Follow by Email

Saturday, August 1, 2015

Bhartruhari's Shatakas-12

भर्तृहरिशतकत्रयी-१२

अथ अर्थपद्धतिः
( Section on money matters)
जातिर्यातु रसातलं गुणगणस्तत्राप्यधो गच्छतां
शीलं शैलतटात्पतत्वभिजनो सन्दह्यतां वह्निना ।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं
येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ नी-३१ ॥
अ: जातिः रसातलं यातु, गुण-गणः तत्र अपि अधः गच्छताम्, शीलं शैल-तटात् पततु, अभिजनः वह्निना सन्दह्यताम्, वैरिणि शौर्ये वज्रम् आशु पततु, येन एकेन विना इमे समस्ताः गुणाः तृण-लव-प्रायाः (सः) अर्थः केवलम् नः अस्तु,
Let caste go to the nether world, let the group of virtues go further down, let good conduct fall from the plateau of a mountain, let noble descent burn in fire, let money only be with us without which all these qualities are just worthless ( a tiny bit of grass).

यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ नी-३२ ॥
अ: यस्य वित्तम् अस्ति सः नरः कुलीनः,सः श्रुतवान् पण्डितः, सः गुणज्ञः, सः एव वक्ता, सः दर्शनीयः च, सर्वे गुणाः काञ्चनम् आश्रयन्ति ।
Who has money becomes a person of high descent , a scholar well-versed in scriptures, one who values good qualities, an orator and a handsome person. All qualities seek refuge in Gold.

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात् 
विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयात्
मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद्धनम् ॥ नी-३३ ॥
अ: नृपतिः दौर्मन्त्र्यात् विनश्यति, यतिः सङ्गात्, सुतः लालनात्, विप्रः अनध्ययनात्, कुलं कु-तनयात्, शीलं खल-उपासनात्, ह्रीः मद्यात्, कृषिः अपि अनवेक्षणात्, स्नेहः प्रवास-आश्रयात्, मैत्री अप्रणयात्, समृद्धिः अनयात्, धनं प्रमादात् त्यागात् च (विनश्यति) ।
A king gets destroyed due to bad counselling, an ascetic due to his associates, a son due to pampering, a Brahmin due to neglect of studies, a family due to a bad son, ones conduct due to bad company, sense of shame due to drinking, agriculture due to inattention, love due to being away, friendship due to lack of affection, opulence due to wrong policies, money due to mistakes and being very charitable.
--
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्क-
व्यासङ्गव्यस्तधैर्यं कथममलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ शृ-३१ ॥
अ: यदि एताः प्र-उद्यत्-इन्दु-द्युति-निचय-भृतः अम्भोज-नेत्राः प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमत्-मध्य-भाजः तरुण्यः न स्युः, अमल-धियः अस्मिन् असारे संसारे कु-नृपति-भवन-द्वार-सेवा-कलङ्क-व्यासङ्ग-व्यस्त-धैर्यं मानसं कथं संविदध्युः?
In this worthless worldly life, why would persons of pure mind lose their fortitude by waiting at the doors of vile kings had there been no young women with waists bent due to the weight of their breasts, with swinging gold girdles, with lotus-like eyes and who have the lustre of a rising moon? [ Even good persons have to undergo tribulations of serving lowly people for the sake of earning the favour of beautiful women.]
  
सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ शृ-३२ ॥
अ: सिद्ध-अध्यासित-कन्दरे हर-वृष-स्कन्ध-अवरुग्ण-द्रुमे गङ्गा-धौत-शिलातले हिमवतः स्थाने श्रेयसि स्थिते, यत् स्मर-अस्त्रं वित्रस्त-कुरङ्ग-शाव-नयनाः स्त्रियः न स्युः (यदि), कः मनस्वी जनः शिरः म्लानं प्रणाम-मलिनं कुर्वीत?
When there are propitious Himalayan abodes in the caves inhabited by realized souls where trees are damaged by the back of Siva’s bull and where rocks are washed by river Ganga who would make their heads withered and dirtied by (frequent) bowing down (to the wealthy)?

संसार तवपर्यस्तपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युः यदि ते मदिरेक्षणाः ॥ शृ-३३ ॥
अ: संसार! तव पर्यस्त-पदवी न दवीयसी (स्यात्) यदि ते अन्तरा दुस्तराः मदिरेक्षणाः न स्युः ।
O worldly life! Your far end would not be distant if only there were no women with intoxicated eyes in between who are difficult to cross over.
--
अथ भोगास्थैर्यवर्णनम्
(Impermanence of worldly pleasures)

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम्।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयम्
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ वै-३१ ॥
अ: भोगे रोग-भयं, कुले च्युति-भयं, वित्ते नृ-पालात् भयं, माने दैन्य-भयं, बले रिपु-भयं, रूपे जराया भयं, शास्त्रे वादि-भयं, गुणे खल-भयं, काये कॄतान्तात् भयं, सर्वं वस्तु भय-अन्वितं, भुवि नृणां वैराग्यम् एव अभयम् ।
There is the fear of diseases in worldly pleasures; in case of family nobility there is the fear of its being stained; in case of wealth there is the fear of its being taken away by the king; in case of self respect there is the fear of becoming miserable; in case of an army there is the fear of an enemy; in case of handsomeness there is the fear of old age; in case of scholarship there is the fear of being defeated by an opponent; in case of virtue there is the fear of the wicked; in case of human body there is the fear of death; everything in this world is full of fear, it  is only in renunciation that there is no fear.

आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः
अस्थैर्येण विभूतयोऽप्युपहता ग्रस्तं न किं केन वा ॥ वै-३२ ॥
अ: जन्म मरणेन आक्रान्तम्, अति-उज्ज्वलं यौवनं जरसा च, सन्तोषः धन-लिप्सया, शम-सुखं प्रौढ-अङ्गना-विभ्रमैः, गुणाः मत्सरिभिः लोकैः, वन-भुवः व्यालैः, नृपाः दुर्जनैः, विभूतयः अपि अस्थैर्येण उपहताः । किं वा केन न ग्रस्तम् ?
Birth is overrun by death, bright youth by old age, happiness by desire for money, joy of peace by the attractions of mature women, virtues by envious people, forests by wild animals, kings by wicked people, glories are weakened by impermanence. What is that is not eclipsed by something else?

आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ वै-३३ ॥
अ: जनस्य आरोग्यं विविधैः आधि-व्याधि-शतैः उन्मूल्यते । यत्र लक्ष्मीः तत्र व्यापदः विवृत-द्वाराः इव पतन्ति । मृत्युः जातं जातं अवश्यं आशु आत्मसात् विवशं करोति । तेन निरङ्कुशेन विधिना यत् सुस्थिरं तत् निर्मितं किम्?

Health of people is uprooted by hundreds of mental and physical afflictions. Wherever there is wealth misfortunes fall in as if through an open door. Death quickly and compulsorily takes control of every life born. Has the uncontrolled creator created anything which is firm and stable?
- - - - 

No comments:

Post a Comment