Follow by Email

Saturday, November 3, 2012


दधानः प्रेमाणं तरुषु समभावेन विपुलम्
न मालाकारोऽसौ अकृत करुणां बालवकुले ।
अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलैः
दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ३३ ॥
अन्वयः : असौ मालाकारः तरुषु समभावेन विपुलं प्रेमाणं दधानः बाल-वकुले करुणां न अकृत । अयं तु द्राक् उद्यत्-कुसुम-निकराणां परिमलैः दिगन्तान् मधुप-कुल-झङ्कार-भरितान् आतेने ।
This gardener, who shared his immense love towards trees equally did not show compassion at the young Vakula plant. This Vakula plant quickly filled up all the directions with the humming of the swarms of bees through the spread of the fragrance of springing bunches of (its) flowers. [The poet notices that although the gardener has neglected to water a Vakula plant adequately, the plant has brought forth its fragrant bunches of flowers, attracting swarms of bees all around. A parallel human situation like the following comes to the mind of the reader. A student by his own brilliance may shine despite teacher not devoting his attention to the student adequately.]

मूलं स्थूलमतीवबन्धनदृढं शाखाः शतं मांसलाः
वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः किंतु मनागयंजनयति स्वान्ते ममाधिज्वरम्
ज्वालालीवलयीभवन्नकरुणो दावानलो घस्मरः ॥ ३४ ॥
अन्वयः: तरुपते, तव मूलम् अतीव बन्धनदृढं स्थूलं, शतं शाखाः मांसलाः, वासः दुर्गमहीधरे । तव भीतिः कुत्र अस्ति? किंतु अयम् एकः मनाक् मम स्वान्ते आधिज्वरं जनयति:-अकरुणः घस्मरः दावानलः ज्वाला-अली-वलयी-भवन् (अस्ति) ।
O Chief of trees! Your roots are firm and well bonded (to the earth); your hundreds of branches are brawny; you live in a formidable mountain. What fear do you have? Yet I get perturbed in my mind that this gluttonous forest fire is encircling with its chain of flames. [There is someone who can threaten the mighty too.]

ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातकः
त्वां ध्यायन् घनवासरान् कथमपि द्राघीयसो नीतवान् ।
दैवाल्लोचनगोचरेण भवता तस्मिन् इदानीं यदि
स्वीचक्रे करकानिपातनकृपा तत् कं प्रति ब्रूमहे ॥ ३५ ॥
अन्वयः : यः चातकः ग्रीष्मे दिनकृता भीष्मतरैः करैः दग्धः अपि, त्वां ध्यायन् द्राघीयसः घनवासरान् कथमपि नीतवान् । इदानीं तस्मिन् दैवात् लोचनगोचरेण भवता यदि करकानिपातनकृपा स्वीचक्रे तत् कं प्रति ब्रूमहे?
The Chataka bird, somehow spends the long and dense days thinking about you, despite being scalded by the fierce rays of the sun in summer. Now, o cloud! when you are in sight providentially, if you shower him with your kindness in the form of hail stones, whom shall we speak about it? [ Poet laments about the harsh treatment a person gets from a dignitary on whom the former is dependent.]

परि गलितलतानां म्लायतां भूरुहाणाम् ।
अपि जलधर शैलश्रेणिशृङ्गेषु तोयम्
वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३६ ॥

अन्वयः : जलधर! दव-दहन-जटाल-ज्वाल-जाल-आहतानाम् गलितलतानाम् म्लायतां भूरुहाणाम् परि, अपि शैल-श्रेणि-शृङ्गेषु तोयम् बहु वितरसि, तावकीनः कः अयं श्री-मदः?
Cloud! What sort of a haughtiness of wealth do you display that you shower rains copiously on the peaks of mountain ranges while you neglect the parched trees with fallen branches devastated by the flames of swirling forest fire?

शृण्वन् पुरः परुषगर्जितमस्य हन्त
रे पान्थ विस्मितमना न मनागपि स्याः ।
नाकर्णितः किमु सखे भवताम्बुवाहः ॥ ३७ ॥
अन्वयः : रे पान्थ! अस्य परुषगर्जितम् पुरः शृण्वन्, मनाक् अपि न विस्मितमना स्याः । हन्त, सखे! भवता अयम् अम्बुवाहः विश्वार्ति-वारण-समर्पित-जीवितः (इति) न किमु आकर्णितः?
Dear traveler! Do not get disturbed even to the slightest extent hearing the harsh sound of this (cloud). Alas, friend! Have you not heard (of the fact) that the cloud’s life is dedicated to the cause of preventing the suffering of this world? [ One should not judge a person by the tone of his voice.]

सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरम्
कीर्तिः किं च दिगङगनाङ्गणगता किन्त्वेतदेकं शृणु ।
सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरान्
उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ३८ ॥
अन्वयः : श्रीखण्ड! ते सौरभ्यं भुवनत्रये अपि विदितं, शैत्यं तु लोकोत्तरम्, किं च कीर्तिः दिगङ्गना-अङ्गण-गता । किन्तु एतत् एकं शृणु । ते सुन्दरान् एव गुणान् इयं द्विजिह्वावली कोटरेषु गरलज्वालां उज्झन्ती निगिरति ।
Sandal tree! Your fragrance is known through out the three worlds. Your coolness is extraordinary. Your fame has spread in all directions. But listen to this one thing. Groups of snakes emitting flames of poison in (your) hollows swallow all your good qualities. [The poet employs the myth of snakes living in the hollows of sandal wood tree to bring home the truth that one blemish will eclipse a whole lot of good qualities. This is in contrast to Kalidasa’s well known statement: एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः|  Poets generalize on what suits the occasion! ]
नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः ।
तथापि हरते तापं लोकानामुन्नतो घनः ॥ ३९ ॥
अन्वयः : न अपेक्षा, न च दाक्षिण्यम्, न प्रीतिः, न च सङ्गतिः (अस्ति) । तथापि लोकानाम् उन्नतः घनः तापं हरते ।
It has no desire (for anything); it has no agreement (with any one); it has no love (towards any one); it has no companionship (with any one). Even then, staying well above all, the cloud (the great) removes distress. [By raining all over, clouds remove distress of all living beings, without any expectations.]

समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसतिः
विलासः पद्मायाः सुरहृदयहारी परिमलः ।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ४० ॥
अन्वयः : अम्बुज! तव समुत्पत्तिः स्वच्छे सरसि, निवसतिः हरिहस्ते, , परिमलः सुरहृदयहारी । (त्वं) पद्मायाः विलासः । एतैः अन्यैः अपि च गुणैः ललितस्य तव द्विजोत्तंसे हंसे यदि रतिः (भवेत्), इयम् अतीव उन्नतिः ।
O Lotus! Your origin is a clean lake; your dwelling is the hand of Vishnu; your fragrance steals the hearts of divine beings. You are the abode of Goddess Lakshmi. You are charming endowed by these and other qualities. If you get interested in the swan which is best among birds, it would be indeed great. [The use of words द्विजोत्तंस and हंस suggest a realized soul among Brahmins. The poet perhaps addresses through this अन्योक्ति a cultured and well known king suggesting that it would be appropriate if he cultivates the company of a specific great realized soul.]
- - - - 

No comments:

Post a Comment