Saturday, July 23, 2016

Varadarajastava of Appayyadikshita-19

वरदराजस्तवः -१९

नाथ त्वदङ्घ्रिनखधावनतोयलग्नाः
तत्कान्तिलेशकणिका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यः
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३ ॥
अ : नाथ ! त्वत्-अङ्घ्रि-नख-धावन-तोय-लग्नाः तत्-कान्ति-लेश-कणिकाः जलधिं प्रविष्टाः । ताः एव तस्य मथनेन घनीभवन्त्यः समुद्र-नवनीत-पदं प्रपन्नाः ।
Lord ! Streaks of lustre of your feet sticking in the water washing your feet joined the ocean and when the ocean was churned they became the butter (moon) arising out of it.

सव्यापसव्यशरमोक्षकृतीक्षुधन्वा
जङ्घे तव स्वशरधी इति सन्दिहानः ।
आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन
न्यस्याभितो निजशराननुरूपभावम् ॥ ५४ ॥
अ : सव्य-अपसव्य-शर-मोक्ष-कृती इक्षु-धन्वा तव जङ्घे स्व-शरधी इति सन्दिहानः अङ्घ्रि-कटक-उद्गत-रुक्-छलेन निज-शरान् अभितः न्यस्य अनुरूप-भावम् आलोकते |
Cupid, who is an adept in shooting arrows from the left and the right doubting that your shanks are his quivers looks for similarity by placing his arrows in the form of rays emanating from the anklets.

जानुद्वयं तव जगत्त्रयनाथ मन्ये
मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकयन्यदवदातमनोज्ञवृत्तं
रूपं निजं कलयते विपरीतमेषः ॥ ५५ ॥
अ : जगत्-त्रय-नाथ ! तव जानु-द्वयं मारस्य केलि-मणि-दर्पणताम् उपेतम् इति मन्ये यत् अवदात-मनोज्ञ-वृत्तम् आलोकयन् एषः निजं रूपं विपरीतं कलयते ।
Lord of the three worlds ! your knees have become mirrors for playing for Cupid, who after looking at your white elegant knees sees his own image in reverse (and thinks himself to be ugly).
- - - -  

No comments:

Post a Comment