Follow by Email

Saturday, July 11, 2015

Bhartruhari's shatakas-9

भर्तृहरिश्तकत्रयी-९

स्वल्पस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः
श्वा लब्द्वा परितोषमेति  न च तत्तस्य क्षुधाशान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ नी-२२ ॥
अ: श्वा स्वल्प-स्नायु-वस-अवसेक-मलिनं निर्मांसम् अस्थि अपि लब्ध्वा परितोषम् एति, तु तत् तस्य क्षुधा-शान्तये न (भवति) । सिंहः अङ्कम् आगतं जम्बुकम् अपि त्यक्त्वा द्विपं निहन्ति । सर्वः जनः क्रुच्छ्र-गतः अपि सत्त्व-अनुरूपं  फलं वाञ्छति ।
A dog feels happy to get a flesh-less bone dirtied by remnants of a bit of ligament and marrow although it does not satisfy its hunger.  A lion kills an elephant leaving a fox which has landed on its lap. Persons seek fruits according to their own status even if they are in difficulties.

लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य  वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति छाटुशतैश्च भुङ्क्ते ॥ नी-२३ ॥
अ: श्वा लाङ्गूल-चालनं अधः-चरण-अवपातं भूमौ निपत्य वदन-उदर-दर्शनं च पिण्डदस्य (पुरतः) कुरुते | गज-पुङ्गवः तु धीरं विलोकयति, चाटु-शतैः च भुङ्क्ते ।
A dog wags its tail, shows its face and stomach falling at the feet of the person who feeds it. But an elephant looks  majestically and eats after being cajoled by graceful words.

परिवर्तिनि संसारे मॄतः को वा न जायते ।
स जातो येन जातेन याति वंशः समुन्नतिम् ॥ नी-२४ ॥
अ: परिवर्तिनि संसारे मृतः कः वा न जायते? येन जातेन वंशः समुन्नतिं याति, सः जातः ।
In this cycle of life, who is not born again after dying? The birth of a person who elevates his dynasty is indeed  the birth.
--
अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वङ्गसुखैकलोला ।
आलिङ्गितायां पुनरायताक्ष्या-
माशास्महे विग्रहयोरभेदम् ॥ शृ-२२ ॥
अ: (वयं) अदर्शने दर्शन-मात्र-कामाः, दृष्ट्वा परिष्वङ्ग-सुख-एक-लोलाः, पुनः आयताक्ष्याम् आलिङ्गितायाम् विग्रहयोः अभेदम् आशास्महे ।
When the wide-eyed lady is not seen we desire to see her, having seen we desire to embrace her, after embracing we seek  the union of the bodies.

मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ शृ-२३ ॥
अ: शिरसि मालती, मुखे जृम्भणम्, वपुषि कुङ्कुम-आविलं चन्दनम्, बक्षसि मद-आलसा प्रियतमा, एषः स्वर्गः, परिशिष्टः आगमः ।
Jasmine for the hair, a yawn on the face, body smeared with sandal paste full of saffron, a languorous passionate dear lady to hug and that is heaven, rest is just (bookish) knowledge.

प्राङ्मा मेति मनागनागतरसं जाताभिलाषं ततः
सव्रीडं तदनु श्लथोद्यममथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रम् स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो
निःसङ्गाङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्री रतम् ॥ शृ-२४ ॥
अ: कुलस्त्री-रतं प्राक् अनागत-रसं मनाक् मा मा इति, ततः जात-अभिलाषं स-व्रीडं तदनु श्लथ-उद्यमं पुनः प्रध्वस्त-धैर्यं, ततः प्रेम-आर्द्रं स्पृहणीय-निर्भर-रहः-क्रीडा-प्रगल्भम् निःसङ्ग-अङ्ग-विकर्षण-अधिकसुखं रम्यम् । 
Saying “no,no” weakly when the desire is not yet risen, then becoming desirous shyly and with weak physical resistance and with loss of courage (to resist) and then enjoying secret carefree mature dalliances and unobstructed bodily searches render sex with ones chaste woman a great pleasure.
 --
अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ वै-२२ ॥
अ: इयं दुष्पूरा जठर-पिठरी अभिमत-महा-मान-ग्रन्थि-प्रभेद-पटीयसी गुरुतर-गुण-ग्राम-अम्भोज-उज्ज्वल-चन्द्रिका विपुल-विलसत्-लज्जा-वल्ली-वितान-कुठारिका विडम्बनं करोति ।
This store room of a belly which is difficult to fill up, which is skilful in breaking the cherished knot called self respect, which acts as bright moonlight to the lotus of weighty and good qualities and which acts as an axe to the large glittering collection of creepers makes fun of us.

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालिं कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ वै-२३ ॥
अ: क्षुधा-आर्तः मानी उदर-दरी-पूरणाय पुण्ये ग्रामे महति वने वा सित-पट-छन्न-पालिं कपालिं आदाय न्याय-गर्भ-द्विज-हुत-हुतभुक्-धूम-धूम्र-उपकण्ठे द्वारं द्वारं प्रविष्टः प्राणैः सनाथः वरम्, न पुनः अनु-दिनं तुल्य-कुल्येषु दीनः (वरम्) ।
It is better for a person of self respect who is hungry to manage to breathe and fill his stomach by entering door after door near a village which has become gray with the smoke of fire-offerings made by dutiful Brahmins rather than be miserable among his relatives.

गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः ॥ वै-२४ ॥
अ: मनुष्याः स-अवमान-पर-पिण्ड-रताः (इति) यत्, गङ्गा-तरङ्ग-कण-शीकर-शीतलानि
विद्याधर-अध्युषित-चारु-शिलातलानि हिमवतः स्थानानि प्रलयं गतानि किम्?

Is it that the Himalayan abodes which are cooled by the spray of the waves of Ganga and where Vidyadharas dwell on beautiful rocks have been lost in floods that people have become dependent on others for their daily bread? [ Vidyadharas are a kind of supernatural beings having magical powers and attending on Siva.]
- - - - 

No comments:

Post a Comment