Follow by Email

Saturday, August 8, 2015

Bhartruhari's Shatakas-13

भर्तृहरिशतकत्रयी-१३

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ नी-३४ ॥
अ: वित्तस्य तिस्रः गतयः भवन्ति, दानं भोगः नाशः । यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति ।
There are three paths for money: giving away, enjoying or loss. A person who neither gives away or enjoys will have the third option. 

मणिः शाणोल्लीढः  समरविजयी हेतिदलितो
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥ नी-३५ ॥
अ: शाण-उल्लीढः मणिः, हेति-दलितः समर-विजयी, शरदि आश्यान-पुलिना सरित्, कला-शेषः चन्द्रः, सुरत-मृदिता बाल-वनिता, अर्थिषु गलित-विभवाः नराः तनिम्ना शोभन्ते ।
A gem polished by a grinding stone, a conqueror in the battle wounded by a weapon, a river with dried up sand in autumn, moon  with only a sixteenth part visible, a young damsel exhausted by amorous dalliances, men who have lost a fortune by giving away to the deserving, all these appear lustrous in their leanness.

परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये
स पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम् ।
अतश्चानेकान्ता गुरुलघुतयार्थेषु धनिनाम्
अवस्था वस्तूनि प्रथयति च संकोचयति च ॥ नी-३६ ॥
अ: परिक्षीणः कश्चित् यवानां प्रसृतये स्पृहयति, पश्चात् सम्पूर्णः सः धरित्रीं तृणसमां कलयति ।अतः धनिनाम् अवस्थाः अर्थेषु गुरु-लघुतया अनेकान्ताः (सन्तः) वस्तूनि प्रथयति सङ्कोचयति च ।
One who has lost everything wishes for a handful of corn; later when he becomes rich he considers landed property as straw. Thus the state of  a wealthy person being high or low expands or contracts (the value of) things.   
--
दिश वनहरिणेभ्यो वंशकाण्डच्छवीनां
कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापाण्डुताम्बूलवल्ली-
दलमरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ शृ-३४ ॥
अ: वंश-काण्ड-छवीनां कुशानां उपल-कोटि-छिन्न-मूलं वन-हरिणेभ्यः दिश, वा अरुण-नख-अग्रैः पाटितं शक-युवति-कपोल-आपाण्डु-ताम्बूल-वल्ली-दलं वधूभ्यः दिश ।
Either provide to forest deer roots having the colour of bamboo stems cut by the sharp edges of a stone or provide to (your) young wives betel leaves which are slightly whitish like the cheeks of Shaka women and which have been cut by red tips of nails. [ Either lead the life of a hermit or be a house holder. Shakas refer to a foreign race who conquered parts of India and established kingdoms.]

असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति ।
तथाप्येतद्भूमौ न हि परहितात्पुण्यमधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ शृ-३५ ॥
अ: सर्वे ते पाप-विषयाः विरति-विरसाः इति वा सकल-दोष-आस्पदम् इति वा जुगुप्स्यन्ताम् । तथा अपि एतत्-भूमौ पर-हितात् अधिकं पुण्यं नहि । अस्मिन् संसारे कुवलय-दृशः रम्यम् अपरं न ।
You may feel a sense of disgust saying that all things end up being tasteless or they harbour all sorts of faults. Yet in this world there is nothing more pious than doing good to others and there is nothing more pleasant than blue-lotus-eyed ladies.

मात्सर्यमुत्सार्य विचार्य कार्य-
मार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणाम्
उत स्मरस्मेरविलासिनीनाम् ॥ शृ-३६ ॥
अ: आर्याः मात्सर्यम् उत्सार्य  कार्यं विचार्य समर्यादम् इदं वदन्तु, “भूधराणां नितम्बाः किमु सेव्याः, उत स्मर-स्मेर-विलासिनीनां (नितम्बाः)?”
Gentlemen! Casting off jealousy and after deliberation please tell, “ Is it better to go behind kings serving them or go behind coquettish ladies with captivating smiles?”
--
भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता ।
तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ वै-३४ ॥
अ: भोगाः तुङ्ग-तरङ्ग-भङ्ग-तरलाः, प्राणाः क्षण-ध्वंसिनः यौवन-सुख-स्फूर्तिः स्तोकानि एव दिनानि प्रियासु स्थिता । (हे) बोधकाः बुधाः, तत्-संसारम् असारम् एव इति बुद्ध्वा लोक-अनुग्रह-पेशलेन मनसा यत्नः समाधीयताम् ।
Pleasures are as unsteady as high waves; life can get terminated in a moment; manifestation of youthful happiness rests in ladies only for a few days. Therefore, O learned preceptors!  having understood that this worldly life is worthless please attempt (to provide salvation to the ordinary folk) with a benevolent attitude towards them.  

भोगा मेघवितानविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।
लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धसुलभे बुद्धिं विदध्वं बुधाः ॥ वै-३५ ॥
अ: (हे) बुधाः! भोगाः मेघ-वितान-विलसत्-सौदामिनी-चञ्चला, आयुः वायु-विघट्टित-अब्ज-पटली-लीन-अम्बुवत् भङ्गुरम्, तनु-भृताम् यौवन-लालसाः लोलाः इति आकलय्य धैर्य-समाधि-सिद्ध-सुलभे बुद्धिं विदध्वम् । 
O Scholars!  Pleasures are as unsteady as lightening in a canopy of clouds; longevity is as fragile as the water clinging to the little stalk of a lotus being thrashed by winds; youthful attachments of men are transient. Having known all this in totality concentrate your minds on (salvation) which is easy to attain with fortitude and meditation.  

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः
अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ वै-३६ ॥
अ: आयुः कल्लोल-लोलं, यौवन-श्रीः कतिपय-दिवस-स्थायिनी, अर्थाः संकल्प-कल्पाः, भोग-पूगाः घन-समय-तडित्-विभ्रमाः, प्रियाभिः प्रणीतं  यत् कण्ठ-आश्लेष-उपगूढं तत् अपि न चिरम् ।भव-अम्बोधि-पारं तरीतुं ब्रह्मणि आसक्ता भवत ।
Longevity is as fragile as waves; the grandeur of youth stays only for a few days; wealth is as transient as our desires; the multitudes of pleasures have the playfulness of lightening in rainy season. Even the tight embraces offered by your ladies are temporary; please concentrate on Brahman in order to cross the ocean of worldly life.
- - - - 

No comments:

Post a Comment