठयन्ति ॥ शृ-९१ ॥
अ: उपचित-मेघं वियत्, कन्दलिन्यः भूमयः, नव-कुटज-कदम्ब-आमोदिनः गन्धवाहाः, शिखि-कुल-कल-केका-राव-रम्याः वन-अन्ताः सुखिनम् असुखिनम् वा सर्वम् उत्कण्ठयन्ति ।
 The sky  covered over with clouds, the earth  covered with new shoots, the wind carrying the fragrance of mountain jasmine and kadamba flowers and forest interiors enchantingly full of shrill sounds of peacocks make everyone, whether happy or unhappy, long for love.

उपरि  घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयति ॥ शृ-९२ ॥
अ: उपरि घन-पटलं घनम्, तिर्यक् अपि नर्तित-मयूराः गिरयः, क्षितिः अपि कन्दल-धवला, पथिकः दृष्टिं क्व पातयति?
Dark mass of clouds are above, hills full of dancing peacocks are all round, the earth white with new shoots is (below); where does (the poor) traveller cast his eyes?

इतो विद्युद्वल्लीविलसितमितः केतकितरोः
स्फुरन्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकीक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥ शृ-९३ ॥
अ: इतः विद्युत्-वल्ली-विलसितम्, इतः केतकि-तरोः स्फुरन्-गन्धः, इतः प्रोद्यत्-जलद-निनद-स्फूर्जितम्, इतः केकी-क्रीडा-कलकल-रवः, पक्ष्मल-दृशां एते सम्भृत-रसाः विरह-दिवसाः कथं यास्यन्ति?
Here is the playfulness of creeper-like lightening; here is the sparkling fragrance of ketaka trees; thither is rumbling of rising clouds; thither  the crackling sound of playful peacocks. How do these nights laden with delight pass of for lovelorn ladies with long eye-lashes?   
--
अथ अवधूतचर्या
(Conduct of those who have renounced the world)
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने ।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम्॥ वै-९१ ॥
अ: शत-खण्ड-जर्जरतरं कौपीनं, कन्था पुनः तादृशी, नैश्चिन्त्यम्, अशनं निरपेक्ष-भैक्षम्, निद्रा श्मशाने (वा) वने, निरङ्कुशं स्वातन्त्र्येण विहरणं स्वान्तं सदा प्रशान्तम्, योग-महा-उत्सवे अपि स्थैर्यं यदि, त्रैलोक्य-राज्येन किम्?
A worn out loin cloth of many pieces, a similar lower garment, state of having no worries, unasked for alms as food, sleeping in a forest or a cemetery, roaming around freely without any restraint, mental peace, stability in deep meditation, if these are there of what use is the suzerainty over the three worlds?

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥ वै-९२ ॥
अ: मण्डली-मात्रं ब्रह्माण्डं मनस्विनः लोभाय किम्? अब्धिः शफरी-स्फुरितेन क्षुब्धः न जायते खलु?
Can the whole universe which is just a province tempt one who has conquered his mind? Does the ocean get disturbed by the rolling of a Shaphari fish?

मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूः
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतैः
भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ वै-९३ ॥
अ: मातः लक्ष्मि! मत्-काङ्क्षिणी मा स्म भूः, भोगेषु स्प्रहयालवः तव वशे (भवन्ति), निःस्पृहाणाम् का असि? सम्प्रति वयं सद्यः-स्यूत-पलाशपत्र-पुटिका-पात्रे पवित्रीकृतैः भिक्षा-वस्तुभिः एव वृत्तिं समीहामहे ।

Mother Lakshmi! Do not aspire for me. There are others under your control who are fond of sensual pleasures. You are nobody for those who have no desires. Now we wish to live on things received as alms sanctified in the just-sewn cups made of Palasha leaves.
- - - -  

No comments:

Post a Comment