Saturday, December 8, 2012

Bhamini vilasah-11

भामिनीविलासः-११
आपद्गतः किल महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्तात्
लोकोत्तरं परिमलं प्रकटीकरोति ॥ ७० ॥
अन्वयः : माहाशयचक्रवर्ती आपद्गतः उदारभावम् अकृतपूर्वं विस्तारयति किल । कालागुरुः दहनमध्यगतः लोकोत्तरं परिमलं समन्तात् प्रकटीकरोति ।
A great man displays large heartedness in a manner hitherto not seen when he is in difficulties. The black aguru exhibits extraordinary fragrance all around when amidst fire.


विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकम्पृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ७१ ॥
अन्वयः : विश्व-अभिराम-गुण-गौरव-गुम्फितानाम् निर्मलधियां रोषः अपि रमणीयः एव । लोकम्पृणैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुता अपि नितान्त-रम्या ।
Even anger of persons of pure mind whose abundance of lofty virtues charms the world is pleasant only. Even the pungency of saffron which is full of fragrances that delight the world is very pleasing.


लीलालुण्ठितशारदापुरमहासंपन्नराणां पुरः
विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत् पामराः ।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥ ७२ ॥
अन्वयः : विद्या-सद्म-विनिर्गलत्-कण-मुषः पामराः लीला-लुण्ठित-शारदापुर-महा-सम्पत्-नराणां पुरः वल्गन्ति चेत्, अद्य श्वः शकुन्त-शिशवः फणिनां मूर्धसु शशाः दन्तावलानां मुर्धसु शालावृकाः सिंहानां मुर्धसु सुखेन पदं धास्यन्ति ।
If the ordinary folk who have stolen a few particles emanating from the repositories of knowledge stroll in front of  persons who have easily looted the riches of the city of scholarship, today or tomorrow baby birds will put their foot with ease on the heads of snakes, hares on the heads of elephants and dogs on the heads of lions! [Persons of limited knowledge should not try to show off in front of the really learned.]


गीर्भिर्गुरूणां परुषाक्षराभिः तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥ ७३ ॥
अन्वयः : गुरूणां परुषाक्षराभिः गीर्भिः तिरस्कृता नरा महत्त्वं यान्ति । अलब्ध-शाण-उत्कषणा मणयः नृपाणां मौलौ न वसन्ति जातु ।
Persons who have been rebuked through harsh words by their preceptors attain greatness. At no time do gems which have not been rubbed by the whetstone adorn the heads of kings.


वहति विषधरान् पटीरजन्मा
शिरसि मषीपटलं दधाति दीपः ।
विधुरपि भजतेतरां कलङ्कं
पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ७४ ॥
अन्वयः : पटिरजन्मा विषधरान् वहति; दीपः मषीपटलं दधाति; विधुः अपि कलङ्कं भजतेतराम्; क्षितीन्द्राः पिशुनजनं बिभ्रति खलु ।
Sandal tree carries snakes; lamp carries a coating of lamp-black at its top; even moon carries a black mark; great kings do support slanderers.


 सत्पूरुषः खलु हिताचरणैरमन्दम्
आनन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारैः
इन्दुर्विकाशयति कैरविणीकुलानि ॥ ७५ ॥
अन्वयः : सत्पूरुषः अखिललोकम् अनुक्त एव हिताचरणैः अमन्दम् आनन्दयति खलु । इन्दुः केन आराधितः कैरविणीकुलानि उदारैः करैः विकाशयति?
A good person delights the whole world by his comforting actions without being told (prompted). Worshiped by whom does the moon open up the groups of blue lotuses with his generous rays?


कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम् ।
प्रत्युत हन्तुं यतते काकोदरसोदरखलो जगति ॥ ७६ ॥
अन्वयः : जगति काकोदर-सोदर-खलः कृतं महोपकारं पय इव पीत्वा  प्रत्युत निरातङ्कं हन्तुं यतते ।
In this world the wicked, who is like the brother of a serpent, drinks like milk (benefits from) the great help done to him and without any compunction tries to kill (harm).
- - - - 

No comments:

Post a Comment