Follow by Email

Saturday, December 1, 2012

Bhamini vilasah-10

भामिनीविलासः-१०
नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी
वासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः ।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह
त्वं चेत् प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥ ६३ ॥
अन्वयः : अम्भोरुह! जनिः निर्मलतः जलात्; मधुरता वामा-मुख-स्पर्धिनी; यस्य वासः हरेः करे; परिमलः गीर्वाण-चेतो-हरः; तत् महाकविगिरां कामस्य च सर्वस्वम्; अहो, त्वं मधुपे प्रीतिम् उरीकरोषि चेत् तत् त्वां किम् आचक्ष्महे ।
O lotus! (Your) birth is from clear water; your sweetness(beauty) competes with that of a beautiful lady; your dwelling is the hand of Vishnu; your fragrance captivates even the divine beings; All that (your attributes) is the property of  the great poets and the God of love; If you admit of love to a bee, what can we say? [You are so great. If you show warmth to a mere bee what can we say?]



लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्द्धते वैरम् ॥ ६४ ॥
अन्वयः : करिनायक! लीला-मुकुलित-नयनं सुखशयनं किं समातनुषे? परिणाम-विषम-हरिणा वैरं वर्धते ।
O Chief of elephants! How do you sleep comfortably with your eyes playfully closed? Enmity with the lion who can lead you to an unsavoury end is increasing. [The poet seems to be cautioning a king who was ignoring his enemy for long.]



विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६५ ॥
अन्वयः : वाचः विदुषां वदनात् सहसा बहिः नो यान्ति ।  याताः चेत् द्विरदानां रदा इव न पराञ्चन्ति ।
Words do not come out of the mouth of scholars suddenly. And if they come out, like the tusks of elephants they do not turn back. [Scholars will not retract what they say after deliberation.]


औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेः
वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोः गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥ ६६ ॥
अन्वयः : औदार्यं भुवनत्रये अपि विदितम्; सम्भूतिः अम्भोनिधेः; नन्दनकानने वासः; परिमलः गीर्वाण-चेतो-हरः; अर्थि-प्रवर-अर्थित-अर्पण-विधौ  विवेकः यदि स्यात्, एवं दातृ-गुरोः सुर-तरोः सर्वे अपि गुणाः लोकोत्तराः (स्युः) ।
(Its) generosity is renowned over the three worlds; (its) origin is the ocean; (its) dwelling place is the Nandana garden; (its) fragrance captivates the minds of the divine beings; All these qualities of the Divine-tree (kalpavrksha), which is the preceptor of all donors, would have been outstanding in the world if only there had been discrimination in the method of granting the wishes of the supplicants. [The poet stresses the need for discrimination in meeting the requirements of supplicants by criticizing the divine-tree which is supposed to fulfill all wishes.]


एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनाम्
इत्येवं परिचिन्त्य मा स्वमनसि व्याधाऽनुतापं कृथाः ।
भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खलाः ॥ ६७ ॥
अन्वयः : व्याध! अहम् एकः अपघृणः विश्वसतां प्राणिनां प्राणान् हरामि इति एवं परिचिन्त्य स्वमनसि अनुतापं मा कृथाः । त्वत्तुल्यकक्षाः खलाः साधूनाम् अरयः गूढाशयाः भूपानां भवनेषु किं च विमलक्षेत्रेषु कति नो वसन्ति?
O hunter! Do not grieve in your mind by thinking, “I am the only one without compassion, who takes the lives of animals who repose trust. “
How many are not there in the palaces of kings and in holy places who are equal to you in deceit, who are enemies of the virtuous and who have secret longings? [ A satirical verse about the type of people  who move around kings and in holy places.]


विश्वास्य मधुरवचनैः साधून् ये वञ्चयन्ति नम्रतमाः ।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६८ ॥
अन्वयः : मातः काश्यपि! ये नम्रतमाः साधून् मधुरवचनैः विश्वास्य वञ्चयन्ति, तानपि दधासि । तव अपि विवेकः च यातः ।
Mother earth! You support even those who, bent low, cheat the virtuous by their sweet words. You have also lost the power of discrimination also.


अन्या जगद्धितमयी मनसः प्रवृत्तिः अन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या विद्यावतां सकलमेव गिरां दवीयः ॥ ६९ ॥
अन्वयः : मनसः प्रवृत्तिः जगद्-हितमयी अन्या; वचनावलीनाम् रचना का अपि अन्या; कृतिः लोकोत्तरा; आकृतिः आर्तहृद्या; विद्यावतां सकलम् एव गिरां दवीयः ।
Everything of the educated is far beyond words. Their mental outlook which comforts the whole world is special; their way of speech is indescribably different; their actions are extra-ordinary; their form is pleasing to the afflicted. [The poet now changes over to wise sayings.]
- - - -

No comments:

Post a Comment