Follow by Email

Saturday, February 23, 2013

Bhamini vilasah-22

भामिनीविलासः-२२
हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती ।
प्रियनामपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥ २६ ॥
अन्वयः : इयं हृदये कृतशैवलानुषङ्गा मुहुः अङ्गानि यतः ततः क्षिपन्ती सखीनां प्रिय-नाम-परे मुखे अतिदीनां दृष्टिं आदधाति ।
Keeping the chest close to green moss and throwing her limbs here and there often, this lady throws her piteous looks at her lady-friends. [Perhaps green moss is kept close to chest as a coolant.]



इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः ।
परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥ २७ ॥
अन्वयः : इतः एव निजालयं गतायाः गुरुभिः समावृतायाः वनितायाः परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ।
I recall the lotus-like smiling face of (my) lady with her neck turned, her eye brows bent low, as she departed from here only to her house surrounded by her elders.


कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वाता कृतान्ताः ।
अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलौ
चुलुकयति मदीयां चेतनां चञ्चरीकः ॥ २८ ॥
अन्वयः : कृतान्ताः वाताः मलयभुजगवान्ता वान्ति; अयं चञ्चरीकः अपि माकन्दमौलौ मञ्जु गुञ्जन् मदीयां चेतनां चुलुकयति खलु; कथम् इव मे जीविते आशा जायताम्; कथय ।
Death-like winds blow as if they are the exhalations of snakes of Malaya mountain. Even this bumble bee pleasantly buzzing at the top of the mango tree makes my heart muddy. Tell me, what hope can I have in my living? [Outpourings of a love-sick young person.]



निरुध्य यान्तीं तरसा कपोतीं कूजत्-कपोतस्य पुरो दधाने।
मयि स्मितार्द्रं वदनारविन्दं शनैः शनैः सा नमयाम्बभूव ॥ २९ ॥
अन्वयः : (कपोतं) निरुध्य तरसा यान्तीं कपोतीं कूजत्-कपोतस्य पुरः मयि दधाने, सा स्मितार्द्रं नयनारविन्दं शनैः शनैः नमयाम्बभूव ।
When I brought before the cooing male dove the female dove which was going away from the male dove after restraining it, she (my lady love) slowly bent her smile-moistened lotus-like eyes low.



तिमिरं हरन्ति हरितः पुरः स्थिता
तिरयन्ति तापमथ तापशालिनाम् ।
वदनत्विषतव चकोरलोचने
परिमुद्रयन्ति सरसीरुहश्रियः ॥ ३० ॥
अन्वयः : चकोरलोचने! तव वदनत्विषः पुरः स्थिताः हरितः तिमिरं हरन्ति, अथ तापशालिनां तापं तिरयन्ति, सरसीरुहश्रियः परिमुद्रयन्ति ।
O damsel with eyes like chakora birds! In front of the radiance of your face  darkness all round gets dispelled, the distress of the distressed vanishes and the luster of the lotus gets enveloped.



कुचकलशयुगान्तर्मामकीनं नखाङ्कं
सपुलकतनु मन्दं मन्दमालोकमाना ।
विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
चकिततनु नताङ्गी सद्म सद्यो विवेश ॥ ३१ ॥
अन्वयः : बाला मामकीनं नखाङ्कं कुचकलशयुगान्तः सपुलकतनु मन्दं मन्दम् आलोकमाना गवाक्षे विनिहितवदनं मां वीक्ष्य चकिततनुः नताङ्गी सद्यः सद्म विवेश ।
While she was, with horripilation, slowly looking at the nail-marks made by me in between her breasts, noticing my face at the window, she got startled and went into the chambers with her body bent.


विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना ।
तन्वी तदानीमतुलां बलारेः साम्राज्यलक्ष्मीमधरीचकार ॥ ३२ ॥
अन्वयः : तन्वी हृदये शयाना कपोलमूलं मद्वदनानुकूलं विधाय तदानीम् बलारेः अतुलां साम्राज्यलक्ष्मीम् अधरीचकार ।
As my slender lady lay down on my chest keeping her cheek (touching my body) to suit me, she lowered the grandeur of Indra’s royal pleasures.



मुहुरर्थितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः ।
चिबुकं सुदृशः स्पृशामि यावन्मयि तावन्मिहिरोऽपि निर्दयोऽभूत् ॥ ३३ ॥
अन्वयः: मे अद्य मुहुः अर्थितया निद्रया चरमे यामे (गते) निवेदितायाः सुदृशः चिबुकं यावत् स्पृशामि तावत् मिहिरः अपि मयि निर्दयः अभूत् ।
While the last part of this night elapsed as I kept parying for sleep, no sooner did I touch (in the dream) the cheeks of my lady of beautiful eyes whose presence I had prayed for, than the sun also became unkind to me. How cruel! [ There was sun-rise as he touched his beloved’s cheeks in the dream and the dream broke.]



श्रुतिशतमपि भूयः शीलितं भारतं वा
विरचयति तथा नो हण्त सन्तापशान्तिम् ।
अपि सपदि यथायं केलिविश्रान्तकान्ता-
-वदनकमलवल्गत्कान्तिसान्द्रो नकारः ॥ ३४ ॥
अन्वयः : अयं केलि-विश्रान्त-कान्ता-वदन-कमल-वल्गत्-कान्ति-सान्द्रः नकारः यथा सपदि सन्तापशान्तिं विरचयति तथा भूयः शीलितं श्रुतिशतम् अपि भारतं वा नो (विरचयति)।
Not even the repeated studying of hundreds of Vedas or Mahabharata could allay my distress the way the word, “No” from the lotus-like shaking lustrous mouth of my beloved tired of amourous plays could.



लवलीं तव लीलया कपोले कवलीकुर्वति कोमलत्विषा ।
परिपाण्डुरपुण्डरीकखण्डे परिपेतुः परितो महाधयः ॥ ३५ ॥
अन्वयः : तव कपोले कोमलत्विषा लवलीं लीलया कवलीकुर्वति, परिपाण्डुर-पुण्डरीक-खण्डे महाधयः परितः परिपेतुः ।
While your cheek easily swallowed the Lavali flower by its soft luster, now anxiety has fallen all round on fully white lotus. [ The lustre of your cheek has conquered Lavali and is now trying to conquer white lotus too.] 
- - - - 

No comments:

Post a Comment