Follow by Email

Saturday, October 10, 2015

Bhartrhari's Shatakas-22

भर्तृहरिशतकत्रयी-२२

अथ परोपकारपद्धतिः
(Section on service to others)

भवन्ति नम्राः तरवः फलोद्गमैः
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकरिणाम् ॥ नी-६१ ॥
अ: तरवः फलोद्गमैः नम्राः भवन्ति,  घनाःनवाम्बुभिः दूरविलम्बिनः (भवन्ति), सत्पुरुषाः समृद्धिभिः अनुद्धताः, परोपकरिणाम् एष एव स्वभावः ।
Trees bend low when laden with fruits; clouds laden with fresh water hang over long distances; wealth does not make persons of virtue arrogant; this is the nature of those who are in the service of others.

श्रोत्रं श्रुतेनैव न कुण्डलेन
दानेन पाणिर्नतु कङ्कणेन ।
विभाति कायः करुणाकुलानां
परोपकारेण न चन्दनेन ॥ नी-६२ ॥
अ: श्रोत्रं श्रुतेन एव विभाति, कुण्डलेन न; पाणिः दानेन विभाति  तु कङ्कणेन न; करुणाकुलानां कायः परोपकारेण विभाति, चन्दनेन न ।
Ears look lustrous because of hearing divine matters and not because of ear-rings; hand looks lustrous because of giving not because of bracelet ; the body of those who are agitated with sympathy looks lustrous because of service to others and not due to smearing of sandal paste.

पद्माकरं दिनकरो विकचं करोति
चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते विहिताभियोगाः ॥ नी-६३ ॥
अ: दिनकरः पद्माकरं विकचं करोति,चन्द्रः कैरव-चक्रवालम् विकासयति, जलधरः न अभ्यर्थितः अपि जलं ददाति;  सन्तः परहिते स्वयं विहित-अभियोगाः ।
Sun opens up the assemblage of lotuses; moon makes the pool of white lotuses bloom; cloud gives water even when not requested; good persons are engaged in serving others on their own.
--

अथ सुविरक्तदुर्विरक्तपद्धतिः
Section on the right and wrong ways of renunciation

 धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीन पयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिमेति मनो न येषाम् ॥ शृ-६१ ॥
अ: धवल-आयत-लोचनानां तारुण्य-दर्प-घन-पीन-पयोधराणां क्षाम-उदर-उपरि-लसत्-त्रिवली-लतानां आकृतिं दृष्ट्वा येषां मनः न विकृतिम् एति ते एव धन्याः ।
They indeed are fortunate whose minds do not get disturbed looking at the form of ladies having white and broad eyes, whose breasts are hard and heavy in the form of arrogance of youth  and whose slender waists carry the creeper- like three folds.

बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थ एव श्रमस्ते ।
संप्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ शृ-६२ ॥
अ: बाले, अमी मन्थरा दृष्टिपाताः किं लीलामुकुलितं क्षिप्यन्ते? विरम विरम ते श्रमःव्यर्थः एव, सम्प्रति वयम् अन्ये, बाल्यम् उपरतम्, वन-अन्ते आस्था, मोहः क्षीणः, जगत्-जालं तृणम् इव आलोकयामः ।
Young damsel! Why are these languid glances playfully half-shut being thrown at me? Please stop, your efforts are wasted, we are different now, our youth is finished, we care for forests, our desires have weakened, we look upon the web of worldly affairs like a blade of straw.

इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ शृ-६३ ॥
अ: इयं बाला मां प्रति अनवरतम् इन्दीवर-दल-प्रभा-चोरं चक्षुः क्षिपति, अनया  किम् अभिप्रेतम् । अस्माकं मोहः गतः । स्मर-शबर-बाण-व्यतिकर-ज्वर-ज्वाला शान्ता,  तत् अपि वराकी न विरमति ।
This damsel is all the time casting towards me her eyes which rob the lustre of lotus petals. What is her intention? Our infatuation is gone; the flames of the fever due to the provocation of the arrow of hunter called Manmatha have subsided; even then this wretched lady does not stop. 

--
अथ मनःसम्बोधननियमनम्
( Addressing mind for restraint)
परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदयक्लेशकलितम् ।
प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगणो
विविक्तः सङ्कल्पः किमभिलषितं पुष्यति न ते ॥ वै-६१ ॥
अ: परेषां चेतांसि प्रतिदिवसम् बहुधा आराध्य प्रसादं नेतुं हृदयक्लेशकलितं किं विशसि ? त्वयि अन्तः प्रसन्ने स्वयम् उदित-चिन्तामणि-गणः विविक्तः सङ्कल्पः ते किम् अभिलषितं न पुष्यति?
After serving daily to gain the favour of other’s minds why do you get into the agony of heart? If you are calm within yourself, what is it that the thoughts that arise which act as the divine gem do not give you?

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतमननुस्मरन्नपि च भाव्यसङ्कल्पयन्
अतर्कितसमागमाननुभवामि भोगानहम् ॥ वै-६२ ॥
अ: चित्त!  किं मुधा परिभ्रमसि ? क्वचन स्वयं विश्राम्यतां, यत् यथा भवति तत् तथा भवति न अन्यथा ।अहम् अतीतम् अननुस्मरन् अपि च भावि असङ्कल्पयन् अतर्कित-समागमान् भोगान् अनुभवामि ।
Dear mind! Why do you wander in vain? Rest somewhere, what is going to happen will happen and not other wise. I enjoy unexpected pleasures forgetting the past and not thinking of the future.

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय-
श्रेयोमार्गमशेषदुःखशमनव्यापारपक्षं क्षणात् ।
स्वात्मीभावमुपैहि सन्त्यज निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥  वै-६३ ॥
अ: चेतः! एतस्मात् आयासकात् इन्द्रिय-अर्थ-गहनात् विरम । अशेष-दुःख-शमन-व्यापार-पक्षं श्रेयोमार्गम् क्षणात् आश्रय । स्वात्मीभावम् उपैहि, निजां कल्लोललोलां गतिं सन्त्यज, भूयो भङ्गुरां भवरतिं मा भज, अधुना प्रसीद ।

O mind! Stop getting into the tiring abyss of sensual matter; quickly take shelter in the beneficial path which is capable of quelling all the sorrow; look inwardly within yourself ; leave the state of mobility which is as changing as a wave, do not again get into the fragile desire of worldly affairs. Be tranquil. 
- - - - 

No comments:

Post a Comment