Follow by Email

Saturday, September 19, 2015

Bhartruhari's Shatakas-19

भर्तृहरिशतकत्रयी-१९

विपदि धैर्यमथाभ्युदयॆ क्षमा
सदसि वाक्पटुता युधि विक्रमः  ।
यशसि चाभिरतिर्व्यसनं श्रुतौ
प्रकितिसिद्धमिदं हि महात्मनाम् ॥ नी-५२ ॥
अ: विपदि धैर्यम्, अथ अभ्युदयॆ क्षमा, सदसि वाक्पटुता, युधि विक्रमः,यशसि च अभिरतिः व्यसनं श्रुतौ, इदं महात्मनां प्रकृतिसिद्धं हि ।
Courage in times of difficulties, compassion towards others in times of affluence, oratory in a conference, valour in a battle, desire for fame, passion for learning the Vedas; these qualities come naturally to great men.

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोः
विनाप्यैश्वर्येन प्रकृतिमहतां मण्डनमिदम् ॥ नी-५३ ॥
अ: करे श्लाघ्यः त्यागः, शिरसि गुरुपादप्रणयिता, मुखे सत्या वाणी, भुजयोः विजयि अतुलं वीर्यम्, हृदि स्वच्छा वृत्तिः, श्रवणयोः अधिगतं श्रुतं च, ऐश्वर्येन विना अपि प्रकृति-महताम् इदं मण्डनम् ।
These are ornaments even without wealth for those who are naturally great: laudable renunciation for the hand, an attachment to the feet of the preceptor for the head, truthful voice for the mouth, incomparable and victorious valour for the shoulders, clean conduct for the heart, and Vedas acquired for the ears.

प्राणाघातान्निनिवृत्तिः परधनहरणे संयमः सत्यवाक्यं
काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्रोतोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा-
सामान्यं सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ नी-५४ ॥
अ: प्राण-आघातात् निवृत्तिः, पर-धन-हरणे संयमः, सत्य-वाक्यं, काले शक्त्या प्रदानं, परेषाम् युवतिजनकथामूकभावः, तृष्णा-स्रोतः-विभङ्गः, गुरुषु च विनयः, सर्व-भूत-अनुकम्पा-
सामान्यं सर्वशास्त्रेषु अनुपहत-विधिः श्रेयसाम् एषः पन्थाः ।
Keeping away from violence to living beings, restraint in coveting others’ wealth, truthful speech, donating at the proper time as per ability, being dumb to talk of others about young women, interrupting the stream of avarice, humility in the presence of elders, general compassion toward all beings, vast knowledge of all scriptures, these indeed form the route to prosperity.

--
विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ।
येनाचिरात्तदधरामिषलोलमर्त्य-
मत्स्यान् विकृष्य विपचत्यनुरागवह्नौ ॥ शृ-५२ ॥
अ: मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशम् अत्र भवाम्बुराशौ विस्तारितम्, येन अचिरात् तत्-अधर-आमिष-लोल-मर्त्य-मत्स्यान् विकृष्य अनुरागवह्नौ विपचति ।
 The fisherman called Manmatha (Love God) has spread a net called woman in the ocean of worldly affairs, with the help of which he will cook in the fire of lust fishes in the form of men who are attracted to the bait in the form of woman’s lips.

कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा सञ्चर मनःपान्थ तत्रास्ते स्मरतस्करः ॥ शृ-५३ ॥
अ: मनःपान्थ! कुच-पर्वत-दुर्गमे कामिनी-काय-कान्तारे मा सञ्चर । तत्र स्मरतस्करः आस्ते ।
O traveller called mind! Do not travel in the forest of woman’s body having mountains which are difficult to access in the form of breasts.

व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परमहं दष्टो  न तच्चक्षुषा ।
दृष्टः सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ शृ-५४ ॥
: अहं व्यादीर्घेण चलेन वक्र-गतिना तेजस्विना भोगिना नील-अब्ज-द्युतिना अहिना न दष्टः परं तत्-चक्षुषा दृष्टः, प्रायेण धर्मार्थिनः चिकित्सका दिशि दिशि सन्ति, मुग्ध- अक्षी-ईक्षण-वीक्षितस्य मे न हि वैद्यः न च अपि औषधम् ।
I was looked at and not bitten by a blue-hued hooded energetic serpent which was moving in a long meandering gait; there are of course liberal doctors in all directions (to cure snake-bite); but there is neither medicine nor doctor for me who has been looked at by a guileless girl.   


--
अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवन्ते त्वं धनाढ्या मतिमलहतये मामपि श्रोतुकामा
मय्यप्यास्था न ते चेत्त्वयि मम नितरामेव राजन्ननास्था ॥ वै-५२ ॥
अ: राजन्! त्वम् अर्थानाम् ईशिषे, वयम् अपि च गिराम् अर्थं यावत् ईश्महे, त्वं शूरः, नः आदि-दर्प-व्युपशमन-विधौ अक्षयं पाटवम् । त्वं धन-आढ्या सेवन्ते, श्रोतुकामा मति-मलहतये माम् अपि (सेवन्ते), ते मयि अपि आस्था न चेत् त्त्वयि मम नितराम् एव अनास्था ।
O king! You rule over wealth, we rule over the domain of meaningful words; you are brave, we are skilled in administering antidote to the basic quality of arrogance; Wealthy persons serve you, persons keen to listen to me for destroying the impurity of mind come to me; if you are indifferent to me I am equally indifferent to you. 

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इव परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ वै-५३ ॥
अ: वयम् इह वल्कलैः परितुष्टाः त्वं दुकूलैः, परितोषः समः इव, विशेषः निर्विशेषः । यस्य तृष्णा विशाला सः तु दरिद्रः भवतु, मनसि च परितुष्टे (सति) कः अर्थवान् कः दरिद्रः?
We are here happy with bark garments, you are happy with silken garments, happiness is same, nothing is special. Let the person whose greed is broad be poor; if one is mentally happy who is rich or poor?

फलमलमशनाय स्वादुपानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम्
अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥ वै-५४ ॥
अ: अशनाय फलम् अलम्, स्वादु-पानाय तोयं, शयनार्थं क्षितिः अपि, वाससे वल्कलं च । नव-धन-मधु-पान-भ्रान्त-सर्व-इन्द्रियाणां दुर्जनानाम् अविनयम् अनुमन्तुं न उत्सहे ।
Fruit is enough for food, water is enough as a delicious drink, ground is good enough to sleep on, bark- garments serve for clothing. I have no enthusiasm to suffer improper conduct of wicked persons whose senses drunk with new wealth are disoriented.
- - - - 

No comments:

Post a Comment