Follow by Email

Saturday, July 4, 2015

Bhartruhari's Shatakas-8

भर्तृहरिसुभाषितत्रिशती-८

जाड्यं धियो हरति सिञ्चति वाचि सत्यम्
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति  दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय किन्न करोति पुंसाम् ॥ नी-१९ ॥
अ: सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मान-उन्नतिं दिशति, पापम् अपाकरोति, चेतः प्रसादयति, दिक्षु कीर्तिं तनोति। (सत्सङ्गतिः) पुंसां किम् न करोति, कथय  ।
Company of the virtuous persons removes the lethargy of mind, soaks speech with truth, guides for attaining higher respect, cancels the past sin, freshens mind and spreads fame in all directions. Tell, what is it that it cannot do?

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति तेषां यशःकाये जरामरणजं भयम् ॥ नी-२० ॥
अ: सुकृतिनः रस-सिद्धाः ते कवीश्वराः जयन्ति । तेषां यशः-काये जरा-मरण-जं भयम् नास्ति । 
The blessed great poets who have attained the mastery of sentiments flourish. There is no fear of death or old age to their body of fame.

अथ मानशौर्यपद्धतिः
Section on valour of self respect

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि ।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ नी-२१ ॥
अ: मान-महताम् अग्रेसरः केसरी क्षुत्-क्षामः अपि, जरा-कृशः अपि, शिथिल-प्रायः अपि, कष्टां दशाम् आपन्नः अपि, विपन्न-दीधितिः अपि, प्राणेषु नश्यत्सु अपि, मत्त-इभ-इन्द्र-विभिन्न-कुम्भ-पिशित-ग्रास-एक-बद्ध-स्पृहः जीर्णं तृणम् अत्ति किम्?
Does a lion which stands tall among those valuing self respect and which is solely desirous of a mouthful of meat of the temple of an elephant  in rut eat withered grass even if it (the lion) is weak due to old age, well nigh tottering, is in difficult circumstance, has lost its lustre with its life ebbing out?
 --
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत-
प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः । 
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ शृ-१९  ॥
अ: इमे मृगदृशां तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरत-प्रताप-प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः चिरं चेतःचोराः अभिनव-विकार-एक-गुरवः विलास-व्यापाराः किमपि विजयन्ते ।
These playful activities of doe-eyed girls which are the fragrances of youthful lustre, the beginnings of adult sexual valour, which act as surety for giving victory to cupid, which steal the minds for long, and which are laden with novel alterations flourish in an un-definable manner.

प्रणयमधुरा प्रेमोदारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनो
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ शृ-२० ॥
अ: मृगीदृशां रहसि स्वैर-आलापाः प्रणय-मधुराः प्रेम-उदाराः रस-आश्रयतां गताः, फणिति-मधुराः मुग्ध-प्रायाः प्रकाशित-सम्मदाः प्रकृति-सुभगाः विस्रम्भ-आर्द्राः स्मर-उदय-दायिनः किम् अपि हरन्ति ।
The private care-free utterances of doe-eyed girls sweet with affection, generously loving and replete with the sentiment of love, sweet to hear, well-nigh innocent, expressing exhilaration, lovely by nature, soft with feelings of love and arousing desire in others are attractive in an inexpressible way.
अथ सम्भोगवर्णनम्
(Description of successful love)
विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेन करोद्धतेन
निवारयन्ती शशिनो मयूखान् ॥ शृ-२१ ॥
अ: काचित् तन्वी कर-उद्धतेन स्तन-उत्तरीयेन शशिनः मयूखान् निवारयन्ती वनद्रुमाणां छायासु विश्रम्य विश्रम्य विचचार ।
A slender lady walked in the shades of forest trees resting frequently while warding off the rays of the moon by raising in hand the bosom-covering garment.
--
तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं
प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः ॥ वै-१९ ॥
अ: जनः आस्ये तृषा शुष्यति शीत-मधुरं सलिलं पिबति; क्षुधा-आर्तः मांस-आदि-कलितं शाली-अन्नं कवलयति; काम-अग्नौ प्रदीप्ते वधूं सुदृढतरम् आलिङ्गति;  व्याधेः प्रतीकारं सुखम् इति विपर्यस्यति ।
A person drinks water which is sweet and cold when the mouth gets dried up due to thirst; afflicted by hunger he eats cooked rice mixed with meat etc; when the fire of carnal desire is aflame he embraces his bride tightly; he mistakes as happiness a palliative for a disease.

तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः सम्पदः
कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः ।
मत्वा विश्वमनश्वरं निविशते संसारकारागृहे
सन्दृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ वै-२० ॥
अ: अज्ञान-मूढः जनः तुङ्गं वेश्म, सताम् अभिमताः सुताः, सम्पदः संख्या-अतिगाः, दयिता कल्याणी, नवं वयः,  विश्वम् अनश्वरं मत्वा संसार-कारागृहे निविशते । धन्यः तत् अखिलं क्षण-भङ्गुरम् सन्दृश्य सन्न्यस्यति ।
A person gone astray by ignorance stays in the prison house of family entanglement believing that a lofty mansion, sons admired by the virtuous, un-countable wealth, a beloved worthy of honour, youth and this world are all permanent. A blessed person relinquishes them realizing that all that is perishable in a second.

अथ याच्ञादैन्यदूषणम्
(Criticizing begging and meanness)
दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ वि-२१ ॥
अ: दीन-मुखैः क्षुधितैः क्रोशद्भिः शिशुकैः सदा एव आकृष्ट-जीर्ण-अम्बरा दीना निरन्न-विधुरा गेहिनी दृश्या न चेत्, कः मनस्वी पुमान् स्व-दग्ध-जठरस्य  अर्थे याच्ञा-भङ्ग-भयेन गद्गद-गलत्-त्रुटत्-विलीन-अक्षरं  देहि इति वदेत् ।
If there were no house-wife looking wretched and miserable for want of food with crying hungry children having miserable faces tugging at her old garment, which respectable person begs for food just for the sake of his own burning stomach in broken halting stammering words with the fear that his request may be turned down?  
- - - -

No comments:

Post a Comment