Follow by Email

Saturday, December 15, 2012

Bhamini vilasah-12

भामिनीविलासः-१२
खलः कापट्यदोषेण दूरेणैव विसृज्यते ।
अपायशङ्किभिर्लोकैः विषेणाशीविषो यथा ॥ ७७ ॥
अन्वयः : खलः अपायशङ्किभिः लोकैः कापट्यदोषेण आशीविषः विषेण यथा दूरेण एव विसृज्यते ।
A wicked person is avoided from a distance because of his defect of being deceitful by persons who are afraid of danger just as a snake is avoided because of its venom.


पाण्डित्यं परिहृत्य यस्य हि कृते बन्दित्वमालम्बितम्
दुष्प्राप्यं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः ।
रूढस्तत्र स चेन्निगीर्य सकलां पुर्वोपकारावलीम्
दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥ ७८ ॥
अन्वयः : यस्य हि कृते पाण्डित्यं परिहृत्य बन्दित्वम् आलम्बितम्, यः मनसापि दुष्प्राप्यं पदं गुरुतरैः क्लेशैः प्रापितः, सः दुष्टः तत्र रूढः सकलां पूर्वोपकारावलीं निगीर्य अवतिष्ठते चेत्  तत् अधुना कस्मै किम् आचक्ष्महे ।
For the sake of a person one set aside all the scholarship and became a bard and one got him a position which could not even be thought of. If after getting established in the position that wicked person devours (forgets) all the past help given to him, what shall we say to whom?  [The poet laments the attitude of an ungrateful person.]


परार्थव्यासङ्गादुपजहदपि स्वार्थपरताम्
अभेदैकत्वं यो वहति गुणभूतेषु सततम् ।
स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७९ ॥
अन्वयः : यः परार्थव्यासङ्गात् स्वार्थपरताम् उपजहत् अपि गुणभूतेषु सततं अभेदैकत्वं वहति, यस्य अन्तः स्वभावात् ललितोदात्तमहिमा स्फुरति, यः नित्यं समर्थः सः कः अपि पुरुषः जयतितराम् ।
That extraordinary person indeed thrives who in association with others, without sacrificing ones own interests, shows a sense of oneness with those full of good qualities, who internally by nature shines with the quality of being charmingly liberal and who is always capable. [By the use of words that are associated with the technical description of a तत्पुरुष compound in Sanskrit grammar, the poet tries to bring out a parallel meaning. तत्पुरुष is a compound where the last member is qualified by its preceding member without losing its own meaning. Details are not of much interest to the general reader.]


वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।
न हि तूंबीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ ८० ॥
अन्वयः : वंशभवः गुणवान् अपि पुरुषः सङ्गविशेषेण पूज्यते । तूम्बीफलविकलः वीणादण्डः महिमानम् न प्रयाति हि ।
A person who is of good descent [वंशभवः] and has good qualities [गुणवान्] is honored if he is associated with the right persons. The beam of Veena (musical instrument) made of bamboo [वंशभवः] and has strings [गुणवान्] will get its respect only in association with the gourd fruit. [ A veena beam made of bamboo with strings across it will make musical sounds only when a spherical dried gourd is attached to it. The poet uses the figure of speech श्लेष to bring out similarity.]  


अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ८१ ॥
अन्वयः : पदार्थः अमितगुणः अपि निखिलरसायनमहितः अपि लशुनः उग्रेण गन्धेन इव निन्दितः भवति ।
An object of considerable benefit becomes rejected because of a single blemish like garlic which although praised as a total elixir becomes rejected because of its strong smell. [The point of view given in Verse 38 is repeated here.]


उपकारमेव तनुते विपद्गतः सद्गुणो नितराम् ।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ८२ ॥
अन्वयः : सद्गुणः विपद्गतः नितरां उपकारमेव तनुते । अत्र पारदः रसः मूर्च्छां गतः मृतः वा (उपकारम् एव तनुते इति) निदर्शनम् ।
A person of virtue does good even when he is subjected to difficulties just as mercury is useful even when it is heated for oxidizing it. [ मूर्च्छितः and मृतः are technical terms used with reference to chemical reduction of mercury.  ]



वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुः भजति भयहर्तुः सपदि या ।
अहो सेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ८३ ॥
अन्वयः : या वनान्ते खेलन्ती शशकशिशुम् आलोक्य चकिता भयहर्तुः भर्तुः भुजप्रान्तं सपदि भजति सा इयम् सीता दशवदननीता हलरदैः रक्षोभिः परीता विवशा काम् अपि दशाम् श्रयति (इति) अहो ।
This Seeta, who got frightened and quickly reached the shoulders of her husband, who could remove her fear when she got frightened by seeing a baby hare while she was playing in the middle of the forest is now, after being brought by Ravana, helpless and has reached an indescribable state surrounded by demons who have plough-like teeth. What a pity! [The poet laments the fate that befell Seeta.]
- - - - 

No comments:

Post a Comment