Saturday, June 4, 2016

Varadarajastava of Appayyadikshita-12

वरदराजस्तवः-१२

आबद्धपङ्क्तिमहितानि तव त्रिधामन्
वीध्राणि हीरशकलानि विभूषणेषु ।
सम्मोहनानि सरसीरुहलोचनानां
मन्त्राक्षराणि कलये मकरध्वजस्य ॥ ३२ ॥
अ: त्रिधामन् ! तव विभूषणेषु आ-बद्धपङ्क्ति-महितानि वीध्राणि हीर-शकलानि सरसीरुह-लोचनानां सम्मोहनानि मकरध्वजस्य मन्त्र-अक्षराणि कलये ।
God of three-fold residence ! I consider that the clean diamond pieces looking beautiful by their being fixed in rows on your ornaments are cupid’s syllables of incantation to make lotus-eyed damsels swoon.
Note: “tri-dhaaman” is interpreted in several ways: One who has his abode in bhoo,bhuvar,svar worlds or in satva,rajas,tamas or in ocean of milk, solar orb and heaven.   

आपादमौलि विधृतेषु विभान्ति देव
स्थूलेन्द्रनीलमणयो मणिभूषणेषु ।
रागादुपेत्य तव सुन्दर तत्तदङ्गे
लग्नानि लोकसुदृशामिव लोचनानि ॥ ३३ ॥
अ: देव ! सुन्दर ! तव आपाद-मौलि विधृतेषु मणि-भूषणेषु स्थूल-इन्द्रनील-मणयः लोक-सुदृशां लोचनानि रागात् उपेत्य तत्-तत्-अङ्गे लग्नानि इव (भान्ति ) ।
O God of charming form ! the big sapphire gems embedded in your ornaments from head to toe appear as if they are the eyes of beautiful ladies stuck up while longingly looking at each  limb of your body.  

त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं
भिन्द्युः किलेति तव भूषणपद्मरागाः ।
शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति
तन्मात्रतोऽपि तव मुक्तिदतामबुद्ध्वा ॥ ३४ ॥
अ : मुक्तिद ! जनाः त्वां वीक्ष्य सखायं तरणिं भिन्द्युः किल इति तव भूषण-पद्मरागाः, तत्-मात्रतः अपि तव मुक्तिदताम् चिरम् अबुद्ध्वा, जन-दृशः स्व-करैः क्षिपन्ति (इति) मन्ये ।

O  God who grants salvation ! Believing that people may break through the friendly Solar world by looking at you, I believe that rubies in your ornaments dazzle their eyes without realizing for long that even by that very action people can get salvation. 
- - - -  

No comments:

Post a Comment