Follow by Email

Saturday, July 13, 2013

Bhaminivilasah-42

भामिनीविलासः-४२
मन्दस्मितेन सुधया परिषिच्य या मां नेत्रोत्पलैर्विकसितैरनिशं समीट्टे ।
सा नित्यमङ्गलमयी गृहदेवता मे कामेश्वरी हृदयतो दयिता न याति ॥ १२ ॥
अन्वयः : या मां मन्दस्मितेन सुधया परिषिच्य विकसितैः नेत्रोत्पलैः अनिशं समीट्टे दयिता सा मे नित्यमङ्गलमयी गृहदेवता मे हृदयतः न याति ।
My beloved who was the queen of my house, who is full of auspiciousness,  who commands all my desires and who sprinkles me with ambrosia-like smiles and who worships me all the time through blossomed lotus-like glances does not leave my heart.


भूमौ स्थिता रमण नाथ मनोहरेति सम्बोधनैर्यमधिरोपितवत्यसि द्याम् ।
स्वर्गं गता कथमिव क्षिपसि त्वमेणशावाक्षि तं धरणिधूलिषु मामिदानीम् ॥ १३ ॥
अन्वयः : भूमौ स्थिता रमण नाथ मनोहर इति सम्बोधनैः यं द्याम् अधिरोपितवती असि, (सा) त्वं स्वर्गं गता इदानीं मां धरणिधूलिषु कथम् इव क्षिपसि?
Doe-eyed lady! How is it that You, who, while on earth, raised me to the sky by calling me my beloved! my lord! and enchanter!, having gone to heaven have thrown me to the dirt laid soil?


लावण्यमुज्ज्वलमपास्ततुलं च शीलं लोकोत्तरं विनयमर्थमयं नयं च ।
एतान् गुणानशरणानथ मां च हित्वा हा हन्त सुन्दरि कथं त्रिदिवं गतासि ॥ १४ ॥
अन्वयः : सुन्दरि! उज्ज्वलं लावण्यम्, अपास्ततुलं शीलं च, लोकोत्तरं विनयम्, अर्थमयं नयं च, एतान् अशरणान् गुणान् अथ मां च हित्वा हा हन्त कथं त्रिदिवं गता असि ।
Beautiful lady! Leaving behind brilliant beauty, incomparable character, extraordinary humility, and meaningful behavior and me also shelter-less how is it you have gone away to the other world?


कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् ।
चेतोहरामपि कुशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ॥ १५ ॥
अन्वयः : कुशेशयलोचने! कोपकलुषः दहनः परया शुद्ध्या सुवर्णवरया कान्त्या स्विकाः शिखाः परितः क्षिपन्तीं चेतोहराम् अपि त्वां ददाह (इति) जानामि ।
Lotus-eyed lady! Angered by the fact that your extraordinary pure luster was sending away its flames all over, the angry Fire-god burnt you, despite your attractiveness.


कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कंठसुखैकहेतुः ।
चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥ १६ ॥
अन्वयः : सा कर्पूरवर्तिः इव लोचनतापहन्त्री फुल्ल-अम्बुज-स्रक् इव कंठसुखैकहेतुः, रम्या कविता इव चेतश्चमत्कृतिपदं, अमरी इव नरीभिः नम्या विरेजे ।
 She removed the distress in the eye like a wick of camphor, she was the sole cause of comfort to my neck like a garland of blossomed lotuses, like beautiful poetry she captivated my mind, like divine damsels she shone being worthy of obeisance.


स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्टवत्यसि न कञ्चन साभिलाषम् ।
सा सम्प्रति प्रचलितासि गुणैर्विहीनं प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥ १७ ॥
अन्वयः : भामिनि! स्वप्नान्तरे अपि पत्युः अन्यं कञ्चन साभिलाषं न दृष्टवती असि, सा सम्प्रति गुणैः विहीनं परं पुमांसम् प्राप्तुं प्रचलिता असि ?
My dear lady! How is it that you, who did not look at a person other than your husband with desire even in the middle of a dream, have now gone to attain Parampurush (another man) who has no attributes, nirgun(is characterless)?  [ Using श्लेष the poet brings out an apparent contradiction.]

दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् ।
अधुना किल हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥ १८ ॥
अन्वयः : संप्रति या शयने दयितस्य गुणान् अनुस्मरन्ती विलोकिता आसीत्, सा कृशाङ्गी अधुना भाषिता अपि गिरं न अङ्गीकुरुते किल, हन्त।
The tender-limbed lady who, laid up in bed, was seen remembering her beloved’s qualities is not uttering a word even when spoken to, alas!


रीतिं गिराममृतवृष्टिकरीं तदीयां तां चाकृतिं कविवरैरभिनन्दनीयाम् ।
लोकोत्तरामथ कृतिं करुणारसार्द्रां स्तोतुं न कस्य समुदेति मनःप्रसादः ॥ १९ ॥
अन्वयः : तदीयां अमृतवृष्टिकरीं रीतिं, कविवरैः अभिनन्दनीयाम् आकृतिं च, अथ लोकोत्तरां करुणारसार्द्रां कृतिं च स्तोतुं कस्य मनःप्रसादः न समुदेति?
Who does not feel elated to praise her conduct which would rain ambrosia, her form worthy of being praised by great poets and her extraordinary actions full of compassion?

॥ इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे करुणा नाम तृतीयः विलासः ॥

Thus ends the third section called “compassion” in Bhaminivilasa authored by the king of Scholars Jagannatha.
- - - - 

No comments:

Post a Comment