Follow by Email

Saturday, October 31, 2015

Bhartrhari's Shatakas-25

भर्तृहरिशतकत्रयी-२५

मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ नी-७० ॥
अ: मनसि वचसि काये पुण्य-पीयूष-पूर्णाः त्रिभुवनम् उपकार-श्रेणिभिः प्रीणयन्तः परगुण-परमाणून् नित्यं पर्वतीकृत्य निज-हृदि विकसन्तः सन्तः कियन्तः सन्ति?
How many saintly persons are there who are full of the ambrosia of meritorious acts, who please all the three worlds with a series of benefits and who after making a mountain of the miniscule good qualities of others feel satisfied in their heart?

अथ धैर्यपद्धतिः
( Section on courage)
रत्नैर्महाब्धेस्तुतुषुर्न देवा
न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं
न निश्चितार्थाद्विरमन्ति वीराः ॥ नी-७१ ॥
अ: देवाः महा-अब्धेः रत्नैः न तुतुषुः, भीम-विषेण भीतिं न भेजिरे, सुधां विना विरामं न प्रययुः । वीराः निश्चित-अर्थात् न विरमन्ति ।
The divine beings were not satisfied with the gems from the ocean, were not frightened by the terrible poison, did not rest till they got ambrosia. The brave do not stop till they attain their goal.

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्ननिहता विरमन्ति मध्याः ।
विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ नी-७२ ॥
अ: नीचैः विघ्न-भयेन न प्रारभ्यते खलु, मध्याः प्रारभ्य विघ्न-निहताः विरमन्ति, उत्तम-गुणाः मुहुः मुहुः विघ्नैः प्रतिहन्यमानाः अपि प्रारब्धं न परित्यजन्ति ।
Persons of inferior rank do not start the work fearing obstructions; persons of middle rank start and stop when obstructions come their way; persons of superior rank do not leave a work started despite obstructions coming their way again and again.
--
तावदेव कृतिनामपि स्फुरत्-
येष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां
ताड्यते चटुललोचनाञ्चलैः ॥ शृ-७० ॥
अ: कृतिनाम् अपि एषः निर्मल-विवेक-दीपकः तावत् एव स्फुरति यावत् एव कुरङ्ग-चक्षुषां चटुल-लोचन-अञ्चलैः न ताड्यते ।
A pious person’s light of faultless ability to discriminate shines only so long as he is not struck by the side glances of unsteady eyes of doe-eyed ladies.

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलय नयनानां को विहातुं समर्थः ॥ शृ-७१ ॥
अ: श्रुति-मुखर-मुखानां पण्डितानां केवलं सङ्ग-त्यागम् उद्दिश्य वार्ता वचसि केवलं भवति । कः कुवलय-नयनानाम् अरुण-रत्न-ग्रन्थि-काञ्ची-कलापं जघनं विहातुं समर्थः?
For scholars who are proficient in reciting the Vedas, the subject of detachment is just for talking. Who can let go the lotus-eyed ladies’ loins, the girdles of which have a red ruby at the knot?

स परप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ।
यस्मातपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः  ॥ शृ-७२ ॥
अ: यः युवतीः निन्दति असौ सः पर-प्रतारकः अलीक-पण्डितः, यस्मात् तपसः अपि फलं स्वर्गः स्वर्गे अपि च अप्सरसः ।
He is a false scholar who deceives others by castigating young women, because, the fruit of penance is heaven and there are divine-nymphs even in heaven.
--
पातालमाविशसि यासि नभो विलङ्घ्य
दिङ्मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथमात्मलीनं
न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ वै-७० ॥
अ: मानस! चापलेन भ्रान्त्या पातालम् आविशसि, नभः विलङ्घ्य यासि, दिङ्मण्डलं भ्रमसि, आत्म-लीनं ब्रह्म येन निर्वृतिम् एषि कथं न संस्मरसि?
O mind! Due to an unsteady delusion, you enter the nether world, jump up the sky and wander around the earth; how is it that you do not remember the Brahman which is merged with the self with the help of which you get beatitude?

अथ नित्यानित्यवस्तुविचारः
(Discussion on permanent and impermanent things)

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ वै-७१ ॥
अ: वेदैः स्मृतिभिः पुराण-पठनैः महा-विस्तरैः शास्त्रैः स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः किम्? भव-दुःख-भार-रचना-विध्वंस-काल-अनलं स्व-आत्म-आनन्द-पद-प्रवेश-कलनं एकं मुक्त्वा शेषैः वणिक्-वृत्तिभिः (किम्)?
What is the use of Vedas, Codes of conduct, elaborate scriptures and restless actions and rituals whose fruits are heaven, rural residence etc.? What is the use of commercial activities other than the one which acts as a conflagration at the end of Time destroying the burden of the grief of worldly affairs and which enables ones entry into the abode of inner joy. 

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः
समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छ्त्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ वै-७२ ॥
अ: यतः श्रीमान् मेरुः युग-अन्त-अग्नि-वलितः निपतति, प्रचुर-मकर-ग्राह-निलयाः समुद्राः शुष्यन्ति, धरणि-धर-पादैः अपि धृता धरा अन्तं गच्छति, करि-कलभ-कर्ण-अग्र-चपले शरीरे का वार्ता?

Where is the question of (the permanency) of this body which is as unsteady as the ear-tips of an elephant, when even the richly endowed mountain Meru falls engulfed by the annihilating Fire, oceans which house sharks and crocodiles dry up and the earth held firm by the mountains collapses?
- - - -  

No comments:

Post a Comment