Follow by Email

Saturday, December 26, 2015

Bhartrhari's Subhashitas-42

भर्तृहरिशतकत्रयी-४२

गुणवदगुणवद्वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्तेः
भवति हृदयदाही शल्यतुल्यो विपाकः ॥  नी-९५ ॥
अ: गुणवत् अगुणवत् वा कार्य-जातं कुर्वता पण्डितेन यत्नतः परिणतिः अवधार्या । अति-रभस-कृतानां कर्मणां विपाकः आ-विपत्तेः शल्य-तुल्यः हृदय-दाही भवति ।
A wise man has to endure with effort till maturity while doing his works, good or bad. The result of works done in great haste is heart wrenching and painful till one’s end.

स्थाल्यां वैदूर्यमय्यां पचति तिलखलं चान्दनैरिन्धनौघैः
सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कतूलस्य हेतोः ।
छित्वा कर्पूरखण्डान् वृतिमिहकुरुते कोद्रवाणां समन्तात्
प्राप्येमां कर्मभूमिं न भजति मनुजो यस्तपो मन्दभाग्यः ॥ नी-९६ ॥
अ: यः मनुजः इमां कर्म-भूमिं प्राप्य तपः न भजति (सः) वैदूर्यमय्यां स्थाल्यां चान्दनैः इन्धन-ओघैःतिल-खलं पचति । अर्क-तूलस्य हेतोः सौवर्णैः लाङ्गल-अग्रैः वसुधां विलिखति । इह कर्पूर-खण्डान् छित्त्वा  समन्तात् कोद्रवाणां वृतिं कुरुते ।
A person who does not do penance having been born in this land of Karma is cooking sesame floor in a gem-laden vessel using sandal wood as firewood.  He ploughs the earth with a gold-tipped plough for the sake of the fibres of Arka plant. He constructs a fence of Kodrava plant after destroying a plot of Karpura plants.

नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ नी-९७ ॥
अ: पुरुषस्य आकृतिः  एव न फलति, न कुलम् एव, न शीलं, न विद्या एव  न च यत्न-कृता सेवा अपि । पूर्व-तपसा सञ्चितानि भाग्यानि यथा वृक्षाः (फलन्ति) तथा फलन्ति ।
It is not the looks, heritage, character, education or service done with effort, but the good fortune accumulated due to previous penance which gives timely results like trees.
--
असूचीसञ्चारे तमसि नभसि प्रौढजलद-
ध्वनिप्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ शृ-९४ ॥
अ: तमसि अ-सूची-सञ्चारे, नभसि प्रौढ-जलद-ध्वनि-प्राज्ञंमन्ये, पृषतानां च निचये पतति (सति), इदं सौदामन्याः कनक-कमनीयं विलसितं स्वैर-सुदृशां पथि मुदं म्लानिं च प्रथयति ।
When there is darkness where not even a needle could move and clouds feigning scholarship through their rumblings are in the sky, and groups of water drops are falling, this attractive golden lightening brings at once pleasure and pain to ladies on their way to their lovers.
   
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते  ।
जाताः शीकरशीतलाश्च मरुतो रत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ शृ-९५ ॥
अ: आसारेण प्रियतमैः हर्म्यतः बहिः यातुं न शक्यते । शीत-उत्कम्प-निमित्तं आयत-दृशा गाढं समालिङ्ग्यते । शीकर-शीतलाः मरुतः रति-अन्त-खेद-छिदः । धन्यानां प्रिया-सङ्गमे दुर्दिनं सुदिनतां याति, बत ।
Due to torrential rain lovers are not able to go out; they are tightly embraced by the wide-eyed ladies due to the shivering cold; the wind cool like water spray blows to destroy the fatigue caused by romantic dalliance. Hark! For the lucky persons, dark cloudy days turn out to be good days.   

अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितम् कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दपुण्यः ॥ शृ-९६ ॥
अ: निशायाः अर्धं सुप्त्वा सरभस-सुरत-आयास-सन्न-श्लथ-अङ्गः प्रोद्भूत-असह्य-तृष्णः मधु-मद-निरतः विविक्ते हर्म्य-पृष्ठे कर्करीतः सम्भोग-क्लान्त-कान्ता-शिथिल-भुज-लता-आवर्जितं ज्योत्स्ना-अभिन्न-अच्छ-धारं शारदं सलिलं मन्द-पुण्यः न पिबति ।
After having slept half of the night with his body weary of the strain of fast love play and feeling uncontrollable thirst and delighting in the intoxication of liquor it is (only) an unlucky person who does not drink the cool autumnal water flowing like pure moonlight poured by the beloved lady weary and tired of the acts of love play in the lonely upper floors of palaces. 

हेमन्ते दधिदुग्धसर्पिरशना मञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनीजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ शृ-९७ ॥
अ: हेमन्ते दधि-दुग्ध-सर्पिः-अशनाः मञ्जिष्ठ-वासः-भृतः काश्मीर-द्रव-सान्द्र-दिग्ध-वपुषः विचित्रैः रतैः छिन्नाः वृत्त-उरु-स्तन-कामिनी-जन-कृत-आश्लेषाः ताम्बूली-दल-पूग-पूरित-मुखाः धन्याः गृह-अभ्यन्तरे सुखं शेरते ।
In winter having taken food of curds, milk and ghee wearing bright red garments with their bodies smeared with thick saffron paste and feeling exhausted after varied forms of love play, embraced by ladies having heavy round breasts and with their mouths full of betel leaves and areca nut  lucky men sleep inside residences.
--
महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ वै-९४ ॥
अ: पृथ्वी महा-शय्या, भुज-लता विपुलम् उपधानं, आकाशं वितानं च, अयम् अनुकूलः अनिलः व्यजनम्, शरत्-चन्द्रः दीपः, विरति-वनिता-असङ्ग-मुदितः मुनिः अ-तनु-भूतिः नृपः इव सुखी शान्तः शेते ।
The earth is the large bed; creeper-like shoulders are the broad pillows; the sky is the canopy; this pleasant wind is the fan; the autumnal moon is the lamp; happy with abstention and lack of contact with women the sage sleeps happily like a king of ample means.

भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णवसनः सम्प्राप्तकन्थासनो
निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥ वै-९५ ॥
अ: भिक्षा-आशी जन-मध्य-सङ्ग-रहितः स्व-आयत्त-चेष्टः हान-आदान-विरक्त-मार्ग-निरतः रथ्या-कीर्ण-विशीर्ण-वसनः सम्प्राप्त-कन्था-आसनः निर्मानः निरहङ्कृतिः शम-सुख-आभोग-एक-बद्ध-स्पृहः कश्चित् तपस्वी स्थितः ।
There stays some ascetic eating on alms, bereft of interaction with people, having activities totally under his control, busy treading the sage’s path of rejection (of the wrong) and acceptance (of the good), having for his clothing torn clothes thrown on the streets (by others), having a seat of rags, devoid of pride and self-esteem, and solely longing for the joy of tranquillity.

चण्डालः किमयं  द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनै-
र्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ वै-९६ ॥
अ: अयं तापसः किं चण्डालः, अथवा द्विजातिः, अथ शूद्रः किं, वा कः अपि तत्त्व-विवेक-पेशल-मतिः योगीश्वरः किम्, इति उत्पन्न-विकल्प-जल्प-मुखरैः जनैः आभाष्यमाणाः स्वयं न क्रुद्धाः, न एव तुष्ट-मनसः योगिनः पथि यान्ति ।

There go ascetics, neither angry nor happy on their own, while people talk about them endlessly in different ways, “Is he an out- caste or a Brahmin or a Shudra or a great ascetic whose mind is soft due to the realization of the ultimate truth?”
- - - - 

No comments:

Post a Comment