Follow by Email

Saturday, August 15, 2015

Bhartruhari's Shatakas-14

भर्तृहरिशतकत्रयी-१४

राजन् दुधुक्षसि यदि क्षितिधेनुमेनां
तेनाद्य वत्समिव लोकममुं पुषाण ।
तस्मिंश्च सम्यगनिशं परिपुष्यमाणे
नानाफलं फलति कल्पलतेव भूमिः ॥ नी-३७ ॥
अ: (हे) राजन्! एनां क्षितिधेनुं यदि दुधुक्षसि, तेन अद्य इमं लोकं वत्सम् इव पुषाण । तस्मिन् सम्यक् परिपुष्यमाणे भूमिः कल्पलता इव नाना-फलम् अनिशं फलति ।
O king! If you want to milk the cow called earth, you first take care of the people as you would a calf. If they are well taken care of, the earth will give you fruits all the time like the Celestial Tree (kalpavrisha).

सत्यानॄता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा ॥ नी-३८ ॥
अ: नॄप-नीतिः सत्या अनृता च, परुषा प्रिय-वादिनी च, हिंस्रा दयालुः अपि, अर्थ-परा वदान्या च, नित्य-ब्यया प्रचुर-नित्य-धन-आगमा च, वाराङगना इव अनेक-रूपा ।
Political conduct takes different forms like a prostitute: sometimes true, sometimes false; sometimes harsh, sometimes pleasant; sometimes violent, sometimes kind; sometimes miserly, sometimes liberal; sometimes a spend-thrift, sometimes extracting.

आज्ञा कीर्तिः पालनं ब्राह्मणानां
दानं भोगो मित्रसंरक्षणं च ।
येषामेते षड्गुणा न प्रवृत्ताः
कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ नी-३९ ॥
अ:  हे पार्थिव! येषाम् एते षड्-गुणाः, आज्ञा कीर्तिः ब्राह्मणानां पालनं दानं भोगः मित्र-संरक्षणं च न प्रवृताः, तेषां -उपाश्रयेण कः अर्थः?
O king! What is the use of seeking  shelter under a king who is devoid of these six qualities; Ability to command, fame, taking care of Brahmins, charity, ability to enjoy life and protecting friends?

--
संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।
नो चेन्मुग्धाङ्गनानां स्तनघनजघनाभोगसंभोगिनीनां
स्थूलोफस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ शृ-३७ ॥
अ: स्वप्न-सारे परिणति-तरले संसारे द्वे गती,  तत्त्व-ज्ञान-अमृत-अम्भः-प्लव-ललित-धियां पण्डितानां कालः कथञ्चित् यातु, नो चेत् स्तन-घन-जघन-आभोग-संभोगिनीनां स्थूल-उपस्थ-स्थलीषु स्थगित-करतल-स्पर्श-लीला-उद्यमानां (कालः यातु) ।
There are two ways in this dream-like worldly life which ends up being unsteady: One is that of the scholars whose boat-like mind is floating on the ocean of ambrosia of true knowledge and the other is of those who are busy with ladies of heavy breasts and buttocks and whose hands are being restrained from playing in the fat private areas.
  
आवासः क्रियतां गाङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ शृ-३८ ॥
अ: आवासः पाप-हारिणि गाङ्गे वारिणि क्रियताम्, वा तरुण्याः मनोहारिणि हारिणि स्तन-द्वये (क्रियताम्)।
Let a dwelling be made on the banks of Ganga which destroys sins or on the beautiful garlanded breasts of a young lady.

किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैः
द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ शृ-३९ ॥
अ: इह बहुभिः युक्ति-शून्यैः प्रलापैः उक्तैः किम्? इह पुरुषाणां द्वयं सर्वदा सेवनीयम्, सुन्दरीणां अभिनव-मद-लीला-लालसं  स्तन-भर-परिखिन्नं यौवनं वा वनम् वा ।
What is the use of any number of sense-less talks? Here in this world there are two things for men worth serving: Either  the forest or the youth of beautiful ladies who are fatigued by the weight of their breasts and who ardently look forward to the novel pleasures of  youthful plays.
--
कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसतिर्वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ वै-३७ ॥
अ: गर्भ-वासे नियमित-तनुभिः कृच्छ्रेण अमेध्य-मध्ये स्थीयते । यौवने च उपभोगः कान्ता-विश्लेष-दुःख-व्यतिकर-विषमः । वृद्ध-भावः अपि वामाक्षीणां अवज्ञा-विहसित-वसतिः असाधुः । रे मनुष्याः! संसारे यदि सुखं किञ्चित् स्वल्पम् अस्ति किम्? वदत ।
 While in the womb, one stays amidst filth in a restricted form with difficulty; during youth, enjoyment is mixed with the pain of being away from the beloved; old age is also unpleasant being mocked at by smiling ladies with beautiful eyes. O men! Tell me, is there any tiny bit which is pleasant in this worldly life?  

व्याघ्रीव तिष्टति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ वै-३८ ॥
अ: जरा परितर्जयन्ती व्याघ्री इव तिष्ठति, रोगाः च देहं शत्रवः इव प्रहरन्ति, आयुः भिन्न-घटात् अम्भः इव परिस्रवति, तथा अपि लोकः अहितम् आचरति इति चित्रम् ।
Old age waits upon one threatening like a tigress; diseases strike the body like enemies; span of life leaks away like water from a broken pot; it is strange that even then people act in a harmful manner.

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः
तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशापाशशतोपशान्तिविशदं चेतः समाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ वै-३९ ॥
अ: रे लोकाः! बहु-विधाः भोगाः भङ्गुर-वृत्तयः, तैः एव अयं भवः । तत् कस्य कृते इह परिभ्रमत? चेष्टितैः कृतम् । अस्मद् वचः श्रद्धेयं यदि, आशा-पाश-शत-उपशान्ति-विशदं चेतः काम-उत्पत्ति-वशात् स्व-धामनि समाधीयताम् ।
O people!  All types of pleasures are of temporary nature; all the worldly problems are because of them only. For what purpose do you all run around? Stop your activities. If you have faith in what we say, bring your mind cleared by the cessation of hundreds of desires to meditate on the dwelling of your soul.
- - - -

No comments:

Post a Comment