Follow by Email

Saturday, August 29, 2015

Bhartruhari's Shatakas-16

भर्तृहरिशतकत्रयी-१६

जाड्यं ह्रीमति गण्यते व्रतशुचौ दम्भः शुचौ कैतवम्
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलिप्तता मुखरता वक्तव्यशक्तिः स्थिरे
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥ नी-४३ ॥
अ: ह्रीमति जाड्यं, व्रतशुचौ दम्भः, शुचौ कैतवम्, शूरे निर्घृणता, मुनौ विमतिता, प्रियालापिनि दैन्यम्, तेजस्विनि अवलिप्तता, स्थिरे वक्तव्यशक्तिः मुखरता गण्यते ।  गुणिनां सः कः नाम गुणः भवेत् यः दुर्जनैः न अङ्कितः?
 Shyness is considered as lethargy, purity in matters of religious vows is taken to be hypocrisy, being scrupulous in cleanliness is taken as deceit, being valorous is taken as being unkind, being a hermit is considered stupidity, being courteous is taken to be servility, being energetic is treated as arrogance, ability to speak in matters of conviction is taken as garrulousness. Is there any quality of a virtuous person which is not branded by the wicked?

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं बलेन महिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ नी-४४ ॥
अ: यदि लोभः अस्ति, अगुणेन किम्? यदि पिशुनता अस्ति पातकैः किम्? सत्यं चेत् तपसा  किम्? शुचि मनः यदि अस्ति तीर्थेन  किम्? सौजन्यं यदि अस्ति बलेन किम्? महिमा यदि अस्ति मण्डनैः  किम्? सद्विद्या यदि अस्ति धनैः किम्? अपयशः यदि अस्ति मृत्युना किम्?
If there is greed where is the need for bad qualities? If one slanders where is the need for sins? If one is truthful where is the need for doing penance? If one has purity in mind where is the need for pilgrimage? If there is benevolence where is the need for force? If one is great where is the need for ornaments? If there is right knowledge where is the need for money? If there is infamy where is the need for death?  

शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतिः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्तशल्यानि मे ॥ नी-४५ ॥
अ: दिवस-धूसरः शशी, गलित-यौवना कामिनी, विगत-वारिजं सरः, सु-आकृतेः अनक्षरं मुखम्, धन-परायणः प्रभुः, सतत-दुर्गतिः सज्जनः, नृप-अङ्गण-गतः खलः, (इमानि) मे मनसि सप्त-शल्यानि
Moon looking grey in day time, a passionate lady past her prime, a lake with water-lilies dried out, handsome face of an illiterate person, a lord who is after wealth, a virtuous person in dire straits all the time, a wicked courtier to a king, these seven hurt my mind.
--
तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥  शृ-४३ ॥
अ: (इयं) यावत् लोचन-गोचरा तावत् एव अमृतमयी । चक्षुः पथात् अतीता तु विषात् अपि अतिरिच्यते ।
So long as she is in sight she is full of ambrosia; once she is out of sight she is worse than poison.

नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ शृ-४४ ॥
अ: एतां नितम्बिनीं मुक्त्वा अमृतं न किञ्चित्, विषं न किञ्चित्, रक्ता (यदि) सा एव अमृत-लता विरक्ता यदि सा एव विष-वल्लरी ।
There is nothing like ambrosia or poison other than this graceful lady; if she is attached she is a creeper of ambrosia, if she is ill-disposed she is a poisonous vine.

आवर्तः संशयानामविनयभुवनं पट्टणं साहसानाम्
दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नः नरकपुरमुखं सर्वमायाकरण्डम्
स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ शृ-४५ ॥
अ: संशयानाम् आवर्तः, अविनय-भुवनम्, साहसानां पट्टणम्, दोषाणां सन्निधानम्, अप्रत्ययानां कपट-शत-मयं क्षेत्रम्, स्वर्ग-द्वारस्य विघ्नः, नरक-पुर-मुखम्, सर्व-माया-करण्डम्,
प्राणि-लोकस्य पाशः अमृतमयं विषम्, स्त्री-यन्त्रं केन सृष्टम्?
Who created this machine called woman, who is a whirl pool of doubts, a world of bad manners, a city of rashness, a source of follies, a field of several forms of untrustworthiness, an impediment to the door of heaven, the gateway to the city of hell, a bunch of all delusions, a snare for all beings, a poison looking like ambrosia?
--
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम्
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ वै-४३ ॥
अ: जीवितं आदित्यस्य गत-आगतैः अहः-अहः संक्षीयते । कालः अपि बहु-कार्य-भार-गुरुभिः व्यापारैः न ज्ञायते । जन्म-जरा-विपत्ति-मरणं दृष्ट्वा त्रासः च न उत्पद्यते । जगत् मोहमयीं प्रमाद-मदिरां पीत्वा उन्मत्त-भूतम् ।
With sun’s rising and setting span of life gets reduced; Passage of time is not noticed because of various pressing activities; one does not get anxious seeing birth, old age, disease and death; the world is intoxicated by drinking liquor of faults which causes delusion.

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनरुक्तभूतविषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥ वै-४४ ॥
अ: सा एव रात्रिः, पुनः सः एव दिवसः (इति) मुधा मत्वा जन्तवः उद्यमिनः तथा पुनः-उक्त-भूत-विषयैः व्यापारैः निभृत-प्रारब्ध-तत्-तत्-क्रियाः धावन्ति एव । इत्थंविधेन अमुना संसारेण कदर्थिता वयं मोहात् न लज्जामहे, अहो ।
 Living beings keep running, planning and secretly starting in the planned matters believing that night is the same and the day is the same. It is a pity that we do not feel ashamed of getting deluded by this type of demeaning worldly matters.

न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितम्
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ वै-४५ ॥  
अ: संसार-विच्छित्तये ईश्वरस्य पदं न ध्यातम्, स्वर्ग-द्वार-कपाट-पाटन-पटुः धर्मः अपि न उपार्जितः, नारी-पीन-पयोधर-ऊरु-युगलं स्वप्ने अपि न आलिङ्गितम् । वयं मातुः यौवन-वन-छेदे केवलं कुठाराः ।

We did not meditate on the abode of the Almighty for breaking the cycle of births; we did not earn religious merit capable of opening the doors of heaven; we did not embrace the heavy breasts and thighs of women even in our dreams. We are just axes which cut the garden of mothers’ youth.
- - - -  

No comments:

Post a Comment