Follow by Email

Saturday, October 3, 2015

Bhartrhari's Shatakas-21

भर्तृहरिशतकत्रयी-२१

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं दृश्यते ।
अन्तःसागरशुक्तिमध्य पतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमजुषामेवं विधा वृत्तयः ॥ नी-५८ ॥
अ: सन्तप्त-अयसि संस्थितस्य पयसः नाम अपि न श्रूयते; तत् एव नलिनी-पत्र-स्थितं मुक्त-आकारतया दृश्यते; तत् अन्तः-सागर-शुक्ति-मध्य-पतितं मौक्तिकं जायते; प्रायेण अधम-मध्यम-उत्तम-जुषां वृत्तयः एवं विधाः ।
Nothing is heard of water on heated iron; the same water looks like a pearl on the leaf of a lotus plant; it becomes a pearl when it falls into an oyster shell; perhaps this is how a person’s surroundings decide his status of being bad, medium or good.  

यः प्रीणयेत्सुचरितैः पितरं स पुत्रः
यद्भर्तुरेव हितमिच्छति तत्कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं यत्
एतत्त्रयं जगति पुण्यकृतो लभन्ते ॥ नी-५९ ॥
अ: यः सु-चरितैः पितरं प्रीणयति सः पुत्रः; यत् भर्तुः एव हितम् इच्छति तत् कलत्रम्; यत् आपदि सुखे च सम-क्रियं तत् मित्रम्; जगति पुण्य-कृतः एतत् त्रयं लभन्ते ।
He is indeed a son who pleases his father with his good conduct; she is indeed a wife who wishes for the welfare of her husband; He is indeed a friend who is equally affected during good and bad times; those blessed in this world are endowed with all these three.
 
नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान्ख्यापयन्तः
स्वार्थान् सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।
क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान् दुर्जनान् दुःखयन्तः
सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ नी-६० ॥
अ: नम्रत्वेन उन्नमन्तः, पर-गुण-कथनैः स्वान् गुणान् ख्यापयन्तः, पर-अर्थे वितत-पृथुतर-आरम्भ-यत्नाः स्व-अर्थान् सम्पादयन्तः, क्षान्त्या एव आक्षेप-रूक्ष-अक्षर-मुखान् दुर्जनान् दुःखयन्तः आश्चर्य-चर्याः बहुमताः जगति कस्य न अभ्यर्चनीयाः? 
Reaching a lofty state by being humble, declaring one’s own qualities by talking of other’s good qualities, achieving one’s own objectives by striving to meet the requirements of others, bringing to grief wicked persons by their ability to endure: who in this world will not revere people of such astonishing conduct ?

--
वेश्यासौ मदनज्वाला रूपेन्धनविवर्धिता ।
कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ शृ-५८ ॥
अ: असौ वेश्या रूप-इन्धन-वर्धिता मदन-ज्वाला यत्र कामिभिः यौवनानि धनानि च हूयन्ते ।
This prostitute is a flame of lust fed by the fuel called beauty, where youth and money are sacrificed.

कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ।
चारभटचोरचेटकविटनटनिष्ठीवनशरावम् ॥ शृ-५९ ॥
अ: कः कुल-पुरुषः चार-भट-चोर-चेटक-विट-नट-निष्ठीवन-शरावम् वेश्या-अधर-पल्लवं मनोज्ञम् अपि चुम्बति?
Which well bred person would kiss the sprout- like lips of a prostitute which act a spittoon for spies, soldiers, thieves, slaves, paramours, actors even if they are appealing.

मधु तिष्ठति वाचि योषितां
हृदि हालाहलमेव केवलम् ।
अत एव निपीयतेऽधरो
हृदयं मुष्टिभिरेव ताड्यते ॥ शृ-६० ॥
अ: योषितां वाचि मधु तिष्ठति, हृदि केवलं हालाहलम्, अतः एव अधरः निपीयते, हृदयं मुष्टिभिः एव ताड्यते ।
There is honey in the words of women, but potent poison in their hearts; that is why their lips are drunk and bosoms pounded by fists.
--
अभुक्तायां यस्यां क्षणमपि न जातं नृपशतैः
भुवः तस्या लाभे क इव बहुमानः क्षितिभृताम् ।
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो
विवादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ वै-५८ ॥
अ: यस्याम् अभुक्तायां नृप-शतैः क्षणम् अपि न जातम्, तस्याः भुवः लाभे क्षितिभृतां कः इव बहुमानः? तत्-अंशस्य अंशे अपि तत्-अवयव-लेशे अपि जडाः पतयः विवादे कर्तव्ये प्रत्युत मुदं विदधति ।
Whereas hundreds of kings have enjoyed this earth without respite, where is the need for kings to feel esteemed in acquiring it? Stupid land lords who should really feel disturbed when acquiring a miniscule part of that earth feel happy!

मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य तमेव सङ्गरशतै राज्ञां गणा भुञ्जते ।
ते दद्युर्ददतोऽथवा किमपरं क्षुद्रा दरिद्रा भृशं
धिक्धिक्तान् पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्योऽपि ये ॥ वै-५९ ॥
अ: अयं सर्वः अपि जल-रेखया वलयितः मृत्-पिण्डः ननु, राज्ञां गणाः तम् एव सङ्गर-शतैः स्व-अंशीकृत्य भुञ्जते, ते ददतः अथवा दद्युः वा, क्षुद्राः दरिद्राः भृशम्, अपरम् किम्? तेभ्यः अपि ये धन-कणान् वाञ्छन्ति तान् पुरुष-अधमान् धिक् धिक् ।
This whole earth is a mass of mud bordered by water; kings enjoy that by partitioning through hundreds of battles; they are giving it up or will give up. Are they not lowly and deprived? Fie be to those worst of persons who seek pennies from such persons.

स जातः कोप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं  यस्योच्चैर्विनिहितमलङ्कारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ वै-६०  ॥
अ: यस्य धवलं कपालं मदन-रिपुणा मूर्ध्नि उच्चैः अलङ्कार-विधये विनिहितम्, सः कः अपि आसीत्, पुंसाम् अधुना प्राण-त्राण-प्रवण-मतिभिः कैश्चित् नृभिः नमद्भिः अयम् अतुल-दर्प-ज्वर-भरः कः? 
He was indeed somebody whose white skull bone Shiva, enemy of cupid, placed on his head as a decoration. Now what is this excessive fever of incomparable haughtiness of people while some persons whose minds are inclined towards saving their lives prostrate to them?
- - - - 

No comments:

Post a Comment