Follow by Email

Saturday, September 12, 2015

Bhatruhari's Shatakas-18

भर्तृहरिशतकत्रयी-१८

आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमुपैति पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ॥ नी-४९ ॥
अ: खल-सज्जनानां मैत्री दिनस्य पूर्व-अर्ध-पर-अर्ध-भिन्ना छाया इव आरम्भ-गुर्वी क्रमेण क्षयिणी, पुरा लघ्वी पश्चात् वृद्धिम् उपैति ।
Friendship with virtuous persons is like the shadow in the afternoon  small at the start and grows later  while friendship with wicked persons is like the shadow in the forenoon starts strong and decreases steadily.

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम्  ।
लुब्धकधीवरपिशुना निष्कारणमेव वैरिणो जगति ॥ नी-५० ॥
अ: जगति तृण-जल-सन्तोष-विहित-वृत्तीनां मृग-मीन-सज्जनानां लुब्धक-धीवर-पिशुना निष्कारणम् एव वैरिणः (भवन्ति) ।
The hunter, fisherman and the backbiter are enemies of deer, fish and virtuous persons respectively for no reason.


अथ सुजनपद्धतिः
( On persons of virtue)

वाञ्छा सज्जनसङ्गतो परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादात्भयम् ।
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खलैः
एते येषु वसन्ति निर्मलगुणास्तेभ्यो महद्भ्यो नमः ॥ नी-५१ ॥
अ: सज्जनसङ्गतः वाञ्छा, परगुणे प्रीतिः, गुरौ नम्रता,  विद्यायां व्यसनम्, स्व-योषिति रतिः, लोक-अपवादात् भयम्, शूलिनि भक्तिः, आत्म-दमने शक्तिः, खलैः संसर्ग-मुक्तिः, एते निर्मल-गुणाः येषु वसन्ति, तेभ्यः महद्भ्यः नमः ।
My salutations to those great persons who have these blemish-less qualities: a desire for the company of good people, love for others’ good qualities, humility before preceptor, assiduous devotion to education, love for one’s wife, fear of public disapproval, devotion to Shiva,  ability to control oneself and deliverance from the company of the wicked. 

--
उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तन-
द्वन्द्वेनोद्गतचक्रवाकयुगला वक्त्राम्बुजोद्भासिनी ।
कान्ताकारधरा नदीयमभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ शृ-४९ ॥
अ: उन्मीलत्-त्रि-वली-तरङ्ग-निलया प्रोत्तुङ्ग-पीन-स्तन-द्वन्द्वेन उद्गत-चक्रवाक-युगला वक्त्र-अम्बुज-उद्भासिनी कान्ता-आकार-धरा इयं नदी अभितः क्रूरा । संसार-अर्णव-मज्जनं यदि न अपेक्षते तदा दूरेण सन्त्यज्यताम् ।
This river in the form of your beloved with waves in the form of three abdominal folds opened up and a pair of chakravaka birds in the form of raised plump breasts and looking lustrous with a lotus in the form of face is all round dangerous. If you do not want to dip into the ocean of worldly life, keep off from it.

जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ शृ-५० ॥
अ: अन्येन सार्धं जल्पन्ति, स-विभ्रमाः अन्यं पश्यन्ति, हृद्-गतम् अन्यं चिन्तयन्ति । योषितां कः नाम प्रियः ?
Who indeed is a beloved for women? They converse with one, they look at another one coquettishly, and think of another in their heart.

अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैः
चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ शृ-५१ ॥
अ: सखे! अस्मात् कटाक्ष-विष-अनलात् प्रकृति-विषमात् विलास-फणा-भृतः योषित्-सर्पात् दूरात् अपसर । इतर-फणिना दष्टः औषधैः चिकित्सितुं शक्यः । मन्त्रिणः चतुर-वनिता-भोगि-ग्रस्तं त्यजन्ति हि ।
Dear friend! Move away from this serpent called woman with poisonous exhalations called furtive glances and having hood in the form of playfulness and which are by nature troublesome. If you are bitten by other snakes it is possible to treat with medicines. Conjurers keep away from those attacked by snakes called clever women.
--
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
तेषां व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ वै-४९ ॥
अ: नृणाम् आयुः वर्षशतं परिमितम्, तत्-अर्धं रात्रौ गतं, तस्य परस्य अर्धस्य अर्धं बालत्व-वृद्धत्वयोः (गतम्), तेषाम् व्याधि-वियोग-दुःख-सहितम् अपरं सेवादिभिः नीयते । वारि-तरङ्ग-चञ्चल-तरे जीवे प्राणिनां कुतः सौख्यम्?
Longevity of men is limited to one hundred years; half of it is lost during nights; half of the remaining half is lost in childhood and old age; the remaining period full of diseases and grief of separation is spent in service. Where is happiness for human beings in this life which is as impermanent as water waves?

क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः ।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुः
नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ वै-५० ॥
अ: नरः नटः इव क्षणं बालः भूत्वा, क्षणम् अपि काम-रसिकः युवा (भूत्वा), क्षणं वित्तैः हीनः, क्षणम् अपि सम्पूर्ण-विभवः (भूत्वा), संसार-अन्ते जरा-जीर्णैः अङ्गैः वली-मण्डित-तनुः यम-धानी-यवनिकां विशति ।
A man, like an actor, becomes a boy for some time, becomes a young man relishing sexual pleasures, becomes penny less for some time and  a wealthy person for some time and finally at the end with a body debilitated by old age and having wrinkles all over goes behind the screen called the city of Yama. 

अथ यतिनृपतिसंवादवर्णनम्
(Conversation between an ascetic and a king)
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ वै-५१ ॥
अ: त्वं राजा, वयम् अपि उपासित-गुरु-प्रज्ञा-अभिमान-उन्नताः, विभवैः त्वं ख्यातः, नः यशां सि कवयः दिक्षु प्रतन्वन्ति। इत्थम् आवयोः उभयोः मान-धन-अतिदूरम् अन्तरम्, यदि अस्मासु पराङ्मुखः असि, वयम् अपि एकान्ततः निःस्पृहाः  ।  
You are a king, while we are respected having been learned and devoted to our preceptor, you are famous for your wealth while our fame is spread all over by poets. Thus there is a lot of disparity between us in matters of respect and wealth. If you choose to ignore us, we are totally indifferent.
- - - - 

No comments:

Post a Comment