Follow by Email

Saturday, September 26, 2015

Bhartruhari's Shatakas-20

भर्तृहरिशतकत्रयी-२०

सम्पत्सु महतां चित्तं भवेदुत्पलकोमलम् ।
आपत्सु च महाशैलशिलाशङ्घातकर्कशम् ॥ नी-५५ ॥
अ: महतां चित्तं सम्पत्सु उत्पल-कोमलं, आपत्सु महा-शैल-शिला-सङ्घात-कर्कशं भवेत् ।
The heart of great persons becomes as soft as a lotus when in affluence, becomes as hard as a rock of a granite hill when in adversity.

प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्
त्वसन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः ।
विपद्युच्चैर्धैर्यं पदमनुविधेयं च महतां
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ नी-५६ ॥
अ: प्रिया न्याय्या वृत्तिः, असु-भङ्गे अपि मलिनम् असुकरम्, अ-सन्तः न अभ्यर्थ्याः, सुहृत् अपि कृश-धनः न याच्यः, विपदि धैर्यम् उच्चैः, महतां पदम् अनुविधेयम्, इदं विषमम् असि-धारा-व्रतम् सतां केन उद्दिष्टम्?
Conduct which is pleasant and lawful, not indulging in filthy ways even at the cost of one’s life, not seeking help from the wicked, great fortitude in times of adversity, following the foot-steps of the Great, not seeking favours from a person of low means even if he is a friend; who ordained for the virtuous persons this type of sword-edge austerity?

प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ नी-५७ ॥
अ: प्रच्छन्नं प्रदानम्, गृहम् उपगते सम्भ्रम-विधिः, प्रियं कृत्वा मौनम्, सदसि उपकृतेः च कथनम्, लक्ष्म्याम् अनुत्सेकः, पर-कथाः निरभिभव-साराः, इदं विषमम् असि-धारा-व्रतं सतां केन उद्दिष्टाम्?
Donating privately, an enthusiastic welcome when  a person arrives at home, being silent after doing pleasing things, to narrate the help rendered by others in gatherings, being disinterested in wealth, narrating others affairs without hurting them; who ordained for the virtuous persons this type of sword-edge austerity?
--
इह हि मधुरगीतं नृत्तमेतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिन्द्रियैभ्राम्यमाणः
स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥ शृ-५५ ॥
अ: इह मधुर-गीतं हि, एतत् नृत्तम्, अयं रसः, असौ परिमलः स्फुरति, एषः स्तनानां स्पर्शः, इति हत-परम-अर्थैः पञ्चभिः स्व-हित-करण-धूर्तैः इन्द्रियैः भ्राम्यमाणः वञ्चितः अस्मि ।
 Here is pleasant music, here is dancing, here there is something juicy (to taste), here is fragrance rising forth, here is the touch of breasts; in this manner I have been cheated through delusion by these five scoundrels called senses skilled in furthering their own interests and who have destroyed the ultimate objective (of life).

न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत्-
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ शृ-५६ ॥
अ: अयं स्मर-अपस्मारः मन्त्राणां न गम्यः, भैषज्य-विषयः न भवति, विविधैः शान्तिक-शतैः प्रध्वंसं न व्रजति च, भ्रम-आवेशात् अङ्गे कम् अपि भङ्गम् असकृत् विदधत् दृशं भ्रमयति घूर्णयति च ।
This disease of epilepsy called cupid is not amenable to incantations, it is not a matter of medicine, it does not go away even after hundreds of appeasing rites, it distorts eye-sight and makes one feel giddy producing contortions of limbs often.

जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ शृ-५७ ॥
अ: कः जाति-अन्धाय च दुर्मुखाय च जरा-जीर्ण-अङ्गाय च, ग्रामीणाय च, गलत्-कुष्ठ-अभिभूताय च लक्ष्मी-लव-श्रद्धया मनोहरं निज-वपुः यच्छन्तीषु विवेक-कल्प-लतिका-शस्त्रीषु पण्यस्त्रीषु रज्येत?
Who would like to indulge oneself in a prostitute who acts as a sword to the creeper of discrimination and who lends her beautiful body, just for the sake of earning some money, to a blind man, an ugly man, an old man with aged limbs, a villager and a leper?

--
अशीमहि वयं भिक्षामाशावासो वसीमहि ।
शयीमहि महीपृष्टे कुर्वीमहि किमीश्वरैः ॥ वै-५५ ॥
अ: वयम् भिक्षाम् अशीमहि, आशा-वासः वसीमहि, मही-पृष्टे शयीमहि, ईश्वरैः किं कुर्वीमहि?
We eat by begging, the directions are our clothing, we sleep on ground, what  have we to do with the wealthy?

न नटा न विटा न गायका
न च सभ्येतरवादचुञ्चवः ।
नृपमीक्षितुमत्र के बयं
स्तनभारानमिता न योषितः ॥ वै-५६ ॥
अ: वयं न नटा, न विटा, न गायकाः, न सभ्य-इतर-वाद-चञ्चवः, न स्तन-भार-आनमिता योषितः, नृपम् ईक्षितुं के?
We are not actors, we are not sensualists, we are not skilled in talking indecently, we are not women bent with heavy breasts, who are we to wait upon the king?

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ वै-५७ ॥
अ: एतत् जगत् पुरा विपुल-हृदयैः ईशैः जनितम्,  अपरैः विधृतम्, अन्यैः विजित्य तृणं यथा दत्तम्, इह हि अन्ये धीराः चतुर्दश भुवनानि भुञ्जते, पुंसां कतिपय-पुर-स्वाम्ये एषः मद-ज्वरः कः?
This world was created long back by lords of liberal mind, many others possessed it, several others conquered it and gave away like straw; even here brave people enjoy fourteen worlds. What is this fever of  arrogance for persons in owning a few towns?
- - - -  

No comments:

Post a Comment