Follow by Email

Saturday, September 5, 2015

Bhartruhari's Shatakas-17

भर्तृहरिशतकत्रयी-१७

 न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् ।
होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ नी-४६ ॥
अ: चन्ड-कोपानां भू-भुजां न कः अपि आत्मीयो नाम । पावकः स्पृष्टः जुह्वानं होतारम् अपि दहति ।
Kings whose anger is terrible do not consider any one as their own. Even the sacrifice priest gets burnt by the fire if touched while offering oblations.

मौनान्मूर्खः  प्रवचनपटुर्वाचको जल्पको वा
धृष्टः पार्श्वे भवति च वसन्दूरतोऽप्यप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ नी-४७ ॥
अ: मौनात् मूर्खः (भवति), वा प्रवचन-पटुः वाचकः जल्पकः (भवति), पार्श्वे वसन् धृष्टः भवति, दूरतः वसन् अपि अ-प्रगल्भः (भवति), क्षान्त्या भीरुः (भवति), यदि न सहते प्रायशः न अभिजातः, सेवा-धर्मः परम-गहनः योगिनाम् अपि  अगम्यः ।
Silence is taken as a mark of being a fool; if one is skilled in talking it is considered as a mark of being talkative; if one stays near it is taken as a sign of being impudent; if one stays away it is taken as a mark  of diffidence; if one displays forbearance it is taken as a mark of being timid; if one does not endure it is taken as a mark of lack of culture. Servitude is extremely hard to be understood and is not amenable even to ascetics.

उद्भासिताखिलखलस्य विशृङ्खलस्य
प्रोद्गाढविस्मृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य
नीचस्य गोचरगतैः सुखमास्यते कैः ॥ नी-४८ ॥
अ: उद्भासित-अखिल-खलस्य विशृङ्खलस्य प्रोद्गाढ-विस्मृत-निज-अधम-कर्म-वृत्तेः दैवात् अवाप्त-विभवस्य अस्य गुणद्विषः नीचस्य गोचर-गतैः कैः सुखम् आस्यते?
Who can ever feel comfortable before a wicked man because of whom wicked people flourish, who is unfettered, who has totally forgotten all his wicked acts, who detests good qualities and who has attained eminence due to a quirk of fate?
--
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर-
द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ।
किं त्वेवं  कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ शृ-४६ ॥
अ: एषः मृगाङ्कः सत्येन नो वदनीभूतः, इन्दीवरद्वन्द्वम् लोचनताम् न गतं, अङ्ग-यष्टिः कनकैः अपि न कृता, किं तु एवं कविभिः प्रतारित-मनाः मन्दः जनः तत्त्वं विजानन् अपि मृग-दृशां त्वक्-मांस-अस्थि-मयं वपुः सेवते ।
 In truth this moon is far from being the face, a pair of lotuses does not match eyes, the lean body is not made of Gold. But fools misled by poets seek doe-eyed women’s body made of skin, flesh and bones.

लीलावतीनां सहजा विलासाः
त एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धः
तत्र भ्रमत्येव वृथा षडङ्घ्रिः ॥ शृ-४७ ॥
अ: लीलावतीनां ते एव सहजाः विलासाः मूढस्य हृदि स्फुरन्ति । नलिन्याः रागः निसर्ग-सिद्धः हि, षडङ्घ्रिः तत्र वृथा भ्रमति एव ।
The same old natural coquetry of playful ladies creates scintillations in fool’s mind; the redness of a  lotus is natural but bumble bee wanders around it in vain.

यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृति परं
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।
इदं तत्किंपाकद्रुमफलमिदानीमतिरसं
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ शृ-४८ ॥
अ: तनु-अङ्ग्याः एतत् पूर्ण-इन्दु-द्युति-हरं परम् उदार-आकृति मुख-अब्जं यत्र अधर-मधु वर्तते (इति) यत् तत् इदं किंपाक-द्रुम-फलं  इदानीम् अतिरसं अस्मिन् काले व्यतीते विषम् इव अ-सुखदं भविष्यति ।
This lotus-like face with best form which steals the lustre of full moon and where the honey of lips dwells will become poisonous as time passes just as the very sweet fruit of kimpaaka tree will turn poisonous in course of time.

--
नाभ्यस्ता प्रतिवादवृन्ददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न  चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ वै-४६ ॥
अ: विनीत-उचिता प्रतिवाद-वृन्द-दमनी विद्या न अभ्यस्ता, करि-कुम्भ-पीठ-दलनैः खड्ग-अग्रैः यशः नाकं न नीतम्, कान्ता-कोमल-पल्लव-अधर-रसः चन्द्र-उदये न पीतः, शून्य-आलये दीपवत् तारुण्यं निष्फलं गतम् एव, अहो ।
We did not acquire the learning which is proper for a well-behaved person and which silences the arguments of opponents; we did not acquire fame which reaches the sky by the sharp edge of our sword capable of piercing the humps of elephants; we did not drink the juice of delicate sprout-like lips of the beloved; our youth went waste like a lamp in an empty house.

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥ वै-४७ ॥
अ: कलङ्क-रहिता विद्या न अधिगता, वित्तं न उपार्जितं च, समाहितेन मनसा पित्रोः शुश्रूषा अपि न सम्पादिता, आलोल-आयत-लोचनाः प्रियतमाः स्वप्ने अपि न आलिङ्गिताः, अयं कालः पर-पिण्ड-लोलुपतया काकैः इव प्रेर्यते ।
We did not acquire blemish-less learning; we did not acquire wealth; we did not serve our parents with composed mind; even in our dreams we did not embrace beloveds with broad rolling eyes. We spend our time like crows ardently longing for a morsel from others.  

वयं येभ्यो जाताश्चिरपरिचिता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।
इदानीमेते स्मः प्रतिदिवसमासन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ वै-४८ ॥
अ: येभ्यः वयं जाताः ते, यैः समं संवृद्धाः चिर-परिचिताः ते अपि स्मृति-विषयतां गमिताः, इदानीम् एते (वयं) प्रतिदिवसम्-आसन्न-पतनाः सिकतिल-नदी-तीर-तरुभिः तुल्य-अवस्थां गताः स्मः ।

Those to whom we were born and those who grew with us have just become a memory although they are all very familiar. Now we are in the same state as that of trees on sandy banks of rivers which face imminent fall every day.
---- 

No comments:

Post a Comment