Follow by Email

Saturday, October 17, 2015

Bhartrhari's Shatakas-23

भर्तृहरिशतकत्रयी-२३
एते सत्पुरुषाः परार्थघटकाः स्वार्थान्परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ नी-६४ ॥
अ: ये स्वार्थान् परित्यज्य पर-अर्थ-घटकाः एते सत्पुरुषाः; ये स्वार्थ-अविरोधेन परार्थम् उद्यम-भृतः तु सामान्याः; ये स्वार्थाय परहितं निघ्नन्ति ते अमी मानुषराक्षसाः
ये निरर्थकं परहितं तु घ्नन्ति ते के न जानीमहे ।
Those who sacrifice their self-interest and indulge in serving others are the persons of virtue; they who work for others’ cause without hindering their self –interest are ordinary; those who destroy the interests of others for their own self-interest are demons in human form; we do not know who they are who kill others’ interests without any reason.  

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्ताः ॥ नी-६५ ॥
अ: पापात् निवारयति, हिताय योजयते, गुह्यं निगूहति, गुणान् प्रकटीकरोति ,आपद्गतं च न जहाति, काले ददाति सन्तः इदं सन्मित्रलक्षणम् प्रवदन्ति ।
He prevents committing sin, he engages you towards salutary action, he keeps secret what needs to be kept secret, he publicizes good deeds, he takes care of those who seek his shelter, he gives (what needs to be given) in time. Such are the qualities of a good friend according to virtuous people.

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।
गन्तुं पावकमुन्मनस्त्दभवद्दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ नी-६६ ॥
अ: पुरा क्षीरेण आत्मगत-उदकाय ते अखिलाः गुणाः दत्ताः हि, क्षीर-उत्तापम् अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः, मित्रापदं दृष्ट्वा पावकं गन्तुं उन्मनः तत् अभवत् ,
तेन जलेन युक्तं शाम्यति, सतां मैत्री पुनः तु ईदृशी ।
Long back milk gave away all its qualities to water which forms a part of milk; that water sacrificed itself in fire when it found milk getting burnt; seeing its friend in distress milk went up to get into fire; that is why milk cools down when water id added; such is the friendship of good people.[ Poet sees the quality of good friendship in the natural process of boiling milk.]  
--
किं कन्दर्प शरं कदर्थयसि रे कोदण्डटङ्कारितं
रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ शृ-६४ ॥
अ: रे कन्दर्प, कोदण्डटङ्कारितं शरं किं कदर्थयसि? रे रे कोकिल! कोमलं कल-रवं किं वा वृथा जल्पसि, मुग्धे! स्निग्ध-विदग्ध-चारु-मधुरैः लोलैः कटाक्षैः अलम्, चेतः! चुन्बित-चन्द्र-चूड-चरण-ध्यान-अमृतं वर्तते ।
O Cupid! Why do you torment by twanging the bow? O cuckoo! Why do you sing your soft tunes in vain? O guileless lady! Enough of  your smooth artful elegant and sweet unsteady glances. O mind! There exists the ambrosia of meditating on Siva’s head kissed by the moon. (go and seek it)

विरहेऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ।
हृदयं विघट्टितं चेत् सङ्गो विरहं विशेषयति ॥ शृ-६५ ॥
अ: येषां मनः परस्परं सङ्गतं विरहे अपि सङ्गमः खलु, हृदयं विघट्टितं चेत् सङ्गः विरहं विशेषयति ।
If the minds have met there is union even while separated; if the heart is broken union enhances the feeling of separation.

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमन्दिरम् ॥ शृ-६६ ॥
अ: यदि प्रियतमा न जीवति गतेन किं, यदि सा प्राणिति तथा अपि किम् ?
इति नवमेघमालिकां उदीक्ष्य पथिकः स्वमन्दिरम् न प्रयाति ।
“What is the use of my going if my beloved is not alive; what if she is alive even?” thinking thus, looking at the fresh series of clouds the traveller does not proceed towards his house.
--
मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीवनभुवानासङ्गमङ्गीकुरु ।
को वा वीचिषु बुद्बुधेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु च सुहृद्वर्गेषु च प्रत्ययः ॥ वै-६४ ॥
अ: चेतः! मोहं मार्जय, चन्द्रार्ध-चूडामणौ तां रतिम् उपार्जय, स्वर्ग-तरङ्गिणी-वन-भुवाम् आसङ्गम् अङ्गीकुरु, वीचिषु बुद्बुधेषु च तडित् लेखासु च श्रीषु च
ज्वाल-अग्रेषु च पन्नगेषु च सुहृद्-वर्गेषु च को वा प्रत्ययः?
O Mind! Sweep away delusion; earn love for Siva who has as his crescent gem the half moon; accept attachment to the banks of river Ganga. What type of trust can you have in waves, bubbles, lightning, wealth, flame of a fire, snakes and friends?

चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।
कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसी-
रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ॥ वै-६५ ॥
अ: चेतः! इमाम् अस्थायिनीं रमां सकृत् मा चिन्तय, भूपाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम् (च मा चिन्तय), कन्था-कञ्चुकिनः वाराणसी-
रथ्या-पङ्क्तिषु भवनद्वाराणि प्रविश्य पाणि-पात्र-पतितां भिक्षाम् अपेक्षामहे ।
O Mind! Never think of unstable Goddess of wealth, never think of the prostitute whose only business is to dwell on the eye-brows of kings; we shall seek alms which fall into the vessel held in our hands as we enter the doors of houses wearing rags in the streets of Varanasi.

अग्रे गीतं सरसकवयो पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम्  ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वम्
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ वै-६६ ॥
अ: चेतः! अग्रे गीतं, पार्श्वयोः दाक्षिणात्याः सरसकवयः, पश्चात् चामरग्राहिणीनाम् लीलावलयरणितं यदि एवम्  अस्ति भव-रस-आस्वादने लम्पटत्वम् कुरु
नो चेत् निर्विकल्पे समाधौ सहसा प्रविश ।
O Mind! There should be music in front, on the sides  skilled poets from the South, behind there should be the jingling of the bangles of ladies holding fans; if these thing are there enjoy yourself in worldly pleasures, if not enter the state of absolute meditation.
- - - - 

No comments:

Post a Comment