Follow by Email

Saturday, August 22, 2015

Bhartruhari's Shatakas-15

भर्तृहरिशतकत्रयी-१५

यद्धात्रा निजभालपट्तलिखितं स्तोकं मह्द् वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ नी-४० ॥
अ: (नरः) धात्रा यत् निज-भाल-पट्ट-लिखितं स्तोकं वा महत् धनं तत् मरुस्थले अपि नितरां प्राप्नोति, अतः अधिकं मेरौ च न (प्राप्नोति) । (हे नर!), तत् धीरः भव, वित्तवत्सु वृथा कृपणां वृत्तिं मा कृथाः । पश्य, घटः कूपे पयोनिधौ अपि तुल्यं जलं गृह्णाति ।
 A person gets even in a desert whatever wealth has been written on his forehead whether small or large, and does not get anything more even on mount Meru. Therefore, man! Be brave, do not unnecessarily feel jealous of the wealthy. Look, a pot holds the same amount of water whether in a well or in an ocean.

अथ दुर्जनपद्धतिः
(Section on the wicked)
अकरुणत्वमकारणविग्रहः
परधने परयोषिति स्पृहा ।
सुजनबन्धुजनेष्वसहिष्णुता
प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ नी-४१ ॥
अ: अकरुणत्वम्, अ-कारण-विग्रहः, पर-धने पर-योषिति स्पृहा, सुजन-बन्धुजनेषु असहिष्णुता, दुरात्मनां इदं प्रकृति-सिद्धं हि ।
Being unkind, quarrelling without any reason, desire for others’ money or women, impatience towards good people and relatives; these qualities come naturally to the wicked.

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ नी-४२ ॥
अ: दुर्जनः विद्यया अलङ्कृतः अपि परिहर्तव्यः । असौ मणिना भूषितः सर्पः न भयङ्करः किम्?
A wicked person even if he is educated has to be neutralized; Is not a snake adorned with gem not fearsome? [ There is a myth that certain snakes carry a gem in their hoods.]
--
सत्यं जना वच्मि न पक्षपाता-
ल्लोकेषु सप्तस्वपि तथ्यमेतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुः न च कश्चिदन्यः ॥ शृ-४० ॥
अ: (हे) जनाः! सत्यं वच्मि, न पक्षपातात्, एतत् सप्तसु लोकेषु अपि तथ्यम् । नितम्बिनीभ्यः मनोहारि अन्यत् न (अस्ति), दुःख-एक-हेतुः कश्चित् अन्यः न च (अस्ति)
O people! I am telling the truth and without any bias. This is true in all the seven worlds. There is nothing as captivating as beautiful women and nothing else that causes grief.

अथ कामिनीगर्हणम्
( Censuring women)

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्-
पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुष्चेष्टितम् ॥ शृ-४१ ॥
अ: विद्वान्  अपि कान्ता इति उत्पल-लोचना इति विपुल-श्रोणी-भरा इति उन्नमत्-पीन-उत्तुङ्ग-पयोधरा इति सुमुख-अम्भोजा इति सुभ्रूः इति, प्रत्यक्ष-अशुचि-भस्त्रिकां स्त्रियम् दृष्ट्वा माद्यति,मोदते, अभिरमते, प्रस्तौति । अहो! मोहस्य दुः-चेष्टितम् ।
Looking at a woman who is nothing more than a dirty bellows, even a learned person gets enchanted, feels pleased, enjoys and praises her saying my dearest, you have eyes like blue lotuses, you have heavy hips, you have raised heavy breasts, your face is like a lotus and you have beautiful eye brows. Oh! How wicked is delusion!

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ शृ-४२ ॥
अ: सा स्मृता तापाय भवति, दृष्टा उन्माद-कारिणी च, स्पृष्टा मोहाय भवति, कथं दयिता भवति नाम ?
When remembered she causes sorrow; when seen she intoxicates; when touched causes delusion. How can she be the beloved?
--
ब्रह्मेन्द्रादिमरुद्गणान् तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवन्ति विभवाः त्रैलोक्यराज्यादयः ।
भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते
भो साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥ वै_४० ॥
अ: कः अपि भोगः यत्र स्थितः ब्रह्म-इन्द्र-आदि-मरुत्-गणान् तृण-कणान् मन्यते, यत्-स्वादात् त्रैलोक्य-राज्य-आदयः विभवाः विरसाः भवन्ति, सः एकः एव नित्य-उदितः जृम्भते । भो साधो! क्षण-भङ्गुरे तत्-इतरे भोगे रतिं मा कृथाः ।
There is an inexplicable pleasure which alone flourishes eternally lofty. Having obtained that pleasure one considers (divine dignitaries like) Brahma, Indra, the wind God and others equal to blades of grass, and having tasted that pleasure suzerainty over the three worlds becomes tasteless. O virtuous man!  Do not indulge in other transient pleasures.  

अथ कालमहिमानुवर्णनम्
( In praise of Time )
सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्वृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ वै-४१ ॥
अ: सा नगरी रम्या, सः नृपतिः रम्यः, तत् सामन्त-चक्रम्, तस्य पार्श्वे सा विदग्ध-परिषत्, ताः चन्द्र-बिम्ब-आननाः, सः उद्वृत्तः राजपुत्र-निवहः, ते बन्दिनः, ताः कथाः ! यस्य वशात् सर्वं स्मृति-पथम् अगात् तस्मै कालाय नमः ।
That beautiful city, that great king, that circle of vassals, that learned assembly by his side, those moon faced women, that haughty group of princes, those prisoners, and those stories! Our obeisance to Time on account of which everything is just a memory!

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैकः
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।
इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ वै-४२ ॥
अ: यत्र क्वचित् गृहे अनेकः अतिष्ठत्, अथ तत्र एकः तिष्ठति, अपि यत्र एकः तदनु बहवः अन्ते च न एकः अपि, इत्थं कल्यः कालः रजनि-दिवसौ द्वौ अक्षौ इव लोलयन्, भुवन-फलके प्राणि-
शारैः क्रीडति ।
In a house where there were many there is one now; where there was one, now there are many and in the end no one; thus time plays with the dices of day and night on the playing board of this world using living beings as play-pieces.
- - - - 

No comments:

Post a Comment