Follow by Email

Saturday, July 18, 2015

Bhartruhari's Shatakas-10

भर्तृहरिशतकत्रयी-१०

कुसुमस्तबकस्येव द्वयी वृत्तिः मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ नी-२५ ॥
अ:मनस्विनः वृत्तिः कुसुम-स्तबकस्य इव द्वयी; सर्वलोकस्य मूर्ध्नि (शोभते)वा वने एव शीर्यते ।
Mode of conduct of the wise is of two kinds like that of a bunch of flowers, either assuming its position at the head of all or languishing in a forest.

सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषाः
तान्प्रत्येष विशेषविक्रमरुची राहुर्नवैरायते ।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ
भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ नी-२६ ॥
अ: भ्रातः पश्य, बृहस्पति-प्रभृतयः अन्ये अपि संभाविताः पञ्चषाः सन्ति; एषः विक्रम-रुची दानव-पतिः राहुः तान् प्रति न वैरायते; शीर्ष-अवशेष-आकृतिः पर्वणि भास्वरौ दिवाकर-निशा-प्राण-ईश्वरौ द्वौ एव ग्रसते ।
Look, brother. There are others like Jupiter, five or six in number who are (equally) respected; this chief of demons, Rahu, who is fond of being valorous does not show enmity towards them; with only his head remaining in his form he swallows the bright sun and the bright moon during the full moon and the new moon. 
  
वहति भुवनश्रेणिं शेषः फणाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।
तमपि कुरुते क्रोडाधीनं पयोधिरनादरात्
अहह महतां निःसीमानश्चरित्रविभूतयः ॥ नी-२७ ॥
अ: शेषः फणा-फलक-स्थितां भुवन-श्रेणिं वहति; सः च कमठ-पतिना मध्ये-पृष्ठं धार्यते च ; पयोधिः तम् अपि अनादरात् क्रोड-अधीनं कुरुते; महतां चरित्र-विभूतयः निःसीमानः, अहह ।
Adisesha carries the whole set of worlds on his broad and flat hood; he is carried by the great tortoise on its back; the ocean nonchalantly carries it in its hollows. The manifestations of the conduct of the great are really boundless. What a wonder!
--
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिदुन्मीलितानाम्  ।
उपरिसुरतखेदस्विन्नगण्डस्थलानाम्
अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ शृ-२५ ॥
अ: भाग्यवन्तः उरसि निपतितानां, स्रस्त-धम्मिल्लकानां, मुकुलित-नयनानां, किञ्चित् उन्मीलितानां, उपरि-सुरत-खेद-स्विन्न-गण्डस्थलानाम् वधूनां अधर-मधु पिबन्ति ।
The fortunate drink the sweet lips of their young wives who have fallen on their chests with their braided hair slipping away, with their eyes closed like a bud but ever slightly opened and with their temples wet with sweat due to the exhausting reverse amorous pleasures.

आमीलितनयनानाम् यः सुरतरसोऽनु संविदं भाति ।
मिथुनैर्मिथोऽवधारितमवितथमेव कामनिर्वहणम् ॥ शृ-२६ ॥
अ: आमीलित-नयनानां यः अनु संविदं भाति (सः) सुरतरसः;  मिथुनैः मिथः अवधारितं काम-निर्वहणं अवितथम् एव ।
Sexual pleasure is that which flows between consenting couple with their eyes slightly closed. A sexual encounter mutually agreed to will indeed be not futile.

इदमनुचितमक्रमश्च पुंसां
यदिह जरास्वपि मान्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ शृ-२७ ॥
अ: पुंसां जरासु अपि मान्मथाः विकाराः इति यत्, तत् इदं अनुचितम् अक्रमः च। नितम्बिनीनां स्तन-पतन-अवधि जीवितं रतं वा न कॄतं इति यत् तत् अपि (अनुचितम्) ।
It is indeed improper and not in order that men have sexual cravings even in old age. Similarly it is not right that women’s longevity or desire for sex is not restricted to the age when breasts sag. 
--
किं कन्दाः निर्झरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ वै-२५ ॥
अ: निर्झरेभ्यः कन्दाः, निर्झराः गिरिभ्यः प्रलयम् उपगताः किम्? तरुभ्यः सरस-फल-भृतः वल्कलिन्यः च शाखाः प्रध्वस्ता वा? यत् अपगत-प्रश्रयाणां खलानां दुःख-आप्त-स्वल्प-वित्त-स्मय-पवन-वश-आनर्तित-भ्रू-लतानि मुखानि (याचकैः) वीक्ष्यन्ते ।
Have the bulbous roots vanished from mountain streams or streams have vanished from mountains or branches of trees with their barks and juicy fruits have been destroyed that people are fondly looking at faces of the wicked persons devoid of modesty and whose creeper-like eye-brows dance due to the gale like smile caused by having earned some wealth with great difficulty?     

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणामविवेकगूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ वै-२६ ॥
अ: अधुना पुण्यैः मूलफलैः प्रणयिनीं वृत्तिं कुरुष्व; तथा अ-कृपणैः नव-पल्लवैः भूशय्यां कुरुष्व; उत्तिष्ठ, वनं यावः यत्र अविवेक-गूढ-मनसां वित्त-व्याधि-विकार-विह्वल-गिरां क्षुद्राणां ईश्वराणां नाम सदा अपि न श्रूयते ।
Adopt  a lovely way of life by (enjoying) roots and fruits; sleep on the ground with tender sprouts as bed; let us go to  the forest where not even the name of the small minded wealthy persons whose mind is closed due to absence of discrimination and whose manner of speaking is affected by a disease called money is heard.

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कॄपणाः ॥ वै-२७ ॥
अ: प्रति-वनं अखेदं स्वेच्छा-लभ्यं क्षितिरुहां फलम्, पुण्य-सरितां शिशिर-मधुरं पयः स्थाने स्थाने (स्वेच्छा-लभ्यम्); सु-ललित-लता-पल्लव-मयी मृदु-स्पर्शा शय्या; तत् अपि कृपणाः धनिनां द्वारि सन्तापं सहन्ते ।

In every forest there are fruits of trees which are easily available as much as desired; at frequent intervals is available cold and sweet water from pious rivers; there is bed which is soft to touch and made of sprouts of lovely creepers; even then wretched people undergo troubles at the door of the wealthy.  
- - - - 

No comments:

Post a Comment